मध्व॒ः सोम᳚स्याश्विना॒ मदा᳚य प्र॒त्नो होता वि᳚वासते वाम् ।
ब॒र्हिष्म᳚ती रा॒तिर्विश्रि᳚ता॒ गीरि॒षा या᳚तं नास॒त्योप॒ वाजै᳚ः ॥
मध्वः᳚ । सोम᳚स्य । अ॒श्वि॒ना॒ । मदा᳚य । प्र॒त्नः । होता᳚ । आ । वि॒वा॒स॒ते॒ । वा॒म् ।
ब॒र्हिष्म᳚ती । रा॒तिः । वि॑श्रि᳚ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप᳚ । वाजैः᳚ ॥
मध्व इति पंचविंशत्यृचं द्वितीयं सूक्तम् । औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । मध्व इत्यनुक्रांतं ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥
हे अश्विनौ मध्वो मधुना माधुर्योपेतेन सोमस्य सोमेन मदाय युवयोर्मदार्थं प्रत्नश्चिरंतनो होता होमनिष्पादको यजमानो वां युवामा विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च रातिर्दातव्यं हविर्बर्हिष्मत । आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिष्यासादितमित्यर्थः । तथा गीः स्तुतिलक्षणावाक् च विश्रिता । ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियत इत्यर्थः । अतो हे नासत्यावश्विनौ इषास्मभ्यं दातव्येनान्नेन वाजैर्बलैश्च सह युवामुप यातम् । अस्मत्समीपं प्राप्नुतं ॥ मध्वः । सुपां सुपो भवंतीति तृतीयार्थे षष्ठी । जसादिषु छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । मदाय । मदी हर्षे । मदोऽनुपसर्ग इत्यप् । रातिः । रा दाने । कर्मणि क्तिन् । मंत्रे वृषेषेत्यादिना तस्योदात्तत्वम् । विश्विता । श्रिञ् सेवायाम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥
यो वा᳚मश्विना॒ मन᳚सो॒ जवी᳚या॒न्रथ॒ः स्वश्वो॒ विश᳚ आ॒जिगा᳚ति ।
येन॒ गच्छ᳚थः सु॒कृतो᳚ दुरो॒णं तेन᳚ नरा व॒र्तिर॒स्मभ्यं᳚ यातम् ॥
यः । वा॒म् । अ॒श्वि॒ना॒ । मन᳚सः । जवी᳚यान् । रथः᳚ । सु॒॑अश्वः᳚ । विशः᳚ । आ॒॑जिगा᳚ति ।
येन᳚ । गच्छ᳚थः । सु॒॑कृतः᳚ । दु॒रो॒णम् । तेन᳚ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य᳚म् । या॒त॒म् ॥
हे अश्विनौ वां युवयोः स्वभूतो मनसो जवीयान् मनसोऽप्यतिशयेन वेगवान् स्वश्वः शोभनाश्व एवंभूतो यो रथो विशः प्रजा आजिगाति आभिमुख्येन गच्छति । येन रथेन सुकृतः शोभनं यागं कुर्वतो यजमानस्य दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे नरा नेतारावश्विनौ तेन रथेनास्मभ्यमस्माकं वर्तिर्वर्तनाधिकरणं गृहं यातम् । आगच्छतं ॥ जवीयान् । जवोऽस्यास्तीति जववान् तदस्यास्तीति मतुप् । तत आतिशायनिक ईयसुन् । विन्मतोर्लुक् । टेरिति टलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः । बहुलं छंदसीत्यभ्यासस्येत्वं ॥ २ ॥
ऋषिं᳚ नरा॒वंह᳚स॒ः पाञ्च᳚जन्यमृ॒बीसा॒दत्रिं᳚ मुञ्चथो ग॒णेन᳚ ।
मि॒नन्ता॒ दस्यो॒रशि᳚वस्य मा॒या अ᳚नुपू॒र्वं वृ᳚षणा चो॒दय᳚न्ता ॥
ऋषि᳚म् । न॒रौ॒ । अंह᳚सः । पाञ्च᳚॑जन्यम् । ऋ॒बीसा᳚त् । अत्रि᳚म् । मु॒ञ्च॒थः॒ । ग॒णेन᳚ ।
मि॒नन्ता᳚ । दस्योः᳚ । अशि᳚वस्य । मा॒याः । अ॒नु॒॑पू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय᳚न्ता ॥
हिमेनाग्निम् । ऋग्वे १-११६-८ । इत्यनयोक्त एवार्थः पुनः प्रकारांतरेणानया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे नरौ नेतारौ वृषणा कामानां वर्षितारावश्विनौ पांचजन्यम् । निषादपंचमाश्चत्वारो वर्णाः पंच जनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन्नत्रिः सर्वेषां हिताचरणात्तत्र भव इत्युच्यते । तादृशमृषिमंहसः पापरूपादृबीसात् शतद्वारे यंत्रगृहेऽत्रेः पीडार्थमसुरैः प्रक्षिप्तात्तुषाग्नेः सकाशाद्गणेनेंद्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुंचथः । अमोचयतम् । किं कुर्वंतौ । मिनंता शत्रून् हिंसंतौ दस्योरुपक्षपयितुरशिवस्य दुःखकारिणोऽसुरस्य संबंधिनीस्तस्मिन्नत्रौ प्रयुक्ता मायाश्चानुपूर्वमानुपूर्व्येण चोदयंता प्रेरयंतौ निवारयंतौ ॥ पांचजन्यम् । बहिर्देवपंचजनेभ्यश्चेति वक्तव्यम् । का ४-३-५८-१ । इति भवार्थे ञ्यः । मिनंता । मीञ् हिंसायाम् । क्रैयादिकः । लटः शतृ । मीनातेर्निगम इति ह्रस्वत्वं ॥ ३ ॥
अश्वं॒ न गू॒ळ्हम᳚श्विना दु॒रेवै॒रृषिं᳚ नरा वृषणा रे॒भम॒प्सु ।
सं तं रि᳚णीथो॒ विप्रु᳚तं॒ दंसो᳚भि॒र्न वां᳚ जूर्यन्ति पू॒र्व्या कृ॒तानि᳚ ॥
अश्व᳚म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒॑एवैः᳚ । ऋषि᳚म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्॑सु ।
सम् । तम् । रि॒णी॒थः॒ । वि॑प्रु᳚तम् । दंसः᳚॑भिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि᳚ ॥
