प्रथमं मण्डलम् - सूक्तम् 6

10 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.6 - सम्पूर्णम्

1 / 10
ऋक्: 1.6.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.6.1
यु॒ञ्जन्ति᳚ ब्र॒ध्नम᳚रु॒षं चर᳚न्तं॒ परि᳚ त॒स्थुषः᳚ ।
रोच᳚न्ते रोच॒ना दि॒वि ॥
▶ पदपाठः (Word-by-word)
यु॒ञ्जन्ति᳚ । ब्र॒ध्नम् । अ॒रु॒षम् । चर᳚न्तम् । परि᳚ । त॒स्थुषः᳚ ।
रोच᳚न्ते । रो॒च॒ना । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रो हि परमैश्वर्ययुक्तः । परमैश्वर्यं चाग्निवाय्वादित्यनक्षत्ररूपेणावस्थानादुपपद्यते । ब्रध्नमादित्यरूपेणावस्थितं अरुषं हिंसकरहिताग्नि रूपेणावस्थितं चरंतं वायुरूपेण सर्वतः प्रसरंतमिंद्र परि तस्थुषः परितोऽवस्थिता लोकत्रयवर्तिनः प्राणिनो युंजंति । स्वकीये कर्मणि देवतात्वेन संबद्धं कुर्वंति । तस्मैवेंद्रस्य मूर्तिविशेषभूतानि रोचना रोचनानि नक्षत्राणि दिवि द्युलोके रोचंते । प्रकाशंते । अस्य मंत्रस्योक्तार्थपरत्वं ब्राह्मणांतरे व्याख्यातम् । युंजंति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति । अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरंतमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परि तस्थुष इत्याह । इमे वै लोकाः परि तस्थुषः । इमानेवास्मै लोकान्युनक्ति । रोचंते रोचना दिवीत्याह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति । तै ब्रा ३-९-४-१ । इति । पंचविंशति संख्याकेषु महन्नामसु महो ब्रध्न इति पठितम् । आदित्यस्यापि महत्वादेव ब्रध्नत्वं ॥ युंजंति । अंतेः प्रत्ययस्वरेणाद्युदात्तत्वम् । ब्रध्नम् । प्रातिपदिकांतोदात्तः । अरुषम् । उष रुष रिष हिंसार्थाः । रोषंतीति रुषा हिंसकाः । इगुपधज्ञाप्रीकिरः कः (पा ३-१-१३५) इति कः । प्रत्ययस्वरेणोदात्तः । न संति रुषा यस्यासावरुषः नञ् सुभ्याम् (पा ६-२-१७२) इत्युत्तरपदांतोदात्तत्वम् । आमिपूर्वः (पा ६-१-१०७) इति पूर्वरूप एकादेश उदात्तेनोदात्तः (पा ८-२-५) इत्युदात्तत्वम् । चरंतम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुतस्वरेण धातु स्वर एव शिष्यते । तस्थुषः । तिष्ठतेर्लिटः । क्वसुरादेशः (पा ३-२-१०७) वस्वेकाचाद्छसां पा ७-२-६७ । इतीटमंतरंगमपि बाधित्वा संप्रसारणं संप्रसारणाश्रयं च बलीयः । म ६-१-१७-२ । इति शसि परतो भत्वात् (पा १-४-१८) वसोः संप्रसारणम् (पा ६-४-१३१) परपूर्वत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वं वसोः । प्रत्ययस्वरेणोदात्तत्वम् । रोचंते । तिङो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । रोचना अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति युच् । युवोरानाकौ (पा ७-१-१) इत्यनादेसः । चित इत्यंतोदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ १ ॥

1.6.2
यु॒ञ्जन्त्य᳚स्य॒ काम्या॒ हरी॒ विप᳚क्षसा॒ रथे᳚ ।
शोणा᳚ धृ॒ष्णू नृ॒वाह᳚सा ॥
▶ पदपाठः (Word-by-word)
यु॒ञ्जन्ति᳚ । अ॒स्य॒ । काम्या᳚ । हरी॒ इति᳚ । वि॑प᳚क्षसा । रथे᳚ ।
