प्रथमं मण्डलम् - सूक्तम् 128

8 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: अग्निः छन्दः: अत्यष्टिः

सूक्तम् 1.128 - सम्पूर्णम्

1 / 8
ऋक्: 1.128.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.128.1
अ॒यं जा᳚यत॒ मनु᳚षो॒ धरी᳚मणि॒ होता॒ यजि᳚ष्ठ उ॒शिजा॒मनु᳚ व्र॒तम॒ग्निः स्वमनु᳚ व्र॒तम् ।
वि॒श्वश्रु᳚ष्टिः सखीय॒ते र॒यिरि᳚व श्रवस्य॒ते ।
अद᳚ब्धो॒ होता॒ नि ष᳚ददि॒ळस्प॒दे परि᳚वीत इ॒ळस्प॒दे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । जा॒य॒त॒ । मनु᳚षः । धरी᳚मणि । होता᳚ । यजि᳚ष्ठः । उ॒शिजा᳚म् । अनु᳚ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु᳚ । व्र॒तम् ।
वि॒श्व॑श्रु᳚ष्टिः । स॒खि॒॑य॒ते । र॒यिः॑इ᳚व । श्र॒व॒स्य॒ते ।
अद᳚ब्धः । होता᳚ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि᳚॑वीतः । इ॒ळः । प॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्मनुषोमनुष्यस्य अध्वर्योः सकाशात् धरीमणि अतिशयेनधारके अरणिद्वये जायत अर- णिमन्थनेनोत्पन्नः कीदृशोयंहोता देवानामाह्वाता यजिष्ठः अतिशयेनयष्टृतमः किमर्थमुत्पन्नइतिचेत् उशिजांफलस्यकामयितॄणां यजमानानां व्रतंसोमयागादिरूपंकर्मानुकक्षी कृत्य नकेवलंपरार्थमेव- अपितुस्वार्थमपि स्वंव्रतमनु स्वकीयंहविः स्वीकारादिरूपंकर्मानुलक्ष्यपुनः सएवविशेष्यते विश्वश्रु- ष्टिः विश्वविषयकर्मवान् कस्मैसखीयते सखीत्वमात्मनइच्छते तथाश्रवस्यते अतिप्रसिद्धान्नमात्मन- इच्छते यजमानाय रयिरिवधनस्थानीयोभवति धनंयथासख्यं अन्नसमृद्धिंचसाधयति तद्वदयमग्निर- पितस्मैद्वयंसाधयतीत्यर्थः किंचायमग्निः इछस्पदे इडायाभूम्याः पदे अन्त्यलोपश्छान्दसः धरीमणि सारभूतेस्थानेवेदिरूपे वेदिमाहुःपरमन्तंपृथिव्याइतिश्रुतेः । एतावतीवैपृथिवीर्यावतीवेदिरितिच । पुनस्तदेवविशेष्यते इडस्पदे इडादेवतायामनोः पुत्र्यागोरूपायाःइडोपह्वानमन्त्रप्रतिपादितायाः पदेपादन्यासप्रदेशे इडावैमानवीयज्ञानूकाशिन्यासीदितीडायाः पदेघृतवतिस्वाहेतिचश्रुतेः । निष- दत् निषीदति कीदृशोयमग्निः अदब्धः केनाप्याहिंसितः होता होमनिष्पादकः परिवीतः ऋत्वि- ग्भिः परिधिभिर्वापरितोवेष्टितः एवंभूतःसन् निषदत् ॥ १ ॥