नरा नेतारौ वृषणा कामानां वर्षकौ हे अश्विनौ र्दुरेवैर्दुष्प्रा पैरसुरैरप्सु कूपस्थेषूदकेषु गूळ्हं निगूढं निखातं रेभमृषिं कूपादुन्नीय विपुत्रं विश्लिष्टावयवं तमश्वं न व्याधितमश्वमिव दंसोभिरात्मीयैर्भैषज्यरूपैः कर्मभिः सं रिणीथः । समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । वां युवयोः संबंधीनि पूर्व्या चिरंतनानि कृतानि कर्माणि न जूर्यंति । न हि जीर्णानि भवंति ॥ दुरेवैः । दुरुपसृष्टादेतेरीषद्दुः सुष्विति खल् । रिणीथः । री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः । जूर्यंति । जॄष् वयोहानौ । दैवादिकत्वाच्छ्यन् । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः ॥ ४ ॥
सु॒षु॒प्वांसं॒ न निरृ᳚तेरु॒पस्थे॒ सूर्यं॒ न द᳚स्रा॒ तम᳚सि क्षि॒यन्त᳚म् ।
शु॒भे रु॒क्मं न द᳚र्श॒तं निखा᳚त॒मुदू᳚पथुरश्विना॒ वन्द᳚नाय ॥
सु॒षु॒प्वांस᳚म् । न । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ । सूर्य᳚म् । न । द॒स्रा॒ । तम᳚सि । क्षि॒यन्त᳚म् ।
शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । नि॑खा᳚तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द᳚नाय ॥
निर्ऋतिरिति भूनाम । निर्ऋतेः पृथिव्या उपस्थ उत्संगे सुषुप्वांसं सुप्तवंतं पुरुषमिव कूपमध्ये शयानं सूर्यं न सूर्यमिव । तमसि कूपांतर्गतांधकारे क्षियंतं निवसंतं सूर्यमिव तेजस्विनमित्यर्थः । शुभे शोभार्थं निर्मितं रुक्मं न रोचमानं सुवर्णमयाभरणमिव दर्शतं दर्शनीयं एवंगुणविशिष्टं कूपेऽसुरैर्निखातं वंदनाय वंदनमृषिं हे दस्रा दर्शनीयावश्विनौ युवामुदूपथुः । उद्धृतवंतौ ॥ सुषुप्वांसम् । ञिष्वपशये । लिटः क्वसुः । वचिस्वपीत्यादिना संप्रसारणं द्विर्वचनादि । उपस्थे । उपपूर्वात्तिष्ठतेर्घञर्थे कविधानमित्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । वंदनाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ५ ॥
तद्वां᳚ नरा॒ शंस्यं᳚ पज्रि॒येण᳚ क॒क्षीव᳚ता नासत्या॒ परि᳚ज्मन् ।
श॒फादश्व᳚स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भा{4} अ᳚सिञ्चतं॒ मधू᳚नाम् ॥
तत् । वा॒म् । न॒रा॒ । शंस्य᳚म् । प॒ज्रि॒येण᳚ । क॒क्षीव᳚ता । ना॒स॒त्या॒ । परि᳚॑ज्मन् ।
श॒फात् । अश्व᳚स्य । वा॒जिनः᳚ । जना᳚य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू᳚नाम् ॥
हे नरा नेतारौ नासत्यावश्विनौ परिज्मन् परिगमनेऽभीष्टस्य प्रापणे निमित्तभूते सति पज्रियेण पज्राणामंगिरसां कुले जातेन कक्षीवता मया वां युवयोः संबंधि तत्कर्म शंस्यम् । प्रकर्षेण शंसनीयम् । तच्छब्द श्रुतेर्यच्छब्दाध्याहारः । यज्जनायापेक्षमाणाय पुरुषाय वाजिनो वेगवतस्तदीयस्याश्वस्य शफान्निर्गतैर्मधूनां मधुभिः शतसंख्याकान्कुंभानसिंचतम् । अपूरयतम् । सिंचतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तच्छंस्यमित्यर्थः ॥ ६ ॥
यु॒वं न᳚रा स्तुव॒ते कृ᳚ष्णि॒याय᳚ विष्णा॒प्वं᳚ ददथु॒र्विश्व᳚काय ।
घोषा᳚यै चित्पितृ॒षदे᳚ दुरो॒णे पतिं॒ जूर्य᳚न्त्या अश्विनावदत्तम् ॥
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय᳚ । वि॒ष्णा॒प्व᳚म् । द॒द॒थुः॒ । विश्व᳚काय ।
घोषा᳚यै । चि॒त् । पि॒तृ॒॑सदे᳚ । दु॒रो॒णे । पति᳚म् । जूर्य᳚न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
हे नरा नेतारावश्विनौ युवं युवां स्तुवते सोत्रं कुर्वते कृष्णियाय कृष्णाख्यस्य पुत्राय विश्वकाय विष्णाप्वं ददथुः । विष्णाप्वं नाम विनिष्टं पुत्रं दत्तवंतौ । घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वरायादत्ता पितृगृहे निषण्णा जीर्णासीत् । साश्विनोरनुग्रहान्नष्टकुष्ठा सती पतिं लेभे । तदेतदाह । हे अश्विनौ पित्रा संबद्धे दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य पितृषदे पितृसमीपे निषण्णायै जूर्यंत्यै जरां प्राप्नुवत्यै घोषायै चित् एतत्संज्ञायै ब्रह्मवादिन्या अपि रोगोपशमनेन पतिं भर्तारमदत्तम् । युवां दत्तवंतौ ॥ पितृषदे । षद्लृ विशरणादिषु । क्विप्चेति क्विप् । जूर्यंत्यै । जॄष् वयोहानौ । लटः शतृ । दिवादित्वाच्छ्यन् । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वं ॥ ७ ॥
यु॒वं श्यावा᳚य॒ रुश᳚तीमदत्तं म॒हः क्षो॒णस्या᳚श्विना॒ कण्वा᳚य ।
प्र॒वाच्यं॒ तद्वृ᳚षणा कृ॒तं वां॒ यन्ना᳚र्ष॒दाय॒ श्रवो᳚ अ॒ध्यध᳚त्तम् ॥
यु॒वम् । श्यावा᳚य । रुश᳚तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य᳚ । अ॒श्वि॒ना॒ । कण्वा᳚य ।
प्र॒॑वाच्य᳚म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वा॒म् । यत् । ना॒र्स॒दाय᳚ । श्रवः᳚ । अ॒धि॒॑अध᳚त्तम् ॥