शोणा᳚ । धृ॒ष्णू इति᳚ । नृ॒॑वाह᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य ब्रध्नादिशब्दप्रतिपाद्यस्यादित्यादिमूर्तिभिस्तत्र तत्रावस्थितस्येंद्रस्य रथे हरी एतन्नामानौ द्वावश्वौ सारथयो युंजंति । इंद्रसंबंधिनॊरश्वयोर्हरिनामत्वं हरी इंद्रस्य रोहितोऽग्नेः । नै १-१५ । इति पठितत्वात् । कीदृशौ हरी । काम्या कामयितव्यौ विपक्षसा । विविधे । पक्षसी रथस्य पार्श्वौ ययोरश्वयोस्तौ विपक्षसौ । रथस्य द्वयोः पार्श्वयोर्योजितावित्यर्थः । शोणा रक्तवर्णौ धृष्णू प्रगल्भौ नृवाहसा नृणां पुरुषाणामिंद्र तत्सारथिप्रमुखाणां वोढारौ ॥ अस्य ब्रध्नमित्युक्तस्य परामर्शादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यश् । शित्त्वात् पा १-१-५५ । सर्वादेशोऽनुदात्तः । विभक्तिरनुदात्तैवेति सर्वानुदात्तत्वम् । काम्या । कमु कांतौ । कमेर्णिङ् (पा ३-१-३०) कामयतेरचो यत् (पा ३-१-९७) शित्स्वरितापवादत्वेन यतोऽनाम (पा ६-१-२१३) इत्याद्युदात्तत्वम् । सुपाम् । सुलुगिति द्विवचनस्य डादेशः । हरतो रथमिति हरी । हृषषीत्यादिना (उ ४-११८) इन् । नित्त्वादाद्युदात्तः । विपक्षसा । पचिवचिभ्यां सुट् च (उ ४-२१९) इति पचेरसुन् सुडागमश्च । विभिन्ने पक्षसी पार्श्वौ ययोस्तौ । विशब्दो निपातत्वादुदात्तः । पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । द्विवचनस्य डादेशः । रथे । रमंतेऽस्मिन्निति रथः । रमु क्रीडायाम् । हनिकुषिनीरमिकाशिभ्यः क्थन् । उ २ । २ । इतिक्थन् । कित्त्वादनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । नित्स्वरेणाद्युदात्तः । शोणा । शोणृ वर्णगत्योः । गमनकरणत्वात्करणे घञ् । ञुत्त्वादाद्युदात्तः । सुपां सुलुगिति डादेशः । धृष्णू । ञुधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । नृवाहसा । न न्वहत इति वहेर्वहिहाधाञ् भ्यश्छंदसि (उ ४-२२०) इत्यसुन् । णिदित्यनुवृत्तेर्वृद्धिः । नित्त्वादाद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते ॥ २ ॥

1.6.3
के॒तुं कृ॒ण्वन्न᳚के॒तवे॒ पेशो᳚ मर्या अपे॒शसे᳚ ।
समु॒षद्भि᳚रजायथाः ॥
▶ पदपाठः (Word-by-word)
के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे᳚ । पेशः᳚ । म॒र्याः॒ । अ॒पे॒शसे᳚ ।
सम् । उ॒षत्॑भिः᳚ । अ॒जा॒य॒थाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मर्या मनुष्या इदमाश्चर्यं पश्यतेत्यध्याहारः । किमाश्चर्यमिति तदुच्यते । आदित्यरूपोऽयमिंद्र उषद्भर्दाहकैः रश्मिभिः प्रतिदिनमुषःकालैर्वा संभूयाजायथाः । उदपद्यत । अथवा सूर्यस्यैवास्तमये मरणमुपचर्य । व्यत्ययेन बहुवचनं कृत्वा संबोधनं क्रियते । हे मर्य प्रतदिनं त्वमजायथा इति योज्यं किं कुर्वन् । अकेतवे रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय प्राणिने केतुं कृण्वन् । प्रातः प्रज्ञानं कुर्वन् । आपेशसे रात्रावंधकारावृतत्वेनानभिव्यक्तत्त्वाद्रूपरहिताय पदार्थाय प्रातरंधकारनिवारणेन पेशो रूपमभिव्यज्यमानं कुर्वन् । पेश इति रूपनाम पिंशते (नि ८-११) इति यास्क । अकेतवेऽपेशस इति चतुर्थौ षष्ठ्येर्थे द्रष्वव्यौ ॥ केतुं प्रातिपदिकस्वरः कृण्वन् कृवि हिंसाकरणयोश्च । लटः शत्रा देशः । इदितो नुम् धातोः (पा ७-१-५८) इति नुमागमः । कर्तरि शपि प्राप्ते धिन्विकृण्व्योरच (पा ३-१-८०) इत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । अतो लोपः (पा ६-४-४८) इत्यकारलोपः । तस्य स्थानिवद्भावात्पूर्वस्य लघूपधगुणो न भवति (पा ७-४-८६) अकारस्य प्रत्यय स्वरेणोदात्तत्वम् । अकेतवे । बहुव्रीहौ नञ् सुभ्याम् (पा ६-२-१७२) इत्युत्तरपदांतोदात्तत्वम् । पेशः नब्विषयस्यानिसंतस्य (फि २-३) इत्याद्युदात्तः । मर्याः । छंदसि निष्वर्क्येत्यादौ (पा ३-१-१२३) म्रियतेर्निपातः । आमंत्रितनिघातः (पा ८-१-१९) असामर्थ्यात्पूर्वस्य न परांगवद्भावः । अपेशसे । