सू॒य॒व॒साद्भग᳚वती॒ हि भू॒या अथो᳚ व॒यं भग᳚वन्तः स्याम ।
अ॒द्धि तृण᳚मघ्न्ये विश्व॒दानीं॒ पिब᳚ शु॒द्धमु᳚द॒कमा॒चर᳚न्ती ॥
अ॒द्धि तृण᳚मघ्न्ये विश्व॒दानीं॒ पिब᳚ शु॒द्धमु᳚द॒कमा॒चर᳚न्ती ॥
पदपाठः (Word-by-word)
सु॒य॒व॒स॒॑अत् । भग᳚॑वती । हि । भू॒याः । अथो॒ इति᳚ । व॒यम् । भग᳚॑वन्तः । स्या॒म॒ ।
अ॒द्धि । तृण᳚म् । अ॒घ्न्ये॒ । वि॒श्व॒॑दानी᳚म् । पिब᳚ । शु॒द्धम् । उ॒द॒कम् । आ॒॑चर᳚न्ती ॥
अ॒द्धि । तृण᳚म् । अ॒घ्न्ये॒ । वि॒श्व॒॑दानी᳚म् । पिब᳚ । शु॒द्धम् । उ॒द॒कम् । आ॒॑चर᳚न्ती ॥
सायणभाष्यम् (Sayana Commentary)
हेअघ्न्ये गोनामैतत् अहननीयेहेगौस्त्वं सूयवसात् शोभनयवसस्यतृणादिकस्यान्त्रीषती भगवती भगइतिधननाम सर्वैर्भजनीयप्रभूतक्षीरादिधनवती भूयाः भव हिःपूरणःप्रसिद्धौवा लोकेयवसादिभ- क्षणेन क्षीरादिसमृद्धिःप्रसिद्धा अथोअनन्तरमेव वयं यजमानाअपिभगवन्तः प्रभूतेनधनेनतद्वन्तः स्याम अथैकवारंपूर्वमुक्तं इदानीं सर्वदकर्तव्यमितिप्रार्थयते विश्वदानीं विश्वकालंसर्वदा तृणमद्धिभ- क्षय आचरन्ती सर्वतोनिर्गच्छन्ती शुद्धंनिर्मलमुदकंपिब । अयंमन्त्रोयास्केनैवंव्याख्यातः—सुयवसा- दिनीभगवतीहिभवाथेदानींवयंभगवन्तः स्यामाद्धितृणमघ्न्येसर्वदापिबचशुद्धमुदकमाचरन्तीति ॥ ४० ॥