हे अश्विनौ युवं युवां श्यावाय कुष्ठरोगेण श्यामवर्णायर्षये रुशतीं दीप्तत्वचं स्त्रियमदत्तम् । प्रायच्छतम् । अपि च क्षोणस्य क्षोणाय दृष्टिराहित्येन गंतुमशक्तः सन्नेकस्मिन्नेव स्थाने निवसति तस्मै कण्वायर्षये महस्तेजस्तैजसं चक्षुरिंद्रयमदत्तमति शेषः । तथा हे वृषणा कामानां वर्षितारौ वां युवयोस्तत्कृतं कर्म प्रवाच्यम् । प्रकर्षेण वाचनीयं शंसनीयम् । नार्षदाय नृषदपुत्राय बधिरायर्षये श्रवः श्रवणेंद्रियं यदध्यधत्तम् । दत्तवंतौ स्थ इति यत् तदित्यर्थः । अपर आह । ब्राह्मणस्य परीक्षार्थमसुराः कण्वमृषिं गूढे तमसि निदधुः । अत्रैव स्थितः सन् व्युष्टामुषसं विजानीहि यदि त्वं ब्राह्मणोऽसीति । तमश्विनावागत्योचतुः । व्युष्टायां हर्म्यस्योपरि वीणां वादयंतावावामागमिष्यावः । तं शब्दं श्रुत्वा व्युष्टामुषसं ब्रूहि । तदेतत्प्रतिपाद्यते । हे वृषणा कामानां वर्षितारावश्विनौ वां युवयोस्तत्कृतं कर्म प्रवाच्यं प्रशंसनीयं यन्नार्षदाय नृषदपुत्राय कण्वाय क्षोणस्य । क्षोणः शब्दकारी वीणाविशेषः । महो महतः क्षोणस्य श्रवः शब्दमध्यधत्तं उषसो विज्ञानार्थमधिकमकुरुतं ॥ महः । मह पूजायाम् । अस्मादौणादि कोऽसिप्रत्ययः । पक्षांतरे तु महच्छब्दात् षष्ट्येकवचने छांदसोऽल्लोपः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । यद्वा । क्विबंतात् षष्ठ्येकवचनम् । क्षोणस्य । क्षि निवासगत्योः । कृत्यल्युटो बहुलमिति कर्तरि ल्युट् । पृषोदरादित्वात् । क्षोणभावः । तदुक्तं यास्केन । क्षोणस्य क्षयणस्य (नि ६-६) इति । पक्षांशरे तु टुक्षु शब्द इत्यस्मादौणादिको नप्रत्ययः । नार्षदाय । ऋष्यंधकेत्यण् ॥ ८ ॥
पु॒रू वर्पां᳚स्यश्विना॒ दधा᳚ना॒ नि पे॒दव᳚ ऊहथुरा॒शुमश्व᳚म् ।
स॒ह॒स्र॒सां वा॒जिन॒मप्र᳚तीतमहि॒हनं᳚ श्रव॒स्यं१॒᳚ तरु᳚त्रम् ॥
पु॒रु । वर्पां᳚सि । अ॒श्वि॒ना॒ । दधा᳚ना । नि । पे॒दवे᳚ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व᳚म् ।
स॒ह॒स्र॒॑साम् । वा॒जिन᳚म् । अप्र᳚ति॑इतम् । अ॒हि॒॑हन᳚म् । श्र॒व॒स्य᳚म् । तरु᳚त्रम् ॥
हे अश्विनौ पुरु पुरूणि बहूनि वर्पांसि । रूपनामैतत् । आत्मीयैः कर्मभिः कृतानि रूपाणि दधाना धारयंतौ युवामाशुं शीघ्रगामिनमश्वं पेदवे पेदुनाम्ने स्तुवते न्यूहथुः । नितरां प्रापितवंतौ । दत्तवंतावित्यर्थः । कीदृशमश्वम् । सहस्रसाम् । सहस्रसंख्याकस्य धनस्य सनितारं दातारं वाजिनं बलवंतं अत एवाप्रतीतं शत्रुभिरप्रतिगतं अहिहनमहीनामागत्य हंतॄणां शत्रूणां शत्रून्वा हंतारं श्रवस्यम् । श्रवः श्रवणीयं स्तोत्रम् । तत्र भवम् । स्तुतिविषयमित्यर्थः । तरुत्रं तरितारं ॥ वर्पांसि । वृञ् वरणे । वृञ् शीङ्छ्यां रूपस्वांगयोः पुक्च । उ -४-२०० । इत्यसुन् पुगागमश्च । दधाना । दधातेर्लटः शानच् । अभ्यास्तानामादिरित्याद्युदात्तत्वम् । सहस्रसाम् । षणु दाने । जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । श्रवस्यम् । श्रवः शब्दाद्भवे छंदसीति यत् । तित्स्वरितः । तरुत्रम् । तॄ प्लवनतरणयोः । अशित्रादिभ्य इत्रोत्रौ (उ ४-१७२) इत्युत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । ग्रसितस्कभितेत्यादौ निपातनात्तृनंतात्तरुतृशब्दादमि संज्ञा पूर्वकस्य विधेरनित्यत्वाद्गुणाभावे यण् । नित्स्वरेणाद्युदात्तत्वं ॥ ९ ॥
ए॒तानि᳚ वां श्रव॒स्या᳚ सुदानू॒ ब्रह्मा᳚ङ्गू॒षं सद᳚नं॒ रोद᳚स्योः ।
यद्वां᳚ प॒ज्रासो᳚ अश्विना॒ हव᳚न्ते या॒तमि॒षा च᳚ वि॒दुषे᳚ च॒ वाज᳚म् ॥
ए॒तानि᳚ । वा॒म् । श्र॒व॒स्या᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । ब्रह्म᳚ । आ॒ङ्गू॒षम् । सद᳚नम् । रोद᳚स्योः ।
यत् । वा॒म् । प॒ज्रासः᳚ । अ॒श्वि॒ना॒ । हव᳚न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे᳚ । च॒ । वाज᳚म् ॥
हे सुदानू शोभनदानावश्विनौ वां युवयोः संबंधीन्येतानि समनंतरोक्तानि वीर्याणि श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवंति । तदर्थं रोदस्योर्द्यावाप्रथिव्यावित्येके । नि १२-१ । इति । तथा च तैत्तिरीयकम् । इमे अश्विना संवत्सरोऽग्निर्वैश्वानर इति । तयोर्युवयोः सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वांगूषमाघोषणीयं ब्रह्म मंत्ररूपं स्तोत्रं निष्पन्नमिति शेषः । यद्यदा पज्रासोंऽगिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ वां युवां हवंते स्तुतिभिरात्मरक्षणार्थमाह्वयंति तदानीमिषा दातव्येनान्नेन सहा यातम् । आगच्छतं च । विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च वाजमन्नं बलं वा प्रयच्छतमिति शेषः ॥ यातम् । चवायोगेः प्रथमेति निघातप्रतिषेधः । विदुषे । विद ज्ञाने । विदेः शतुर्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १० ॥