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सम् । निपात आद्युदात्तः । उषद्भिः । उष प्लुष दाहे । ज्वलद्भिः रश्मिभिः । लटः शत्रादेशे शपि प्राप्ते व्यत्ययेन शः । सार्वधातुकमपित् (पा १-२-४) इति तस्य ङित्त्वाल्लघूपधगुणो न भवति । शस्य प्रत्ययस्वरेणोदात्तत्वं उपरि शतुरदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । एकादेश उदात्तेनोदात्तः । अजायथाः । अजायतेत्यर्थे पुरुषव्यत्यये निघातः ॥ ३ ॥

1.6.4
आदह᳚ स्व॒धामनु॒ पुन᳚र्गर्भ॒त्वमे᳚रि॒रे ।
दधा᳚ना॒ नाम᳚ य॒ज्ञिय᳚म् ॥
▶ पदपाठः (Word-by-word)
आत् । अह᳚ । स्व॒धाम् । अनु᳚ । पुनः᳚ । ग॒र्भ॒॑त्वम् । आ॒॑ई॒रि॒रे ।
दधा᳚नाः । नाम᳚ । य॒ज्ञिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्र आदह स्वधामन्विति द्वे ऋचौ । इंद्रेण सं हि दृक्षस इत्येका । अयं तृचः षळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं चतुर्विंशे होताजनिष्टेति खंडे । इंद्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च (आ ७-२) इति । यद्यप्येतदैंद्र सूक्तं तथाप्यादहेत्यादिषु षट्सु मरतो वर्ण्यंते । प्रयेणैंद्र मरुत इत्यनुक्रमणि कायामुक्तत्वात् । अनु २-२२ ॥ आदित्ययमानंतर्यार्थो निपातः । अहेत्यवधारणार्थः । आदह वर्षतोरनंतरमेव । स्वधामनु । इतः परं जनिष्यमाणनन्नमुदकं वानुलक्ष्य मरुतो देवा गर्भत्वमेरिरे । मेघमध्ये जलस्य गर्भाकारं प्रेरितवंतः । जलस्य कर्तारं पर्जन्यं प्रेरितवंतः । प्रतिसंवत्सरमेवं कुर्वंतीति दर्शयितुं पुनःशब्दः प्रयुक्तः । कीदृशा मरुतः । यज्ञियं यज्ञार्हं नाम दधाना धारयंतः । सप्तसु गणेषु मरुतामीदृङ्चान्यादृङ्चेत्यादीनि यज्ञयोग्यानि नामान्यन्यत्राम्नातानि । अंध इत्यादिष्वष्वाविंशति संख्याकेष्वन्ननामसूर्क् रसः स्वधेति पठितम् । अर्ण इत्यादिष्वेकशतसंख्याकेषूदकनामसु तेजः स्वधाक्षरमिति पठितं ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति । स्वधा । आतोऽनुपससर्गे कः (पा ३-२-३) कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्धौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अंतर्भावितण्यर्थादीर गतावित्यस्मादनुदात्तेतः परस्य लिटो झस्य इरेच् (पा ३-४-८१) चित्त्वादंतोदात्तः । सह सुपा (पा २-१-४) इत्यत्र सुपेति योगविभागादाङा सह तिङः समासेऽपि समासस्य (पा ६-१-२२३) इत्यंतोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः (पा ३-१-३६) इत्याम् न भवति मंत्रत्वात् । अहशब्दयोगान्निघाताभावः । तुपश्यपश्यताहैः पूजायाम् (पा ८-१-३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादंतोदात्तत्वे प्राप्तेऽभ्यस्तानामादिः (पा ६-१-१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । यज्ञर्त्विग्भ्यां घखञौ (पा ५-१-७१) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (पा ७-१-२) इतीयादेशः । प्रत्ययस्वरेणेकार उदात्त ॥ ४ ॥

1.6.5
वी॒ळु चि᳚दारुज॒त्नुभि॒र्गुहा᳚ चिदिन्द्र॒ वह्नि᳚भिः ।
