श्रवणम्

1.117.23
सदा᳚ कवी सुम॒तिमा च᳚के वां॒ विश्वा॒ धियो᳚ अश्विना॒ प्राव᳚तं मे ।
अ॒स्मे र॒यिं ना᳚सत्या बृ॒हन्त᳚मपत्य॒साचं॒ श्रुत्यं᳚ रराथाम् ॥
▶ पदपाठः (Word-by-word)
सदा᳚ । क॒वी॒ इति᳚ । सु॒॑म॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः᳚ । धियः᳚ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ ।
अ॒स्मे इति᳚ । र॒यिम् । ना॒स॒त्या॒ । बृ॒हन्त᳚म् । अ॒प॒त्य॒॑साच᳚म् । श्रुत्य᳚म् । र॒रा॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवी क्रांतदर्शिनौ मेधाविनावश्विनौ वां युवयोः सुमतिं कल्याणीमनुग्रहात्मिकां बुद्धिं सदा सर्वदा चके । आभिमुख्येन प्रार्थये । मे मदीयानि विश्वा धियः सर्वाणि कर्माणि युवां प्रावतम् । प्रकर्षेण रक्षतम् । अपि चास्मे अस्मभ्यं हे नासत्यावश्विनौ बृहंतं महांतमपत्यसाचमपत्यैः पुत्रादिभिः समवेतं श्रुत्यं प्रशंसनीयमुत्कृष्टं रयिं धनं रराथाम् । प्रयच्छतं ॥ चके । कै गै शब्दे । व्यत्ययेनात्मनेपदम् । लिट्युत्तमैकवचने रूपम् । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । अपत्यसाचम् । अपत्यैः सह सचते संगच्छत इत्यपत्यसाच् । छांदसो ण्विः । श्रुत्यम् । श्रुतिः स्तुतिः । तत्र भवं श्रुत्यम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । रराथाम् । रा दाने । लोट व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः ॥ २३ ॥