सू॒नोर्माने᳚नाश्विना गृणा॒ना वाजं॒ विप्रा᳚य भुरणा॒ रद᳚न्ता ।
अ॒गस्त्ये॒ ब्रह्म᳚णा वावृधा॒ना सं वि॒श्पलां᳚ नासत्यारिणीतम् ॥
सू॒नोः । माने᳚न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज᳚म् । विप्रा᳚य । भु॒र॒णा॒ । रद᳚न्ता ।
अ॒गस्त्ये᳚ । ब्रह्म᳚णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला᳚म् । ना॒स॒त्या॒ । अ॒रि॒णी॒त॒म् ॥
भुरणा भर्तारौ पोषकौ नासत्या सत्यस्वभावौ हे अश्विनौ सूनो कुंभात्प्रसूतस्यागस्त्यस्य खेलपुरोहितस्य संबंधिना मानेन स्तुत्यस्य परिच्छेदकेन स्तोत्रेण गृणाना स्तूयमानौ विप्राय मेधाविने भरद्वाजायर्षये वाजमन्नं रदंता विलिखंतौ निष्पादयंतौ युवं विश्पलां संग्रामे छिन्नजंघां खेलस्य संबंधिनीं स्त्रियं समरिणीतम् । पुनरायस्या जंघया समयोजयतम् । तृतीयेन पादेन प्रथमपादोक्तोऽर्थो विव्रियते । अगस्त्य ऋषौ ब्रह्मणा मंत्ररूपेण स्तोत्रेण ववृधाना प्रवर्धिताविति ॥ गृणाना । गॄ शब्दे । व्यत्ययेन कर्मणि कर्तृ प्रत्ययः । प्वादीनां ह्रस्वः । भुरणा । भुरण धारणपोषणयोः । कंड्वादिः पचाद्यच् । अतोलोपयलोपौ । सुपां सुलुगिति विभक्तेराकारः । आमंत्रितनिघातः । विप्रायेत्यस्य रदंतेत्यनेनासामर्थ्यान्न परांगवत्त्वम् । वावृधाना । वधेर्लिट कानच् । संहितायां छांदसमभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकालेऽपि स्यात् । अरिणीतम् । री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः ॥ ११ ॥
कुह॒ यान्ता᳚ सुष्टु॒तिं का॒व्यस्य॒ दिवो᳚ नपाता वृषणा शयु॒त्रा ।
हिर᳚ण्यस्येव क॒लशं॒ निखा᳚त॒मुदू᳚पथुर्दश॒मे अ᳚श्वि॒नाह᳚न् ॥
कुह᳚ । यान्ता᳚ । सु॒॑स्तु॒तिम् । का॒व्यस्य᳚ । दिवः᳚ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒॑त्रा ।
हिर᳚ण्यस्य॑इव । क॒लश᳚म् । नि॑खा᳚तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह᳚न् ॥
पुरा खलूशनसः स्तुतिं गच्छंतावश्विनौ मार्गमध्ये कूपे पतितं रेभं दृष्ट्वातं कूपादुदतारयताम् । तदानीमश्विभ्यां गंतव्यं काव्यस्य निवासस्थानमजानन्नृषिरश्विनौ पृच्छति । हे दिवो नपाता द्योतमानस्य सूर्यस्य पुत्रौ वृषणा कामाभिवर्षकावश्विनौ कुह कुत्र शयुत्रा शयने निवासस्थाने वर्तमानस्य काव्यस्य भार्गवस्य सुष्टुतिं शोभनां स्तुतिं श्रोतुं यांता गच्छंतौ । यद्वा । शयुत्रेत्येतदश्विनोर्विशेषणम् । शयुनाम्नस्त्रायकौ युवाम् । हिरण्यस्येव कलशं यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैर्दुर्ज्ञातं कश्चिदभिज्ञ उद्धरति एवमसुरैः कूपे निखातं दश रात्रीर्नवाहानि च तत्रैव निवसंतं रेभमवगत्य दशमेऽहन् हन्युदूपथुः । कूपादुन्नीतवंतौ । किं तन्निवासस्थानमिति प्रश्नः । रेभस्यानुक्तावपि दश रात्रीरशिवेन । ऋ-१-११६-२४ । इति मंत्रांतरसामर्थ्यात्प्रतीतिः । यद्वा । काव्यस्य स्तुतिं प्रति गच्छंतौ युवां कुह कस्मिन्स्थाने रेभं युवामुन्निन्यथुरिति प्रश्नः ॥ कुह । वा ह च छंदसीति सप्तम्यर्थे हप्रत्ययः । दिवो नपाता । सुबामंत्रिते परांगवत्सर इति परांगवद्भावेन षष्ठ्यंतस्यामंत्रितानुप्रवेशादामंत्रितस्य चेति पदद्वयसमुदायस्य षाष्ठिकमाद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । नपादित्यपत्यनाम । न पातयतीति नपात् । नभ्राण्नपादिति नञः प्रकृतिभावः । सुपां सुलुगिति विभक्तेराकारः । शयुत्रा । अशित्रादिभ्य इत्रोत्राविति शीङ उत्रः । यद्यंतोदात्तता न स्यात् तर्ह्येवम् । शयुं त्रायेते इति शयुत्रौ । त्रैङ् पालने । आदेच इत्यात्वम् । आतोऽनुपसर्गे कः । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । निखातम् । खनु अवधारणे । अस्मात्कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । जनसनखनां सन्झलोरित्यात्वम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । आहन् । सुपां सुलुगिति सप्तम्यालुक् । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः ॥ १२ ॥
यु॒वं च्यवा᳚नमश्विना॒ जर᳚न्तं॒ पुन॒र्युवा᳚नं चक्रथु॒ः शची᳚भिः ।
यु॒वो रथं᳚ दुहि॒ता सूर्य᳚स्य स॒ह श्रि॒या ना᳚सत्यावृणीत ॥
यु॒वम् । च्यवा᳚नम् । अ॒श्वि॒ना॒ । जर᳚न्तम् । पुनः᳚ । युवा᳚नम् । च॒क्र॒थुः॒ । शची᳚भिः ।
यु॒वोः । रथ᳚म् । दु॒हि॒ता । सूर्य᳚स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥
हे अश्विनौ युवं युवां शचीभिरात्मीयैर्भैषज्यलक्षणैः कर्मभिर्जरंतं जीर्यंतं च्यवानं स्तुतीनां च्यावयितारमेतत्संज्ञमृषिं युवानं पुनर्यौवनोपेतं चक्रथुः । कृतवंतौ । अपि च हे नासत्यावश्विनौ युवोर्युवयो रथं सूर्यस्य दुहिता सूर्यख्या श्रिया सह ऋक्सहस्ररूपया संपदा कांत्या वा सहावृणीत । समभजत । आगत्यारूढवतीत्यर्थः । आ वां रथं दुहिता । ऋ १-११६-१७ । इत्यत्र लिखितमाख्यानमत्रापि द्रष्टव्यं ॥ जरतम् । जॄ ष् वयोहानौ । व्यत्ययेन शप् । युवोः । युष्मच्घब्दात् षष्ठीद्विवचने व्यत्ययेन योऽचीति यत्वाभावे सति शेषे लोप इति दकारलोपः । अतो गुण इति पररूपत्वम् । एकादेश उदात्तेनोदात्तः । अवृणीत । वृङ् संभक्तौ । क्रैयादिकः ॥ १३ ॥
यु॒वं तुग्रा᳚य पू॒र्व्येभि॒रेवै᳚ः पुनर्म॒न्याव᳚भवतं युवाना ।
यु॒वं भु॒ज्युमर्ण᳚सो॒ निः स᳚मु॒द्राद्विभि᳚रूहथुरृ॒ज्रेभि॒रश्वै᳚ः ॥
यु॒वम् । तुग्रा᳚य । पू॒र्व्येभिः᳚ । एवैः᳚ । पु॒नः॒॑म॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ ।
यु॒वम् । भु॒ज्युम् । अर्ण᳚सः । निः । स॒मु॒द्रात् । वि॑भिः᳚ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः᳚ । अश्वैः᳚ ॥
हे युवाना दुःखानां यावयितारावश्विनौ युवं युवां पूर्व्येभिः । पुराणनामैतत् । पूर्वकालीनैश्चिरंतनैरेवैः स्तुत्यं प्रति गंतृभिः सोत्रैस्तुग्राय भुज्योर्जनकस्य संबंधिभिः पुनर्मन्यौ यथा भुज्योः समुद्रगमनात्पूर्वं युवां स्तोतव्यौ तथा पुनरपीदानीं स्तोतव्यावभवतम् । यदा युवां समुद्रमध्ये सेनया सह निमग्नं भुज्युं तुग्रस्य पुत्रमर्णसोऽर्णस्वतः प्रौढोदकयुक्तात्समुद्रादंबुराशेः सकाशाद्विभिर्गंतृभिर्नौभिर्ऋज्रेभिः शीघ्रगतियुक्तैरश्वैश्च निरूहथुः निर्गमय्य पितृसमीपं प्रापितवंतौ । तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः । तुग्रो ह भुज्युम् । ऋ १-११६-३ । इत्यत्रोक्तमाख्यानमत्राप्यनुसंधेयं ॥ एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । पुनर्मन्यौ । मन ज्ञाने । अत्र स्तुत्यर्थः । मन्यते स्तौतीति मना स्तुतिः । पचाद्यच् । छंदसि चेत्यर्हार्थे यः । युवाना । यु मिश्रणामिश्रणयोः । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति विभक्तेराकारः । अर्णसः अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य बहुलं छंदसीति बहुलग्रहणाल्पोपः । सर्वे विधयश्छंदसि विकल्प्यंत इति विभक्त्युदात्तस्य विकल्पनादभावः । ऋज्रेभिः । ऋज गतिस्थानार्जनोपार्जनेषु । ऋजेंद्रेत्यागौ रन्प्रत्ययांतो निपातितः । बहुलं छंदसीति भिस ऐसभावः ॥ १४ ॥
अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह᳚ः समु॒द्रम᳚व्य॒थिर्ज᳚ग॒न्वान् ।
निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ॥
अजो᳚हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्र॑ऊ᳚ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् ।
निः । तम् । ऊ॒ह॒थुः॒ । सु॒॑युजा᳚ । रथे᳚न । मनः᳚॑जवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
हे अश्विनौ वां युवां तौग्र्यस्तुग्रपुत्रः प्रोळ्हः पित्रा प्रापितः समुद्रमब्धिं जगन्वान्भुज्युरुदके निमग्नोऽप्यव्यथिर्व्यथां पीडामप्राप्त एव सन्नजोहवीत् । स्तुतिभिराह्वयत् । तमाह्वातारं हे मनोजवसा मनोवद्वेगयुक्तौ वृषणा कामाभिवर्षकावश्विनौ सुयुजा सुष्म्वश्वैर्युक्तेन रथेन स्वस्ति क्षेमं यथा भवति तथा निरूहथुः । जलान्निर्गमय्य युवां पितृगृहं प्रापितवंतौ ॥ जगन्वान् । गमेर्लिटः क्वसुः । विभाषा गमहनविदविशामिति विकल्पनादिडभावः । म्वोश्चेति मकारस्य नकारः । निष्टम् । युष्मत्तत्ततक्षुःष्वंतःपादमिति मूर्धन्यः । मनोजवसा । मनसो जव इव जवो ययोस्तौ तथोक्तौ । सुपां सुलुगिति विभक्तेराकारः । पादादित्वादामंत्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वं ॥ १५ ॥
अजो᳚हवीदश्विना॒ वर्ति᳚का वामा॒स्नो यत्सी॒ममु᳚ञ्चतं॒ वृक᳚स्य ।
वि ज॒युषा᳚ ययथु॒ः सान्वद्रे᳚र्जा॒तं वि॒ष्वाचो᳚ अहतं वि॒षेण᳚ ॥
अजो᳚हवीत् । अ॒श्वि॒ना॒ । वर्ति᳚का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु᳚ञ्चतम् । वृक᳚स्य ।
वि । ज॒युषा᳚ । य॒य॒थुः॒ । सानु᳚ । अद्रेः᳚ । जा॒तम् । वि॒ष्वाचः᳚ । अ॒ह॒त॒म् । वि॒षेण᳚ ॥