अवि᳚न्द उ॒स्रिया॒ अनु᳚ ॥
▶ पदपाठः (Word-by-word)
वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नु॑भिः᳚ । गुहा᳚ । चि॒त् । इ॒न्द्र॒ । वह्नि᳚॑भिः ।
अवि᳚न्दः । उ॒स्रियाः᳚ । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्ति किंचिदुपाख्यानं पणिभिर्देवलोकाद्गावोऽपहृता अंधकारे प्रक्षिप्ताः ताश्चेंद्रो मरुद्भिः सहाजयदिति । एतच्चानुक्रमणिकायां सूचितं पणिभिरसुरैर्निगूळ्हा गा अन्वेष्वुं सरमां देवशुनीमिंद्रेण प्रहितामयुग्भिः पणयो मित्रीयंतः प्रोचुः अनु । ऋग्वे । १०-१०८ । इति । मंत्रांतरे च दृष्टांततया सूचितम् । निरुद्धा आपः पणिनेव गावः । ऋग्वे १-३२-११ । इति । तदेतदुपाख्यानमभिप्रेत्योच्यते ॥ हे इंद्र वीळु चिद्दृढमपि दुर्गमस्थानमारुजत्नुभिर्भंजद्भिर्वह्निभिर्वोढभिरन्यत्र नेतुं समर्थैर्मरुद्भिः सहितस्त्वं गुहा चित् गुहायामपि स्थापिता उस्रिया गा अन्वविंदः । अन्विष्य लब्धवानसि । ओजः पाज इत्यादिष्वष्वाविंशति संख्याकेषु बलनामु दक्षो वीळु च्यौत्नमिति पठितम् । नवसंख्याकेषु गोनामस्वघ्न्योस्रोस्रियेति पठितं ॥ वीळु ॥ प्रातिपदिकस्वरः । चित् । चादिरनुदात्तः । आरुजत्नुभिः । रुजो भंग इत्यौणादिकः कत्नुच् प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादुतोदात्तत्वं समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । गुहा । सप्तम्या डादेशः । ग्रामादीनां च (फि २-१५) इत्याद्युदात्तः । वह्निभिः । वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् (उ ४-५१) इति वहेर्निप्रत्ययः । नित्त्वादाद्युदात्तः । अविंदः । शे मुचादीनाम् (पा ७-१-५९) इति सुमागमः । लुङ् लङ् लृङ् क्ष्वडुदात्तः (पा ६-४-७१) वसंतीत्युस्रियाः । वसेः कर्तरि रियक्षत्ययः । षत्वाभावश्च बाहुलकादूहनीयः । उक्तं हि । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यमिति । इकारः प्रत्ययस्वरेणोदात्तः ॥ ११ ॥ ५ ॥

1.6.6
दे॒व॒यन्तो॒ यथा᳚ म॒तिमच्छा᳚ वि॒दद्व᳚सुं॒ गिरः᳚ ।
म॒हाम᳚नूषत श्रु॒तम् ॥
▶ पदपाठः (Word-by-word)
दे॒व॒॑यन्तः᳚ । यथा᳚ । म॒तिम् । अच्छ᳚ । वि॒दत्॑व᳚सुम् । गिरः᳚ ।
म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवयंतो मरुत्संज्ञकान्देवानिच्छंतो गिरः स्तोतार ऋत्विजो महां प्रौढं मरुद्गणमच्च प्राप्तुमनूषत । स्तुतवंतः । कीदृशं मरुद्गणम् । विदद्वसुम् । वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्धनैर्युक्तं श्रुतं विख्यातम् । मरुद्गणस्य दृष्टांतः । यथा मतिम् । मंतारमिंद्रं यथा स्तुवंति तथेत्यर्थः ॥ देवयंतः । देवानात्मन इच्छंतः । सुप आत्मनः क्यच् । पा ३-१-८ ॥ क्यचि च (पा ७-४-३३) इतीत्वमकृत्सार्वधातुकयोर्दीर्घः (पा ७-४-२५) इति दीर्घत्वं च न भवति । न च्छंदस्य पुत्रस्य (पा ७-४-३५) इत्यनेन क्यचि यत्प्राप्तमित्वं दीर्घत्वं वा तस्य सर्वस्य प्रतिषेधात् । यद्यपीत्वमेव प्रकृतं तथापि व्यवहितस्यापि दीर्घत्वस्य स प्रतिषेध इति विज्ञायते । अश्वायंत इत्यादावश्वाघस्यात् (पा ७-४-३७) इत्यात्वविधानादिति ह्युक्तम् । क्यजंताच्छतृप्रत्ययः । क्यचश्चित्त्वाच्चित इत्यंतोदात्तत्वम् । शपः । पित्त्वेन शतुश्च लसार्वधातुकस्वरेणानुदात्तत्व एकादेश उदात्तेनोदात्त इत्युदात्तः । यथा । प्रकारवचने थाल् (पा ५-३-२३) लिति । वा ६-१-१९३ । इति प्रत्ययात्पूर्वमुदात्तत्वम् । मतिम् । मंत्रे वृषेषपचमनेत्यादिना (पा ३-३-९६) क्तिन्नुदात्तः । मति शब्दो ज्ञानपरोऽप्युपचाराज्ञ्जातरींद्रे वर्तते । अथवा पदांतरे विशेष्यानुपादानादिंद्रस्यैषा संज्ञा । ततश्चत्तिच् क्तौ च संज्ञायाम् (पा ३-३-१७४) इति मन्यतेः कर्तरि क्तिच् । तस्योपदेशेऽनुदात्तत्वादिट् प्रतिषेधः (पा ७-२-१०) चित्त्वादंतोदात्तत्वम् । अच्च । अध्याहृतगच्छत्यर्थयोगादच्छ गत्यर्थवदेषु (पा १-४-६९) इति गतिसंज्ञया सह निपातसंज्ञाया अपि समावेशात् (पा १-४-६०) निपाता आद्युदात्ताः (फि ४-१२) इत्याद्युदात्तत्वम् । विदद्वसुम् । विद ज्ञान इत्यस्मादंतर्भावितण्यर्थाच्छतृप्रत्यये विदंत्यौदार्यातिशयवत्तया ज्ञापयंति वसूनि धनानि यं स विदद्वसुः । विदेः शतृप्रत्ययेऽदिप्रभृतिभ्यः शपः (पा २-४-७२) इति शपो लुकि प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । गृणंति स्तुवंतीति गिरः । गृणातेः क्विप्यृत इद्धातोः । पा ७-१-१०० इतीत्वं रपरत्वम् । धातुस्वरेणोदात्तत्वम् । महाम् । महांतम् । नकारतकारयोर्लोपश्चांदसः । प्रातिपदिकस्वरेणोदात्तत्वम् । अनूषत । णु स्तुतौ । व्यत्ययेना ॥ त्मनेपदम् । लुङि झस्यादादेसः (पा ७-१-५) सिचि कुटादित्वेन (पा १-२-१) ङित्त्वाद्गुणाभावः । इडभाव उकारदीर्घत्वं च छांदसम् । निघातः । श्रुतम् । प्रत्ययस्वरः ॥ ६ ॥

1.6.7
इन्द्रे᳚ण॒ सं हि दृक्ष᳚से संजग्मा॒नो अबि᳚भ्युषा ।
म॒न्दू स᳚मा॒नव᳚र्चसा ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ण । सम् । हि । दृक्ष᳚से । स॒म्॑ज॒ग्मा॒नः । अबि᳚भ्युषा ।
म॒न्दू इति᳚ । स॒मा॒न॑व᳚र्चसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुद्गण त्वमिंद्रेण संजग्मानः संगच्छमानः सं दृक्षसे हि । सम्यग्दृश्येथाः खलु । अवश्यमस्माभिर्द्रष्टव्य इत्यर्थः । कीदृशेनेंद्रेण । अभिभ्युषा भीतिरहितेन । कीदृशाविंद्रमरुद्गणौ । मंदू नित्यप्रमुदितौ समानवर्चसा तुल्यदीप्तीपुरा कदाचिद्वृ त्रवधदशायामिंद्रस्य सखायः सर्वे देवा वृत्रश्वासेनापसारिताः । तदानीमिंद्रस्य वृत्रसंबंधिसकलसेनाजयार्थं मरुद्भिः संगमोऽभूत् । सोऽयमर्थो वृत्रस्य त्वा श्वसथात् । ऋग्वे ८-९६-७ । इति मंत्रे संगृहीत इंद्रो वै वृत्रं हनिष्यन् । ऐ ब्रा ३-२० । इति ब्राह्मणे प्रपंचितश्च । इंद्रशब्दः परमैश्वर्यवंतं मरुद्गणं नाभिधत्ते । तदानीमिंद्रस्य संबोधनं बहिरेवाध्याहर्तव्यम् । तथा चेयमृग्यास्केन व्याख्याता । इंद्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन मंदू मदिष्णू युवां स्थोऽपि वा मंदुना तेनेति स्यात्समानवर्चसेत्येतेन वाख्यातम् (नि ४-१२) इति ॥ सं दृक्षसे । संपश्येथाः । दृशेश्चेति वक्तव्यम् । पा १-३-२९-२ । इत्यात्मनेपदं दृशेर्लिङर्थे लेट् (पा ३-४-७) इति प्रार्थनायां लेट् । थासः से (पा ३-४-८०) लेटोऽडाटौ (पा ३-४-९४) इत्यडागमः । सिब्बहुलं लेट (पा ३-१-३४) इति सिप् । संज्ञापूर्वको विधिरनित्य इति गुणाभावः । व्रश्चादिना षत्वम् (पा ८-२-३६) षढोः कः सि (पा ८-२-४१) इति कत्वम् । आदेशप्रत्यययोः (पा ५-३-५९) इति सिपः षत्वम् । बहुलग्रहणात्सिपः परस्ताच्छबसि भवति (पा २-४-७३) सिपा व्यवधानात्पश्यादेशो न भवति (पा ७-३-७८) शपः पित्त्वादनु दात्तत्वम् । उत्तरस्य लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । हिशब्दयोगात्तिङ्ङतिङ इति निघातो न भवति । हि च (पा ८-१-३४) इति प्रतिषेधात् । संजग्मानः गमे संपूर्वाच्छंदसि लुङ् लङ् लटः (पा ३-४-६) इति वर्तमाने लिट् । समो गम्यृच्छिभ्याम् (पा १-३-२९) इत्यात्मनेपदविधानाल्लिटः कानजादेशः (पा ३-२-१०६) द्विर्भावः (पा ६-१-८) हलादिशेषः पा ७-४-६० । अभ्यासस्य चुत्वं पा ७-४-६२ । गमहनेत्युपधालोपः (पा ६-४-९८) कानचश्चित्त्वा दंतोदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अभिभ्युषा । ञभी भये । पूर्ववल्लिट् । शेषात्कर्तरि परस्मैपदं ॥ पा १-३-७८ । इति परस्मैपदम् । क्वसुश्च (पा ३-२-१०७) इति लटः क्वसुरादेशः । तस्य कित्त्वाद्गुणाभावः । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । पा ७-४-५९ : ८-४-५४ । क्रादिनियमात् (पा ७-२-१३) प्राप्त इड्वस्वेकाडाद्घसाम् (पा ७-२-६७) इति नियमान्निवर्तते । नञ् समासे तृतीयैकवचने भत्वाद्वसोः संप्रसारणम् (पा ६-४-१३१) इति वकारस्योकारः । संप्रसारणाच्च (पा ६-१-१०८) इति पूर्वरूपत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वम् । इयङादेशं बाधित्वैरनेका चोऽसंयोगपूर्वस्य (पा ६-४-८२) इति यणादेशः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पूर्वेण सह संहितायामोकारस्यैङः पदांतादति (पा ६-१-१०९) इति परपूर्वत्वे प्राप्ते प्रकृत्यांतःपादमव्यपरे (पा ६-१-११५) इति प्रकृतिभावः । मंदू । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । इदितो नुम् धातोः (पा ७-१-५८) इति नुमागमः । कुरित्यनुवृत्तौ खरुशंकुपीयुनीलंगुलिगु (उ १-३७) इत्यत्राविभक्तिकनिर्देशाद्धंतेर्हिगुरितवद्धात्वंतरादपि कुरित्युक्तम् । प्रत्ययस्वरेणांतोदात्तः । द्विवचनमौ (पा ४-१-२) प्रथमयोः पूर्वसवर्णः (पा ६-१-१०२) तृतीयै कवचने चेत् सुपां सुलुगित्यादिना पूर्वसवर्णदीर्घत्वम् । समानवर्चसा । समानं वर्चो ययोरिति वा यस्येति वा बहुव्रीहिः । द्विवचने सुपां सुलुगित्यादिनाकारादेशः । समानपदस्य प्रातिपदिकांतोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण तदेवावशिष्यते ॥ ७ ॥

1.6.8
अ॒न॒व॒द्यैर॒भिद्यु᳚भिर्म॒खः सह᳚स्वदर्चति ।
ग॒णैरिन्द्र᳚स्य॒ काम्यै᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒न॒व॒द्यैः । अ॒भिद्यु᳚॑भिः । म॒खः । सह᳚स्वत् । अ॒र्च॒ति॒ ।
ग॒णैः । इन्द्र᳚स्य । काम्यैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मखः प्रवर्तमानोऽयं यज्ञोऽनवद्यैर्दोषरहितैरभिद्युभिर्ध्युलोकमभिगतैः काम्यैः फलप्रदत्वेन कामयितव्यैर्गणैर्मरुत्समूहैः सहितमिंद्रस्येंद्रं सहस्वद्बलोपेतं यथा भवति तथार्चति । पूजयति । अयं यज्ञो मरुत इंद्रं चातिशयेन प्रीणयतीत्यर्थः । यज्ञ इत्यादिषु पंचदशसु यज्ञनामसु मखो विष्टुरिति पठितम् । चतुश्चत्वारिंशत्स्वर्चतिकर्मस्वर्चति गायतीति पठितं ॥ न विद्यतेऽवद्यं येषां तेऽनवद्याः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अभिगता दौर्यैस्तेऽभिद्यवः । तैरभिद्युभिः । अभिशब्दः प्रातिपदिकस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । मखः प्रातिपदिकस्वरः । सहो बलमस्निन्नर्चनकर्मण्यस्तीति सहस्वत् । तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञया पदसंज्ञाया बाधितत्वाश्सकारस्य रुत्वाभावः । मादुपधायाश्च मतोर्वोऽयवादिभ्यः (पा ८-२-९) इति मतुपो मस्य वत्वम् । सहस् शब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तः । मतुपः पित्त्वात्स एव शिष्यते । काम्यैः । कमेर्णिङ् (पा ३-१-३०) अत उपधायाः पा ७-२-११६ । इति वृद्धिः । जनी जृष् क्नसु रंजोऽमंताश्च । धा १९, ६३-६७ । इत्यमंतत्वेन प्राप्तस्य मित्त्वस्य न कम्यमि चमामिति प्रतिषेधात् । धा १९-६९ । मितां ह्रस्वः (पा ६-४-९२) इत्युपधाह्रस्वत्वं न भवति । ण्यंतादचो यत् (पा ३-१-९७) णिलोपः (पा ६-४-५१) तित्स्वरिकम् (पा ६-१-१८५) इति प्राप्ते यतोऽनावः (पा ६-१-२१३) इत्याद्युदात्तत्वं ॥ ८ ॥

1.6.9
अतः᳚ परिज्म॒न्ना ग᳚हि दि॒वो वा᳚ रोच॒नादधि᳚ ।
सम᳚स्मिन्नृञ्जते॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
अतः᳚ । प॒रि॒॑ज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि᳚ ।
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे परिज्मन् परितो व्यापिन्मरुद्गण अतोऽस्थान्मरुद्गणस्थानादंतरिक्षादा गहि । अस्मिन्कर्मण्यागच्छ । दिवो वा । द्युलोकाद्वा समागच्छ । रोचनादधि । दीप्यमाना दादित्यमंडलाद्वा समागच्छ । अस्मदीयकर्मकाले यत्र यत्र तिष्ठति ततः सर्वस्मादागच्छेत्यर्थः । किमर्थमागमनमिति तदुच्यते । अस्मिन्कर्मणि वर्तमान ऋत्विग्गिरः स्तुतीः समृंजते । सम्यत् प्रसाधयति । ऋंजतिः प्रसाधनकर्मा (नि ६-२१) इति यास्कः । एताः स्तुतीः श्रोतुमागच्छेत्यर्थः । यद्यप्यृत्वजा मंत्रस्य प्रयुज्यमानत्वादृंजतिधातोरुत्तमपुरुषेण भवितव्यं तथापि परोक्षकृतत्वेन निर्देशात्प्रथमपुरुषप्रयोगः । परोक्षकृतलक्षणं च यास्क अह । तास्त्रिविधा ऋचः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यंते । प्रथमपुरुषैश्चाख्यातस्य (नि ७-१) इति ॥ अतः । पंचम्यास्तसिल् (पा ५-३-७) एतदोऽश् (पा ५-३-५) शित्त्वात्सर्वादेशः (पा १-१-५५) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । परिज्मन् । अज गतिक्षेपणयोः । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति मनिन् । अकारलोपश्छांदसः । आमंत्रितनिघातः । गहि । गमेर्बहुलं छंदसि (पा २-४-७३) इति शपो लुक् । हेर्जित्वात् (पा ३-३-८७) अनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मलोपः । अतो हेः (पा ६-४-१०५) इति हिलोपो न भवति । तस्मिन्कर्तव्येऽसिद्ध वदत्रा भात् (पा ६-४-२२) इति मलोपस्यासिद्थत्वेनानकारांतत्वात् । दिवः । ऊडिद मित्यादिना विभक्तेरुदात्तत्वम् । वा । चादयोऽनुदात्ताः (फि ४-१६) इतृनुदात्तः । रोचनात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति युच् । युवोरनाकौ (पा ७-१-१) इत्यनादेशः । चिदित्यंतोदात्तः । अधि । अधिपरी अनर्थकौ (पा १-४-९३) इति कर्मप्रवचनीयत्वेन सह निपातसंज्ञायाः समावेशान्निपाता आद्युदात्ता इत्याद्युदात्तः । अस्मिन् । परिज्मन्नित्यादिष्टस्यैवान्वादेशादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यश् अनुदात्तः शित्त्वात्सर्वादेशः । विभक्तिरनुदात्तौ सुप्पितौ (पा ३-१-४) इत्यनुदात्तेति । सर्वानुदात्तत्वम् । ऋंजते । ऋजि भृजी भर्जने । समित्युपसर्गयोगात्प्रसाधने वर्तने । निघातः । गिरः । प्रातिपदिकस्वरः ॥ ९ ॥

1.6.10
