प्रथमं मण्डलम् - सूक्तम् 49

4 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: उषाः छन्दः: अनुष्टुप्

सूक्तम् 1.49 - सम्पूर्णम्

1 / 4
ऋक्: 1.49.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
1.49.1
उषो᳚ भ॒द्रेभि॒रा ग᳚हि दि॒वश्चि᳚द्रोच॒नादधि᳚ ।
वह᳚न्त्वरु॒णप्स᳚व॒ उप᳚ त्वा सो॒मिनो᳚ गृ॒हम् ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । भ॒द्रेभिः᳚ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि᳚ ।
वह᳚न्तु । अ॒रु॒ण॑प्स᳚वः । उप᳚ । त्वा॒ । सो॒मिनः᳚ । गृ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषो भद्रेभिरिति चतुर्ऋुचं षष्ठं सूक्तम् । अत्रानुक्रम्यते । उषश्चतुष्कमानुष्वुभं त्विति । कण्वपुत्रः । प्रस्कण्व ऋषिः । तुह्यादिपरिभाषयेदमुत्तरं चानुष्टुभम् । पूर्वत्रोषस्य त्वित्युक्तत्वादिदमपि सूक्तमुषस्यम् । प्रातरनुवाकस्योषस्ये क्रतावानुष्टुभे छंदस्येतत्सूक्तम् । सूत्र्यते हि । उषो भद्रेभिरित्यानुष्टुभम् (आ ४-१४) इति । आश्विनशस्त्रेऽप्येतत्सूक्तम् । प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदेशात् ॥

हे उष उषोदेवते भद्रेभिर्भिंदनीयैः शोभनैर्मार्गैर्दिवोऽंतरिक्ष लोकात् रोचनाद्रोचमानाद्दीप्यमानात् । अधिरुपर्यर्थः । उपरि वर्तमानात् । चिदिति पूजितार्थः । पूजितादेवंविधादंतरिक्षलोकादा गहि । अ गच्छ । हे उषः अरुणप्सवोऽरुणवर्णा गावः सोमिनः सोमयुक्तस्य यजमानस्य गृहं देवयजनरूपं यज्ञ गृहं त्वा त्वामुपवहंतु । प्रापयंतु ॥ गहि । गमेर्लोट बहुलं छंदसीति शपो लुक् । हेरपित्त्वेन ङित्तेऽनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अतो हेरिति लुग्न भवति । असिद्धवदत्रा भादित्यनुनासिकलोपस्यासिद्धत्वात् । रोचनात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । योरनादेशे चित इत्यंतोदात्तत्वम् । अरुणप्सवः । प्सा भक्षणे । प्सांति भक्षयंति स्तनं पिबंतीति प्सवो वत्साः । औणादिकः । कुप्रत्ययः । आतो लोप इट चेत्याकारलोपः । अरुणाः प्सवो यासां तास्तथोक्ताः । अत्र वत्सानामारुण्य प्रतिपादनान्मातृणामपि तथात्वं गम्यते । पैतृकमश्वाअनुहरंते मातृकं गावोऽनुहरंते । म १-३-२१ ५ । इति गोनर्दीयः । तासां चोषोवाहनत्वम् । निघंटावुक्तम् । अरुण्यो गाव उषसामिति । अरुणशब्दोऽर्तेश्च (उ ३-६०) इत्युनन्प्रत्ययांतः । तृणाख्यायां चित् (उ ३-५९) इत्यतश्चिदित्यनुवृत्तेरंतोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते ॥ १ ॥

1.49.2
सु॒पेश᳚सं सु॒खं रथं॒ यम॒ध्यस्था᳚ उष॒स्त्वम् ।
तेना᳚ सु॒श्रव᳚सं॒ जनं॒ प्रावा॒द्य दु᳚हितर्दिवः ॥
▶ पदपाठः (Word-by-word)
सु॒॑पेश᳚सम् । सु॒खम् । रथ᳚म् । यम् । अ॒धि॒॑अस्थाः᳚ । उ॒षः॒ । त्वम् ।
तेन᳚ । सु॒॑श्रव᳚सम् । जन᳚म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्त्वं यं रथमध्यस्थाः अधितिष्ठति । कीदृशं रथम् । सुपेशसं शोभनावयवं शोभनरूपयुक्तम् । पेतः कृशनमिति तन्नामसु पाठात् । सुखं शोभनेन खेनाकाशेन युक्तम् । विस्तृतमित्यर्थः । यद्वा । सुखहेतुभूतम् । अथवा सुखमिति क्रियाविशेषणम् । सुखं यथा भवति तथेत्यर्थः । हे दिवो दुहितर्द्युलोकसकाशादुत्पन्न उषोदेवते तेन रथेनाद्यास्मिन्काले सुश्रवसं शोभनहविर्युक्तं जनं यजमानं प्राव । प्रकर्षेण गच्छ ॥ सुपेशसं पिश अवयवे । अस्मादसुन्प्रत्ययः । नित्त्वादाद्युदात्तः पेशस्शब्दः । शोभनं पेशो यस्यासौ सुपेशाः । आद्युदात्तं द्वृच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अध्यस्थाः । तिष्ठतेश्चंदसि लुङ् लङ् लिट इति वर्तमाने लुङि गातिस्थेति सिचो लुक् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । तेन अन्येषामपि दृश्यत इति संहिता यां दीर्घः । सुश्रवसम् । श्रव इत्यन्ननाम । श्रूयत इति सतः । नि १०-३ । इति यास्कः । सुपेशसमितिवदुत्तरपदाद्युदात्तत्वम् । अव । अव रक्षणगतिप्रीतितृप्तीत्युक्तत्वादत्रावतर्गत्यर्थः । दुहितर्दिवः परमपि छंदसीति षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति पदद्वयसमुदायस्याष्वमिकं सर्वानुदात्तत्वं ॥ २ ॥