आस्नो वृकस्य । ऋ १-११६-१४ । इत्यर्धर्चे यदुक्तं तदत्र पूर्वार्धेन प्रतिपाद्यते । वर्तिका चटकसदृशस्य पक्षिणः स्त्री वृकेणारण्यशुना ग्रस्ता सती हे अश्विनौ वां युवां तदाजोहवित् आहूतवती यत्सीं यदा खलु वृकस्यास्न आस्यादमुंचतं वर्तिकाममोचयतम् । अपि च युवां जयुषा जयशीलेन रथेनाद्रेः पर्वतस्य सानु समुच्छ्रितप्रदेशं वि ययथुः । शत्रुभिरावेष्टितं जाहुषाख्यं स्तोतारं शत्रुसमूहान्निर्गमय्य तेन सहान्यैर्गंतुमशक्यं पर्वताग्रं गतवंतावित्यर्थः । तदुक्तं परिविष्टं जाहुषमित्यत्र । ऋ १-११६-२० । तथा विष्वाचो विविधगतियुक्तस्यैतत्संज्ञस्यासुरस्य जातमुत्पन्नमपत्यं विषेण क्ष्वेडेनाहतम् । युवांहतवंतौ । यद्वा । वर्तते प्रतिदिनसमावर्तत इति वर्तिकोषाः । वृक । इति विवृतिज्योतिष्कः सूर्य उच्यते । तेन ग्रस्ता सती सा हे अश्विनौ युवामजोहवीत् । आह्वयत् । यदा खलु युवां वृकस्य सूर्यस्यास्न अस्यस्थानीयान्मंडलाद मुंचतं आमोचयतम् । सूर्येणैकीभूतामुषसं पृथक्कृत्योदयात्पूर्वं रात्रेरपरभागे स्थापितवंतावित्यर्थः । तथा च यास्कः । अदित्योऽपि वृक उच्यते यदावृंक्ते । आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् (नि ५-२१) इति । अपि च जयुषा जयशीलेन रथेनार्द्रेर्मेघस्य सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया विशेषेण ययथुः । युवां गतवंतौ । गत्वा च विष्वाचो विविधगतियुक्तस्य मेघस्य संबंधिना विषेणोदकेन जातमुत्पन्नं सर्व भूतजातमहतम् । आगमयतम् । वृष्टिं कृतवंतावित्यर्थः ॥ अजोहवीत् । ह्वयतेर्यङ् लुगंताल्लङि तिपि यङो वेतीडागमः । अभ्यस्तस्य चेति द्विर्वचनात्पूर्वमेव ह्वयतेः संप्रसारणम् । आस्नः । पद्दन्नित्यादिनास्य शब्दस्यासन्नादेशः । अल्लोपोऽन इत्यकारलोपः । जयुषा । जि जये । औणादिक उसिप्रत्ययः । विष्वाचः । विषु नानाभिमुख्येनांचतीति विग्रहः । ऋत्विगित्यादिना क्विन् । अच इत्यकारलोपः । चाविति दीर्घः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वे प्राप्ते चावित्यंतोदात्तत्वम् । अहतम् । हन हिंसागत्योः । लङ्यदादित्वाच्छपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १६ ॥
श॒तं मे॒षान्वृ॒क्ये᳚ मामहा॒नं तम॒ः प्रणी᳚त॒मशि᳚वेन पि॒त्रा ।
आक्षी ऋ॒ज्राश्वे᳚ अश्विनावधत्तं॒ ज्योति᳚र॒न्धाय᳚ चक्रथुर्वि॒चक्षे᳚ ॥
श॒तम् । मे॒षान् । वृ॒क्ये᳚ । म॒म॒हा॒नम् । तमः᳚ । प्र॑नी᳚तम् । अशि᳚वेन । पि॒त्रा ।
आ । अ॒क्षी इति᳚ । ऋ॒ज्र॑अ᳚श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः᳚ । अ॒न्धाय᳚ । च॒क्र॒थुः॒ । वि॒॑चक्षे᳚ ॥
शतं मेषान्वृ क्ये चक्षदानम् । ऋ १-११६-१६ । इत्यत्र यदाख्यानमवादिष्म तदत्राप्यनुसंधेयम् । शतं शतसंख्याकान्मेषान्वृक्ये वृकीरूपेणावस्थितायाश्विनोर्वाहनाय रासभाय ममहानं पूजितवंतमहारार्थं समर्पितवंतमतिवेनासुखकारिणा पित्रा स्वकीयेन जनकेन तमो दृष्टिराहित्येन कृतमांध्यं प्रणीतं प्रापितमृज्राश्वं चक्षुष्मंतमश्विनावकुरुतामिति शेषः । एतदेव विशदयति । हे अश्विनौ अक्षी पितृशापान्नष्टे चक्षुषी ऋज्राश्व एतत्संज्ञके राजर्षावाधत्तम् । पुनर्दर्शन समर्थे अकुरुतम् । एतदेवाह । अंधाय दृष्विहीनाय ज्योतिः प्रकाशकं चक्षुः विचक्षे विविधं जगद्द्रष्वुं चक्रथुः । युवां कृतवंतौ ॥ ममहानम् । मह पूजायाम् । लिटः कानच् । संहितायां छांदसमभ्यासस्य दीर्घत्वम् । प्रणीतम् । प्रपूर्वान्नयतेः कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रिता । उदात्तयण इति विभक्तेरुदात्तत्वम् । अक्षी । अक्षिशब्दाद्विवचने नुमागमश्च प्राप्नोति । ई च द्विवचन इतीकारांतादेशश्च । परत्वादीकारादेशः । कृते तस्मिन् सकृद्गतपरिभाषया पुनर्नुम्न भवति । उदात्त इत्यनुवृत्तेरीकारस्योदात्तत्वं ॥ १७ ॥
शु॒नम॒न्धाय॒ भर᳚मह्वय॒त्सा वृ॒कीर᳚श्विना वृषणा॒ नरेति᳚ ।
जा॒रः क॒नीन᳚ इव चक्षदा॒न ऋ॒ज्राश्व᳚ः श॒तमेकं᳚ च मे॒षान् ॥
शु॒नम् । अ॒न्धाय᳚ । भर᳚म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा᳚ । इति᳚ ।
जा॒रः । क॒नीनः᳚॑इव । च॒क्ष॒दा॒नः । ऋ॒ज्र॑अ᳚श्वः । श॒तम् । एक᳚म् । च॒ । मे॒षान् ॥
शुनमिति सुखनाम । भरं पोषणहेतुभूतं चक्षुरिंद्रियेण निष्पाद्यं सुखमंधाय दृष्टिहीनाय तस्मा ऋज्राश्वायेच्छंती सा वृकीर्हे अश्विनावश्वयुक्तौ कृत्स्नं जगद्व्याप्नुवंतौ वा वृषणा हे वृषणौ कामानां वर्षितारावित्येवं संबोध्य नरा नेतारावश्विनावह्वयत् । आहूतवती । आह्वयंत्यास्तस्याः कोऽभिप्राय इति चेत् तदुच्यते । कनीन इव यथा प्राप्तयौवनः कामुको जारः पारदारिकः सन् परस्त्रियै सर्वं धनं प्रयच्छति एवमृज्राश्वो मह्यं शतमेकं चैकोत्तरशतसंख्याकान्मेषान्पौरजनानां स्वभूतानपहृत्य चक्षदानः शकलीकुर्वन् प्रादात् । तेनेदृशीं दुर्दशां प्राप्त इति ॥ कनीनः । युवशब्दादिष्ठनि युवाल्पयोः कन्नन्यतरस्याम् (पा ५-३-६४) इति युवशब्दस्य कन्नादेशः । व्यत्ययेनेष्ठनः खादेशः । यद्वा । कन दीप्तिकांतिगतिषु । आस्मादौणादिक ईनप्रत्ययः ॥ १८ ॥
म॒ही वा᳚मू॒तिर᳚श्विना मयो॒भूरु॒त स्रा॒मं धि᳚ष्ण्या॒ सं रि᳚णीथः ।
अथा᳚ यु॒वामिद᳚ह्वय॒त्पुरं᳚धि॒राग᳚च्छतं सीं वृषणा॒ववो᳚भिः ॥