इ॒तो वा᳚ सा॒तिमीम᳚हे दि॒वो वा॒ पार्थि᳚वा॒दधि᳚ ।
इन्द्रं᳚ म॒हो वा॒ रज᳚सः ॥
▶ पदपाठः (Word-by-word)
इ॒तः । वा॒ । सा॒तिम् । ईम᳚हे । दि॒व । वा॒ । पार्थि᳚वात् । अधि᳚ ।
इन्द्र᳚म् । म॒हः । वा॒ । रज᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रं देवं प्रति सातिं धनदानमधीमदे । आधिक्येन याचामहे । कस्माल्लोकादिति तदुच्यते । इतोऽस्मादभिदृश्यमानात्वार्थिवात्पृथिवीलोकाद्वा दिवो वा द्युलोकाद्वा महो महतः प्रौढाद्रजसो वा पक्ष्यादीनां रंजकादंतरिक्षलोकाद्वा । अयमिंद्रो यतःकुतश्चिदानीयास्मभ्यं धनं प्रयच्छत्वित्यर्थः । सप्तदशसु याच्ञाकर्मस्वीमहे यामीति पठितं ॥ इतः । इतः । इदंशब्दात्पंच मास्तसिल् । इदम इश् (पा ५-३-३) इतीश् । शित्त्वात्सर्वादेशः । अत्रोडिदमित्यस्यावकाशः (पा ६-१-१७१) आभ्याम् । एभिः लितीत्यस्यावकाशः (पा ६-१-१९३) पचनं पाचकः । उभावपि नित्यौ । तत्र परत्वाद्विप्रतिषेधे परं कार्यम् (पा १-४-२) इति लितीतीकारस्योदात्तत्वम् । पश्चात्तसेः प्राग्दशो विभक्तिः (पा ५-३-१) इति विभक्तिसंज्ञ कत्वादूडिदमित्यादिनासर्वनामस्थानविभक्तेरुच्यमानमुदात्तत्वं भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव । परि ४० । इत्यूडिदमित्यस्य पुनरप्रवृत्ति रेवेति चेन्न । लक्ष्यानुरोधेन पुनः प्रसंगविज्ञानं चेति स्वीकारात् । नन्वेवं यतस्तत इत्यादावपि परेण लित्सर्वेण बाधितमपि सावेकाच इति तसिल उदात्तत्वं स्यादिति चेन्न । यत्तच्छब्दयोः साववर्णांतत्वे न गोश्चन्साववर्णेति (पा ६-१-१८२) निषेधात् । न च पुनः प्रसंगविज्ञानं चेत्येतत्सार्वत्रिकं लक्ष्यानुरोधेन क्वचिदेव तदाश्रयणादिति । सातिम् । षणु दाने । धात्वादेः षः सः (पा ६-१-६४) भावे क्तिन् । जनसनखनां सन्घलो (पा ६-४-४२) इति नकारस्यात्वम् । तितुश्रतथसिसुसरकसेषु च । सा ७ । २ । ९ । इति निषेधादिण्न भवति । नित्सर्वे प्राप्त उदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्च (पा ३-३-९७) इति निपातनादंतोदात्तत्वम् । ईमहे । ईङ् गतौ । श्यनोऽपि बहुलं छंदसीति लुक् । अस्य धातोर्ङित्त्वात्तास्यनुदात्तेन्ङि ददुपदेशात् (पा ६-१-१८६) इति लसार्वधातुकस्यानुदात्तत्वे धातुस्वर एव शिष्यते । न च तिङ्ङतिङ इति निघातः । चवायोगे प्रथमा (पा ८-१-५९) इति निषेधात् । उत्तरवाक्ययोरपि हि वाशब्दयोगादन्यथा वाक्यापरिपूर्तेस्तिज्विभक्तेरवश्यमध्याहारात्तदपेक्षयैषा प्रथमा तिङ्विभक्तरिति । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । पार्थिवात् । प्रथ प्रख्याने । प्रथत इति पृथिवी । प्रथेः षिवन्संप्रसातणं च (उ १-१५०) इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च (पा ४-१-४१) इति ङीष् । प्रत्ययस्वरेणोदात्तः । शेषनिघातेनानुदात्तादिः पृधिवीशब्दः । पृथिव्या विकार इत्यर्थ ओरञऽत्यनुवृत्तावनुदात्तादेश्च (पा ४-३-१४०) इत्यञ् । यस्येति च (पा ६-४-१४८) इतीकारलोपः तद्धितेष्वचामादेः (पा ७-२-११७) इत्यादिवृद्धिः । रपरत्वम् (पा १-१-५१) ञ्नत्यादिर्नित्यमित्याद्युदात्तः । अधि । निपातत्वादाद्युदात्तः । इंद्रं रन्प्रत्ययांत आद्युदात्तः । मह । महत इत्यस्याकारतकारयोर्लोपश्छांदसः । सावेकाच इति विभक्तेरुदात्तत्वम् । रजसः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वं ॥ १२ ॥ १० ॥