श्रवणम्

1.117.13 समानपद
यु॒वं च्यवा᳚नमश्विना॒ जर᳚न्तं॒ पुन॒र्युवा᳚नं चक्रथु॒ः शची᳚भिः ।
यु॒वो रथं᳚ दुहि॒ता सूर्य᳚स्य स॒ह श्रि॒या ना᳚सत्यावृणीत ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । च्यवा᳚नम् । अ॒श्वि॒ना॒ । जर᳚न्तम् । पुनः᳚ । युवा᳚नम् । च॒क्र॒थुः॒ । शची᳚भिः ।
यु॒वोः । रथ᳚म् । दु॒हि॒ता । सूर्य᳚स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवां शचीभिरात्मीयैर्भैषज्यलक्षणैः कर्मभिर्जरंतं जीर्यंतं च्यवानं स्तुतीनां च्यावयितारमेतत्संज्ञमृषिं युवानं पुनर्यौवनोपेतं चक्रथुः । कृतवंतौ । अपि च हे नासत्यावश्विनौ युवोर्युवयो रथं सूर्यस्य दुहिता सूर्यख्या श्रिया सह ऋक्सहस्ररूपया संपदा कांत्या वा सहावृणीत । समभजत । आगत्यारूढवतीत्यर्थः । आ वां रथं दुहिता । ऋ १-११६-१७ । इत्यत्र लिखितमाख्यानमत्रापि द्रष्टव्यं ॥ जरतम् । जॄ ष् वयोहानौ । व्यत्ययेन शप् । युवोः । युष्मच्घब्दात् षष्ठीद्विवचने व्यत्ययेन योऽचीति यत्वाभावे सति शेषे लोप इति दकारलोपः । अतो गुण इति पररूपत्वम् । एकादेश उदात्तेनोदात्तः । अवृणीत । वृङ् संभक्तौ । क्रैयादिकः ॥ १३ ॥