श्रवणम्

1.117.18
शु॒नम॒न्धाय॒ भर᳚मह्वय॒त्सा वृ॒कीर᳚श्विना वृषणा॒ नरेति᳚ ।
जा॒रः क॒नीन᳚ इव चक्षदा॒न ऋ॒ज्राश्व᳚ः श॒तमेकं᳚ च मे॒षान् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । अ॒न्धाय᳚ । भर᳚म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा᳚ । इति᳚ ।
जा॒रः । क॒नीनः᳚॑इव । च॒क्ष॒दा॒नः । ऋ॒ज्र॑अ᳚श्वः । श॒तम् । एक᳚म् । च॒ । मे॒षान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुनमिति सुखनाम । भरं पोषणहेतुभूतं चक्षुरिंद्रियेण निष्पाद्यं सुखमंधाय दृष्टिहीनाय तस्मा ऋज्राश्वायेच्छंती सा वृकीर्हे अश्विनावश्वयुक्तौ कृत्स्नं जगद्व्याप्नुवंतौ वा वृषणा हे वृषणौ कामानां वर्षितारावित्येवं संबोध्य नरा नेतारावश्विनावह्वयत् । आहूतवती । आह्वयंत्यास्तस्याः कोऽभिप्राय इति चेत् तदुच्यते । कनीन इव यथा प्राप्तयौवनः कामुको जारः पारदारिकः सन् परस्त्रियै सर्वं धनं प्रयच्छति एवमृज्राश्वो मह्यं शतमेकं चैकोत्तरशतसंख्याकान्मेषान्पौरजनानां स्वभूतानपहृत्य चक्षदानः शकलीकुर्वन् प्रादात् । तेनेदृशीं दुर्दशां प्राप्त इति ॥ कनीनः । युवशब्दादिष्ठनि युवाल्पयोः कन्नन्यतरस्याम् (पा ५-३-६४) इति युवशब्दस्य कन्नादेशः । व्यत्ययेनेष्ठनः खादेशः । यद्वा । कन दीप्तिकांतिगतिषु । आस्मादौणादिक ईनप्रत्ययः ॥ १८ ॥