1.128.2
तं य᳚ज्ञ॒साध॒मपि᳚ वातयामस्यृ॒तस्य᳚ प॒था नम᳚सा ह॒विष्म᳚ता दे॒वता᳚ता ह॒विष्म᳚ता ।
स न᳚ ऊ॒र्जामु॒पाभृ᳚त्य॒या कृ॒पा न जू᳚र्यति ।
यं मा᳚त॒रिश्वा॒ मन᳚वे परा॒वतो᳚ दे॒वं भाः प᳚रा॒वतः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । य॒ज्ञ॒॑साध᳚म् । अपि᳚ । वा॒त॒या॒म॒सि॒ । ऋ॒तस्य᳚ । प॒था । नम᳚सा । ह॒विष्म᳚ता । दे॒व॑ता᳚ता । ह॒विष्म᳚ता ।
सः । नः॒ । ऊ॒र्जाम् । उ॒प॒॑आभृ᳚ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ ।
यम् । मा॒त॒रिश्वा᳚ । मन᳚वे । प॒रा॒॑वतः᳚ । दे॒वम् । भारिति॒ भाः । प॒रा॒॑वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञसाधंयज्ञस्यसाधकं साध्नोतेःक्विपि कृदुत्तरपदप्रकृतिस्वरत्वं तमग्निंवेद्यांस्थापितं अपि वा- तयामसि अपिःसंभावनार्थः आपरितोषंसेवामहे वातगतिसुखसेवनयोः चौरादिकः इदन्तोमसिः केनोपायेनेतितदुच्यते—ऋतस्यपथायागस्यमार्गेण यागानुष्ठानेन यज्ञेनदेवेभ्यइतिश्रुतेः । यज्ञे नदेव- स्यमहतीप्रीतिर्भवति यद्वा ऋतस्ययज्ञस्य पंथामार्गस्तीर्थाख्यः पूर्वेणोत्करमपरेणप्रणीताइत्यादि- सूत्रोक्तः तेनमार्गेणगत्वापुनः केन हविष्मता आज्यादिप्रदेयद्रव्यवता नमसा नमस्कारोपलक्षणेन स्तोत्रेणोपस्थानेनवातदुभयेनेत्यर्थः कुत्रेतितदुच्यते हविष्मताहविष्मति आज्यपुरोडाशादिबहुहवि- र्युक्तेदेवतातादेवानांविस्तारयुक्तेयज्ञे किंच सोग्निः नोऽस्मत्संबन्धिनां ऊर्जामन्नानांहविर्लक्षणानां- उपाभृति उपाहरणेतत्स्वीकारविषयेउपाङुपसृष्टाद्धरतेःक्तिन् हृग्रहोर्भइतिभत्वं सुपांसुलुगितिसप्त- म्यालुक् तादौचेत्यनन्तरस्यगतेः प्रकृतिस्वरत्वम् अयाकृपा अनया सामर्थ्यलक्षणयाकल्पनया हविः स्वीकरणरूपया नजूर्यति यज्ञसमाप्तिपर्यन्तंननश्यति अजरोवर्ततइत्यर्थः सइत्युक्तंकइत्याह—यमग्निं- देवंद्योतनशीलंमातरिश्वाअन्तरिक्षसंचारी वायुः पूर्वं मनवेमनोरर्थायपरावतः अतिदूरंगतवतः आदित्यात् भाः अभासीत् औचित्येनभूमौस्थापितवानित्यर्थः तद्वत्परावतः दूराद्देवंअग्निं अस्मद्दे- वयजनंप्रतिस्थापयत्वित्यर्थः ॥ २ ॥