1.49.3
वय᳚श्चित्ते पत॒त्रिणो᳚ द्वि॒पच्चतु᳚ष्पदर्जुनि ।
उष॒ः प्रार᳚न्नृ॒तू{4}रनु᳚ दि॒वो अन्ते᳚भ्य॒स्परि᳚ ॥
▶ पदपाठः (Word-by-word)
वयः᳚ । चि॒त् । ते॒ । प॒त॒त्रिणः᳚ । द्वि॒॑पत् । चतुः᳚॑पत् । अ॒र्जु॒नि॒ ।
उषः᳚ । प्र । आ॒र॒न् । ऋ॒तून् । अनु᳚ । दि॒वः । अन्ते᳚भ्यः । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अर्जुनि शुभ्रवर्ण उष उषोदेवते ते तव ऋुतूꣲरनु गमनान्यनुलक्ष्य द्विपत् द्विपात् मनुष्यादिकं चतुष्पत् गवादिकं तथा पतत्रिणः पतत्रवंतः पक्षोपेता वयश्चित् पक्षिणश्च दिवोऽंतेभ्य आकाशप्रांतेभ्यः पर्युपरि प्रारन् । प्रकर्षेण गच्छंति । रात्रावंधकारेणाभिभूताः सर्वे प्राणिनस्त्वदागमानंतरं चेष्टावंतो भवंतीत्यर्थः ॥ पतत्रिणः । पत्लृगतौ । पतत्यनेनेति पतत्रम् । अमिनक्षीत्यादिना (उ १-१०५) अत्रन्प्रत्ययः । ततो मत्वर्थीय इनिः । द्विपत् । द्वौ पादावस्येति संख्यासुपूर्वस्य (पा ५-४-१४०) इति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वात् पादः पत् (पा ६-४-१३०) इति पद् भावः । द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (पा ६-२-१९७) इत्युत्तरपदांतोदात्तत्वम् । चतुष्पतो । चत्वारः पादा अस्य । स्वरव्यतिरिक्तं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इणः ष इत्यनुवृत्ताविदुदुपधस्य चाप्रत्ययस्य (पा ८-३-४१) इति विसर्जनीयस्य षत्वम् । न च परत्वेनास्य विद्धत्वात् कुप्वोः कः पौ च (पा ८-३-३७) इत्युपध्मानीयादेशः शंकनीयः । येन नाप्राप्तिन्यायेन तस्यापवादत्वात् । अपवादस्तु परमपि पूर्वं बाधत एवेति वृत्तावुक्तम् । आरन् । ऋु गतौ । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङिसर्तिशास्त्यर्तिभ्यश्चेति । च्लेरङादेशः । ऋदृशोऽङि गुण इति गुणः । आडागमः । ऋतून् । ऋगतौ । अस्मादौणादिको भावे कुप्रत्ययः । अनु । अनुर्लक्षणे (पा १-४-८४) इत्यनोः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते (पा २-३-८) इति द्वितीया । संहितायां दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेति रोः पूर्वस्य वर्णस्य सानुनासिकत्वम् । दिवः । ऊडिदमिति विभक्तिरुदात्ता । अंतेभ्यः । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वं ॥ ३ ॥

1.49.4
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व᳚मा॒भासि᳚ रोच॒नम् ।
तां त्वामु᳚षर्वसू॒यवो᳚ गी॒र्भिः कण्वा᳚ अहूषत ॥
▶ पदपाठः (Word-by-word)
वि॒॑उ॒च्छन्ती᳚ । हि । र॒श्मि॑भिः᳚ । विश्व᳚म् । आ॒॑भासि᳚ । रो॒च॒नम् ।
ताम् । त्वाम् । उ॒षः॒ । व॒सु॒॑यवः᳚ । गीः॒॑भिः । कण्वाः᳚ । अ॒हू॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो व्युच्छंती तमो वर्जयंती त्वं रश्मिभिः स्वकीयैस्तेजोभिर्विश्वं सर्वं भूतजातं रोचनं रोचमानं प्रकाशयुक्तं यथा भवति तथाभासि । आ समंतात् प्रकाशसे । हि यस्मादेवं तस्मात्तां तादृशीं त्वां वसूयवो वसुकामाः कण्वा मेधाविन ऋुत्विजः कण्वगोत्रोत्पन्ना वा महर्षयो गीर्भिः स्तुतिलक्षणैर्वचोभिरहूषत । स्तुतवंत इत्यर्थः । कण्वति मेधाविनाम । कण्व ऋभुरिति तन्नामसु पाठात् ॥ आभासि । भा दीप्तौ । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । हि चेति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । रोचनम् । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । चित इत्यंतोदात्तत्वम् । वसूयवः । वसु धनमात्मन इच्छंतः । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । क्याच्छंदसीत्युप्रत्ययः । गीर्भिः । सावेकाच इति विभक्तेरुदात्तत्वम् । अहूषत । ह्वेञो लुङि ह्वः संप्रसारणमित्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वे हल इति दीर्घत्वम् । च्लेः सिच् । एकाच इतीट् प्रतिषेधः । संज्ञा पूर्वकस्य विधेरनित्यत्वाद्गुणाभावः ॥ ६ ॥ ४ ॥