म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒॑भूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ ।
अथ᳚ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर᳚म्॑धिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः᳚॑भिः ॥
हे अश्विनौ वां युवयोर्मही महत्यूतिः पालनं मयोभूर्मयसः सुखस्य भावयित्री । उतापि च हे धिष्ण्या । धिषणा स्तुतिलक्षणा वाक् । तया स्तोतव्यौ स्रामं व्याधितं पुरुषं विश्लिष्टांगमत्र्यादिकं सं रिणीथः । संगतावयवं कुरुथः । अथापि च युवामिद्युवामेव पुरंधिर्बहुधीर्घोषा विश्पला वाह्वयत् । रोगोपशमनार्थमाहूतवती ॥ हे वृषणौ कामानां वर्षितारावश्विनौ अवोभी रक्षणैः सहागच्छतम् । आभिमुख्येन सीमेनां प्राप्तवंतौ ॥ मही । महती । छांदसो वर्णलोपः । यद्वा । महेरौणादिक इन् । कृदिकारादक्तिन इति ङीष् । मयोभूः । भवतेरंतर्भावितण्यर्थात् क्विप् । रिणीथः । री गतिरेषणयोः । क्रैयादिकः प्वादीनां ह्रस्व इति ह्रस्वत्वं ॥ १९ ॥
अधे᳚नुं दस्रा स्त॒र्यं१॒᳚ विष᳚क्ता॒मपि᳚न्वतं श॒यवे᳚ अश्विना॒ गाम् ।
यु॒वं शची᳚भिर्विम॒दाय᳚ जा॒यां न्यू᳚हथुः पुरुमि॒त्रस्य॒ योषा᳚म् ॥
अधे᳚नुम् । द॒स्रा॒ । स्त॒र्य᳚म् । वि॑स᳚क्ताम् । अपि᳚न्वतम् । श॒यवे᳚ । अ॒श्वि॒ना॒ । गाम् ।
यु॒वम् । शची᳚भिः । वि॒॑म॒दाय᳚ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒॑मि॒त्रस्य᳚ । योषा᳚म् ॥
हे दस्रा दर्शनीयावश्विनौ विषक्तां विशेषेण सक्तावयवाम् । कृशावयवामित्यर्थः । अत एव स्तर्यं निवृत्तप्रसवां अत एवाधेनुमदोग्ध्रीं एवं भूतां गां शयव एतत्संज्ञायर्षयेऽपिन्वतम् । पयसापूरयतम् । अपि च पुरुमित्रस्य । पुरुमित्रो नाम कश्चिद्राजा । तस्य योषां कुमारीं शचीभिरात्मीयैः कर्मभिर्विमदायैतत्संज्ञायर्षये शत्रुभिः सह योद्धुमशक्ताय युवां न्यूहथुः । विमदस्य गृहं प्रापितवंतौ ॥ स्तर्यम् । स्तृञ् आच्छादने । अवितॄस्तृतंत्रिभ्य ईरितीकारप्रत्ययः । वा छंदसीत्यमि पूर्वस्य विकल्पनादभावे यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । विषक्ताम् । षन्ज संगे । कर्मणि निष्ठा । अनिदितामिति नलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । अपिन्वतम् । पिवि सेचने । इदित्त्वान्नुम् । भौवादिकः । पुरुमित्रस्य । पुरूणि मित्राणि यस्य । संज्ञायां मित्राजिनयोः (पा ६-२-१६५) इति बहुव्रीहावुत्तरपदांतोदात्तत्वं ॥ २० ॥
यवं॒ वृके᳚णाश्विना॒ वप॒न्तेषं᳚ दु॒हन्ता॒ मनु᳚षाय दस्रा ।
अ॒भि दस्युं॒ बकु᳚रेणा॒ धम᳚न्तो॒रु ज्योति᳚श्चक्रथु॒रार्या᳚य ॥
यव᳚म् । वृके᳚ण । अ॒श्वि॒न॒ । वप᳚न्ता । इष᳚म् । दु॒हन्ता᳚ । मनु᳚षाय । द॒स्रा॒ ।
अ॒भि । दस्यु᳚म् । बकु᳚रेण । धम᳚न्ता । उ॒रु । ज्योतिः᳚ । च॒क्र॒थुः॒ । आर्या᳚य ॥
अर्याय विदुषे । मनुषशब्दो मनुशब्दपर्यायः । मनुषाय मनवे मनोरर्थं हे दस्रा दर्शनीयावश्विनौ वृकेण लांगलेन कर्षकैः कृष्टदेशे यवं यवाद्युपलक्षितं सर्वं धान्यजातं वपंता वापयंतौ तथेषम् । अन्ननामैतत् । तत्कारणभूतं वृष्ट्युदकं च दुहंता मेघात्क्षारयंतौ तथा दस्युमुपक्षयकारिणमसुरपिशाचादिकं बकुरेण । बकुरो भासमानो वज्रः । तेनाभि धमंता । धमतिर्वधकर्मा । अभिघ्नंतौ एवं त्रिविधं कर्म कुर्वंतौ युवामुरु विस्तीर्णं ज्योतिः स्वकीयं तेजो माहात्म्यं चक्रथुः । कृतवंतौ दर्शितवंतावित्यर्थः । यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्ण सूर्याख्यं ज्योतिश्चक्रथुः । कृतवंतौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि यवाभ्यां कृतानीति भावः । अत्र निरुक्तं बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा । यवमिव वृकेणाश्विनौ निवपंतौ वृको लांगलं भवति विकर्तनादित्यादिक मनुसंधेयम् । नि ६-२६ ॥ मनुषाय । मनेरौणादिक उषन्प्रत्ययः ॥ २१ ॥
आ॒थ॒र्व॒णाया᳚श्विना दधी॒चे॑श्व्यं॒ शिर॒ः प्रत्यै᳚रयतम् ।
स वां॒ मधु॒ प्र वो᳚चदृता॒यन्त्वा॒ष्ट्रं यद्द᳚स्रावपिक॒क्ष्यं᳚ वाम् ॥
आ॒थ॒र्व॒णाय᳚ । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य᳚म् । शिरः᳚ । प्रति᳚ । ऐ॒र॒य॒त॒म् ।
सः । वा॒म् । मधु᳚ । प्र । वो॒च॒त् । ऋ॒त॒॑यन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒॑क॒क्ष्य᳚म् । वा॒म् ॥