1.128.3
एवे᳚न स॒द्यः पर्ये᳚ति॒ पार्थि᳚वं मुहु॒र्गी रेतो᳚ वृष॒भः कनि᳚क्रद॒द्दध॒द्रेत॒ः कनि᳚क्रदत् ।
श॒तं चक्षा᳚णो अ॒क्षभि᳚र्दे॒वो वने᳚षु तु॒र्वणि᳚ः ।
सदो॒ दधा᳚न॒ उप᳚रेषु॒ सानु᳚ष्व॒ग्निः परे᳚षु॒ सानु᳚षु ॥
▶ पदपाठः (Word-by-word)
एवे᳚न । स॒द्यः । परि᳚ । ए॒ति॒ । पार्थि᳚वम् । मु॒हुः॒॑गीः । रेतः᳚ । वृ॒ष॒भः । कनि᳚क्रदत् । दध᳚त् । रेतः᳚ । कनि᳚क्रदत् ।
श॒तम् । चक्षा᳚णः । अ॒क्ष॑भिः᳚ । दे॒वः । वने᳚षु । तु॒र्वणिः᳚ ।
सदः᳚ । दधा᳚नः । उप᳚रेषु । सानु᳚षु । अ॒ग्निः । परे᳚षु । सानु᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः एवेनगमनसाधनेनगमनेनवासद्यः अस्मदाह्वानानन्तरंपार्थिवंपृथिवीसंबन्धिस्थानं वेदिलक्षणमेवपरिपरितः यद्वा आभिमुख्यार्थोवापर्येति गच्छति कीदृशोऽग्निः मुहुर्गीः सर्वदागी- यमानःरेतः रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते तद्वान् मत्वर्थीयोलुप्यते वृषभःकामानां वर्षिता - कनिक्रदत् शब्दयन्पर्येति पुनः सएवविशॆष्यते रेतोदधत् आज्यादिस्वीकारेणअत्यधिकंसामर्थ्यंदधानः कनिक्रदच्छब्दयन्पर्येतीतिशेषः पुनः सएवविशॆष्यते अयमग्निर्देवः वनेषुसंभजनेषु स्तोत्रेषु निमित्त- भूतेषु अक्षभिः अक्षस्थानीयाभिर्ज्वालाभिः शतंचक्षाणः सर्वतः प्रकाशमानः यद्वा ज्वालोत्कर्षेण यजमानेनकृतं शतगुणितंप्रख्यापयन् तथातुर्वणिः शीघ्रगन्ताशत्रूणांहिंसकोवा तुर्वणिस्तूर्णवनिरिति- यास्कः । किंच सानुषुसमुच्छ्रितेषु सानुसमुच्छ्रितंभवतीतियास्कः । तेषुउपरेषु उपरमन्तेएष्वग्नय- इतिउपराधिष्ण्याः यजमानगृहावा तेषुसदोदधानः स्थानंधारयमाणोऽग्निः सद्यःपर्येतीतिपूर्वत्रान्व- यः किमर्थं परेषूत्कृष्टेषुसानुषुसमुच्छ्रितेषुकर्मसुहविष्षुवानिमित्तभूतेषु ॥ ३ ॥

1.128.4
स सु॒क्रतु᳚ः पु॒रोहि᳚तो॒ दमे᳚दमे॒॑ग्निर्य॒ज्ञस्या᳚ध्व॒रस्य᳚ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य᳚ चेतति ।
क्रत्वा᳚ वे॒धा इ᳚षूय॒ते विश्वा᳚ जा॒तानि᳚ पस्पशे ।
यतो᳚ घृत॒श्रीरति᳚थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा अजा᳚यत ॥
▶ पदपाठः (Word-by-word)
सः । सु॒॑क्रतुः᳚ । पु॒रः॑हि᳚तः । दमे᳚॑दमे । अ॒ग्निः । य॒ज्ञस्य᳚ । अ॒ध्व॒रस्य᳚ । चे॒त॒ति॒ । क्रत्वा᳚ । य॒ज्ञस्य᳚ । चे॒त॒ति॒ ।
क्रत्वा᳚ । वे॒धाः । इ॒षु॒॑य॒ते । विश्वा᳚ । जा॒तानि᳚ । प॒स्प॒शे॒ ।
यतः᳚ । घृ॒त॒॑श्रीः । अति᳚थिः । अजा᳚यत । वह्निः᳚ । वे॒धाः । अजा᳚यत ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निः सुक्रतुः शोभनकर्मा पुरोहितः पुरोधार्यमाणः यद्वा पुरोहितवद्यागनिर्वहकः सन् दमेदमे तत्तद्यजमानगृहेसर्वेषुदेवयजनेषुवाअध्वरस्यनाशरहितस्यफलप्रदस्ययज्ञस्य तदर्थं चेततिजानाति- प्रबुध्यतइत्यर्थः किंचायंयजमानोऽपि क्रत्वाशोभनेनकर्मणा यज्ञस्यचेतति कर्तव्यतामेवजानाति किंचायमग्निरपि क्रत्वाप्रकृष्टेनकर्मणा वेधाः विविधानांफलानांकर्तासन् इषूयते इष्यतइतीषुरन्नमाग- मनंवा तदिच्छते यजमानायतदर्थं विश्वाजातानिसर्वाणि संपादितानिहविरादीनिपस्पशे अत्यर्थंस्पृ- शति स्वीकरोति यतोयं घृतश्रीः घृतंसेवमानः अतिथिः अतिथिवत्पूज्यश्च अजायत उत्पन्नः यतःका- रणाद्घृतमत्यर्थंसेवमानः प्रवृद्धोभवत् अतः स्पशइत्यर्थः एवमग्नौप्रवृद्धे यजमानोपि वह्निः हविषां- वोढा वेधाः विविधस्यफलस्यकर्ताउत्पादयिता अजायत समर्थोऽभवत् ॥ ४ ॥

