यु॒क्ता मा॒तासी᳚द्धु॒रि दक्षि᳚णाया॒ अति᳚ष्ठ॒द्गर्भो᳚ वृज॒नीष्व॒न्तः ।
अमी᳚मेद्व॒त्सो अनु॒ गाम᳚पश्यद्विश्वरू॒प्यं᳚ त्रि॒षु योज᳚नेषु ॥
अमी᳚मेद्व॒त्सो अनु॒ गाम᳚पश्यद्विश्वरू॒प्यं᳚ त्रि॒षु योज᳚नेषु ॥
पदपाठः (Word-by-word)
यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि᳚णायाः । अति᳚ष्ठत् । गर्भः᳚ । वृ॒ज॒नीषु᳚ । अ॒न्तरिति᳚ ।
अमी᳚मेत् । व॒त्सः । अनु᳚ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒॑रू॒प्य᳚म् । त्रि॒षु । योज᳚नेषु ॥
अमी᳚मेत् । व॒त्सः । अनु᳚ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒॑रू॒प्य᳚म् । त्रि॒षु । योज᳚नेषु ॥
सायणभाष्यम् (Sayana Commentary)
मातनिर्मीयन्तेऽस्मिन्भूतानीतिमाताद्यौः दक्षिणायाः अभिमतपूरणसमर्थायाः प्रुथिव्याः धुरिनि- र्वहणेयुक्तासीत् वर्षणायसमर्थाभूदित्यर्थः कथमितितदुच्यते—गर्भोगर्भस्थानीयउदकसंघोव्रुजनीषु उदकवत्सु मेघपङ्किष्वन्तर्मध्ये अतिष्ठत् तिष्ठति अनन्तरं वत्सः पुत्रस्थानीयः उदकसंघः त्रिषुयोज- नेषु मेघरश्मिवायुषुसंयुक्तेषुसत्सु अमीमेत् वर्षणसमयेशब्दयति अनन्तरं विश्वरूप्यं विश्वरूपवतीं- गामन्वपश्यत् अनुक्रमेणपश्यति वर्षतीत्यर्थः यद्वा त्रिषुयोजनेषुसत्सु वत्सोमेघोवर्षणायगांभूमिंप्र- त्यमीमेत् अनन्तरंसर्वोजनोऽनुक्रमेणविश्वरूप्यंसस्यादिभिर्नानारूपवतींभूमिमपश्यत् पश्यति ॥ ९ ॥