तद्वां नरा सनये । ऋ १-११६-१२ । इत्यत्रोक्तमाख्यानमिहाप्यनुसंधेयम् । हे अश्विनौ आथर्वणायाथर्वणः पुत्राय दधीचे दध्यङ्नाम्ने महर्षयेऽश्व्यमश्वसंबंधि शिरः प्रत्यैरयतम् । प्रत्यधत्तम् । तदीयं मानुषं शिरः प्रच्छिद्यान्यत्र विधायाश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः । स च वां युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामीति पुरा कृतां प्रतिज्ञां ऋतायन् सत्यामात्मन इच्छन् मधु मधुविद्यां त्वाष्ट्रं त्वष्वुरिंद्राल्लब्धं प्र वोचत् । प्रोक्तवान् । हे दस्रौ दर्शनीयावश्विनौ वां युवयोः संबंधि यदपिकक्ष्यं छिन्यस्य यज्ञशिरसः कक्षप्रदेशेन पुनःसंधानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि वां युवाभ्यां प्रावोचदित्यर्थः ॥ दधीचे । अंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । चतुर्थ्येकवचनेऽच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तस्यापवादत्वेन चाविति विभक्तेः पूर्वस्योदात्तत्वं प्राप्तम् । तस्याप्ययमपदवादः । अंचेश्छंदस्यसर्वनामस्थानमिति विभक्त्युदात्तत्वं ॥ २२ ॥
सदा᳚ कवी सुम॒तिमा च᳚के वां॒ विश्वा॒ धियो᳚ अश्विना॒ प्राव᳚तं मे ।
अ॒स्मे र॒यिं ना᳚सत्या बृ॒हन्त᳚मपत्य॒साचं॒ श्रुत्यं᳚ रराथाम् ॥
सदा᳚ । क॒वी॒ इति᳚ । सु॒॑म॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः᳚ । धियः᳚ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ ।
अ॒स्मे इति᳚ । र॒यिम् । ना॒स॒त्या॒ । बृ॒हन्त᳚म् । अ॒प॒त्य॒॑साच᳚म् । श्रुत्य᳚म् । र॒रा॒था॒म् ॥
हे कवी क्रांतदर्शिनौ मेधाविनावश्विनौ वां युवयोः सुमतिं कल्याणीमनुग्रहात्मिकां बुद्धिं सदा सर्वदा चके । आभिमुख्येन प्रार्थये । मे मदीयानि विश्वा धियः सर्वाणि कर्माणि युवां प्रावतम् । प्रकर्षेण रक्षतम् । अपि चास्मे अस्मभ्यं हे नासत्यावश्विनौ बृहंतं महांतमपत्यसाचमपत्यैः पुत्रादिभिः समवेतं श्रुत्यं प्रशंसनीयमुत्कृष्टं रयिं धनं रराथाम् । प्रयच्छतं ॥ चके । कै गै शब्दे । व्यत्ययेनात्मनेपदम् । लिट्युत्तमैकवचने रूपम् । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । अपत्यसाचम् । अपत्यैः सह सचते संगच्छत इत्यपत्यसाच् । छांदसो ण्विः । श्रुत्यम् । श्रुतिः स्तुतिः । तत्र भवं श्रुत्यम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । रराथाम् । रा दाने । लोट व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः ॥ २३ ॥
हिर᳚ण्यहस्तमश्विना॒ ररा᳚णा पु॒त्रं न᳚रा वध्रिम॒त्या अ᳚दत्तम् ।
त्रिधा᳚ ह॒ श्याव᳚मश्विना॒ विक᳚स्त॒मुज्जी॒वस᳚ ऐरयतं सुदानू ॥
हिर᳚ण्य॑हस्तम् । अ॒श्वि॒ना॒ । ररा᳚णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒॑म॒त्याः । अ॒द॒त्त॒म् ।
त्रिधा᳚ । ह॒ । श्याव᳚म् । अ॒श्वि॒ना॒ । वि॑क᳚स्तम् । उत् । जी॒वसे᳚ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति᳚ सु॑दानू ॥
रराणा रममाणौ दातारौ वा नरा नेतारौ हे अश्विनौ हिरण्यहस्तं नाम पुत्रं वध्रिमत्या एतत्संज्ञायै ब्रह्मवादिन्या अदत्तम् । प्रायच्छतं ह । अपि च हे सुदानू शोभनदानावश्विनौ त्रिधा त्रेधा विकस्तं विच्छिन्नं श्यावाख्यमृषिं जीवसे जीवितुमुवैरयतम् । असुरैस्त्रेधा खंडितं शरीरं पुनरेकीकृत्योदगमयतमित्यर्थः ॥ रराणा । रमतेः शानचि बहुलं छंदसीति शपः श्लुः । व्यत्ययेन मकारस्यात्वम् । रातेर्वा व्यत्ययेन शानच् । पूर्ववत् श्लुः । वध्रिमत्याः चतुर्थ्यर्थे बहुलं छंदसीति षष्ठी । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः ॥ २४ ॥
ए॒तानि᳚ वामश्विना वी॒र्या᳚णि॒ प्र पू॒र्व्याण्या॒यवो᳚॑वोचन् ।
ब्रह्म᳚ कृ॒ण्वन्तो᳚ वृषणा यु॒वभ्यां᳚ सु॒वीरा᳚सो वि॒दथ॒मा व᳚देम ॥
ए॒तानि᳚ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या᳚णि । प्र । पू॒र्व्याणि᳚ । आ॒यवः᳚ । अ॒वो॒च॒न् ।
ब्रह्म᳚ । कृ॒ण्वन्तः᳚ । वृ॒ष॒णा॒ । यु॒व॑भ्या᳚म् । सु॒॑वीरा᳚सः । वि॒दथ᳚म् । आ । व॒दे॒म॒ ॥
अश्विना हे अश्विनौ वां युवयोः संबंधीनि पूर्व्याणि प्रत्नान्येतानीदानीं मयोक्तानि वीर्याणि वीरकर्माण्यायवो मनुष्या मदीयाः पित्रादयः प्रावोचन् । उक्तवंतः । वयं च हे वृषणा कामाभिवर्षकावश्विनौ युवाभ्यां ब्रह्म मंत्रात्मकं स्तोत्रं कृण्वंतः कुर्वंतः सुवीरासः सुवीराः शोभनैर्वीरैः पुत्रादिभिरुपेताः संतो विदथं यज्ञ मावदेम । आभिमुख्येन स्तुतीरुच्चारयाम । यद्वा । विदथं वेदयंतमतिथिं तदपेक्षितप्रदानेना वदेम । आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम ॥ कृण्वंतः । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लटः शतृ । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारांतादेशश्च । अतो लोपे सति स्थानिवद्भावाल्लघूपदगुणाभावः । सुवीरासः । शोभना वीरा येषां ते तथोक्ताः । अज्जसेरसुक् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । विदथम् । विद ज्ञाने । रुविदिभ्यां किदित्यथप्रत्ययः ॥ २५ ॥