1.128.5
क्रत्वा॒ यद᳚स्य॒ तवि᳚षीषु पृ॒ञ्चते॒॑ग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ ।
स हि ष्मा॒ दान॒मिन्व᳚ति॒ वसू᳚नां च म॒ज्मना᳚ ।
स न᳚स्त्रासते दुरि॒ताद᳚भि॒ह्रुत॒ः शंसा᳚द॒घाद᳚भि॒ह्रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । यत् । अ॒स्य॒ । तवि᳚षीषु । पृ॒ञ्चते᳚ । अ॒ग्नेः । अवे᳚न । म॒रुता᳚म् । न । भो॒ज्या᳚ । इ॒षि॒राय᳚ । न । भो॒ज्या᳚ ।
सः । हि । स्म॒ । दान᳚म् । इन्व᳚ति । वसू᳚नाम् । च॒ । म॒ज्मना᳚ ।
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒॑इ॒तात् । अ॒भि॒॑ह्रुतः᳚ । शंसा᳚त् । अ॒घात् । अ॒भि॒॑ह्रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्मात्कारणात्सर्वेयजमानाः क्रत्वाप्रकृष्टेनकर्मणा हविःप्रदानादिरूपेण अस्याग्नेः तविषीषु प्रबलासु ज्वालासु अवेन तृप्तिनिमित्तेनभोज्या भक्ष्याणि पुरोडाशादीनि पृञ्चते मिश्रयन्ति तविषी- तिबलनाम तविषीशुष्ममिति तन्नामसुपाठात् तत्रदृष्टान्तः—मरुतांनभोज्वा वायूनांसंबन्धीनिव्री- ह्याद्यन्नानीव वायुषुमेघंनिर्भिद्यवृष्टिंजनयत्सुसत्सुसस्यादिद्वाराव्रीह्यादिभोज्यानियथापृंचतेतथेत्यर्थः दानेदृष्टान्तः—इषिरायनभोज्या एषणयुक्ताययाचमानायार्थिनेभोज्या भोग्यानिभक्ष्यादीनियथा- दीयन्ते तद्वत् इषिर् श्ब्दोयास्केनैवंनिरुक्तः—ईषणेनवैषणेनवार्षणेनवेति । अतःकारणात् सहिस्म सखलुयजमानः दानमिन्वति हविः प्रदानं तस्मैव्याप्नोति यद्वा स्वयमभिमतंदानमिन्वति इन्वतिर्व्या- प्तिकर्मा इन्वतिनक्षति इतितत्कर्मसुपाठात् केनसामर्थ्येनेति वसूनांचमज्मना निवासयाग्योनांधनानां अग्निनालब्धानां बलेनैव यद्वा सोऽग्निः वसूनां हविर्निवासोग्यानां ज्वालारूपाणां धनानां मज्मना- बलेन दानमिन्वतीतिशेषः किंच सोऽग्निः अभिह्रुतः आभिमुख्येनपापैः ह्रियमाणान् नोऽस्मान्दुरितात् पापात् त्रासते त्रायतेतथाशंसात् अतिप्रभूतत्वेनशंसनीयात् यद्वा हिंसकात् अभिह्रुतः अभितोह्रियमाणात् अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते ॥ ५ ॥

