तद्वां᳚ नरा॒ शंस्यं᳚ पज्रि॒येण᳚ क॒क्षीव᳚ता नासत्या॒ परि᳚ज्मन् ।
श॒फादश्व᳚स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भा{4} अ᳚सिञ्चतं॒ मधू᳚नाम् ॥
श॒फादश्व᳚स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भा{4} अ᳚सिञ्चतं॒ मधू᳚नाम् ॥
पदपाठः (Word-by-word)
तत् । वा॒म् । न॒रा॒ । शंस्य᳚म् । प॒ज्रि॒येण᳚ । क॒क्षीव᳚ता । ना॒स॒त्या॒ । परि᳚॑ज्मन् ।
श॒फात् । अश्व᳚स्य । वा॒जिनः᳚ । जना᳚य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू᳚नाम् ॥
श॒फात् । अश्व᳚स्य । वा॒जिनः᳚ । जना᳚य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारौ नासत्यावश्विनौ परिज्मन् परिगमनेऽभीष्टस्य प्रापणे निमित्तभूते सति पज्रियेण पज्राणामंगिरसां कुले जातेन कक्षीवता मया वां युवयोः संबंधि तत्कर्म शंस्यम् । प्रकर्षेण शंसनीयम् । तच्छब्द श्रुतेर्यच्छब्दाध्याहारः । यज्जनायापेक्षमाणाय पुरुषाय वाजिनो वेगवतस्तदीयस्याश्वस्य शफान्निर्गतैर्मधूनां मधुभिः शतसंख्याकान्कुंभानसिंचतम् । अपूरयतम् । सिंचतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तच्छंस्यमित्यर्थः ॥ ६ ॥