श्रवणम्

1.117.24
हिर᳚ण्यहस्तमश्विना॒ ररा᳚णा पु॒त्रं न᳚रा वध्रिम॒त्या अ᳚दत्तम् ।
त्रिधा᳚ ह॒ श्याव᳚मश्विना॒ विक᳚स्त॒मुज्जी॒वस᳚ ऐरयतं सुदानू ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑हस्तम् । अ॒श्वि॒ना॒ । ररा᳚णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒॑म॒त्याः । अ॒द॒त्त॒म् ।
त्रिधा᳚ । ह॒ । श्याव᳚म् । अ॒श्वि॒ना॒ । वि॑क᳚स्तम् । उत् । जी॒वसे᳚ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति᳚ सु॑दानू ॥
▶ सायणभाष्यम् (Sayana Commentary)

रराणा रममाणौ दातारौ वा नरा नेतारौ हे अश्विनौ हिरण्यहस्तं नाम पुत्रं वध्रिमत्या एतत्संज्ञायै ब्रह्मवादिन्या अदत्तम् । प्रायच्छतं ह । अपि च हे सुदानू शोभनदानावश्विनौ त्रिधा त्रेधा विकस्तं विच्छिन्नं श्यावाख्यमृषिं जीवसे जीवितुमुवैरयतम् । असुरैस्त्रेधा खंडितं शरीरं पुनरेकीकृत्योदगमयतमित्यर्थः ॥ रराणा । रमतेः शानचि बहुलं छंदसीति शपः श्लुः । व्यत्ययेन मकारस्यात्वम् । रातेर्वा व्यत्ययेन शानच् । पूर्ववत् श्लुः । वध्रिमत्याः चतुर्थ्यर्थे बहुलं छंदसीति षष्ठी । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः ॥ २४ ॥