1.128.6
विश्वो॒ विहा᳚या अर॒तिर्वसु᳚र्दधे॒ हस्ते॒ दक्षि᳚णे त॒रणि॒र्न शि᳚श्रथच्छ्रव॒स्यया॒ न शि᳚श्रथत् ।
विश्व᳚स्मा॒ इदि᳚षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि᳚षे ।
विश्व᳚स्मा॒ इत्सु॒कृते॒ वार᳚मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ॥
▶ पदपाठः (Word-by-word)
विश्वः᳚ । वि॑हा᳚याः । अ॒र॒तिः । वसुः᳚ । द॒धे॒ । हस्ते᳚ । दक्षि᳚णे । त॒रणिः᳚ । न । शि॒श्र॒थ॒त् । श्र॒व॒स्यया᳚ । न । शि॒श्र॒थ॒त् ।
विश्व᳚स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒॑त्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।
विश्व᳚स्मै । इत् । सु॒॑कृते᳚ । वार᳚म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा᳚ । वि । ऋ॒ण्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्दक्षिणे अभिमतं प्रदातुमुत्साहयुक्तेहस्तेवामेतरेकरे यजमानायदातव्यंवसुः धनंदधे धार- यति कीदृशोऽयं विश्वैःसर्वैर्गन्तव्यः यद्वा विश्वात्मकः विहायाः महान् विहायाइतिमहन्नाम विहायाः यह्वइति तन्नामसुपाठात् अरतिः ईश्वरः अरमणोवा अप्रीतिः अत्रवहिवस्यर्तिभ्यश्चिदित्यतिप्रत्ययः चिद्वद्भावादन्तोदात्तः धृत्वाचशिश्रथत् हस्तधृतंयजमानार्थंश्रथयतिददाति श्लथयतेर्लुङिचङिरूपं त- त्रदृष्टान्तः- तरणिर्न तरणिरिव तारकःसूर्यइव सयथास्वोपासकाय अभिमतं हस्तेधृत्वावितरति तद्वत् यद्वा तरणिः सर्वस्यतारकः नशिश्रथत् यजमानं नश्रथयति नमुंचति किंच श्रवस्ययानशिश्रथत् हवी- रूपान्नेच्छयैवन शिश्रथत् नविमुंचति अयमनुग्रहेणैवपालयते हविः स्वीकारस्तु व्यपदेशमात्रेणेति- भावः इदानीं प्रत्यक्षकृतः हेअग्नेदेवत्रा देवेषुमध्येअतिशयेनत्वं विश्वस्मै इत् सर्वस्मै एव इषुध्यते हविरात्मनइच्छते इन्द्रादये इषुध्यतिःकंड्वादिः हव्यं तत्तद्देवतामुद्दिश्यप्रत्तं पुरोडाशादिकं ओहिषे सर्वतोवहसि वहेर्लेटियजादित्वात्संप्रसारणम् किंचायमग्निर्विश्वस्मैसर्वस्मैसुकृते शोभनयज्ञकर्त्रे यज- मानायवारं सर्वैर्वरणीयं क्षुदादिनिवारकंवाअन्नादिकं ऋण्वति गच्छति करोतीत्यर्थः किंचायमग्निः द्वारास्व र्गाद्यभिमतद्वाराणिव्यृण्वति विवृणोति प्रतिबंधकपापापनयनद्वारा अभिमतानिसाधयती- त्यर्थः ऋण्वतिर्गतिकर्मा यद्वा रविर्गत्यर्थः इदित्त्वान्नुम् छान्दसंरेफस्यसंप्रसारणम् ॥ ६ ॥

1.128.7
स मानु᳚षे वृ॒जने॒ शंत᳚मो हि॒तो॒३॒᳚॑ग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पति᳚ः प्रि॒यो य॒ज्ञेषु᳚ वि॒श्पति᳚ः ।
स ह॒व्या मानु᳚षाणामि॒ळा कृ॒तानि᳚ पत्यते ।
स न᳚स्त्रासते॒ वरु᳚णस्य धू॒र्तेर्म॒हो दे॒वस्य᳚ धू॒र्तेः ॥
▶ पदपाठः (Word-by-word)
सः । मानु᳚षे । वृ॒जने᳚ । शम्॑त᳚मः । हि॒तः । अ॒ग्निः । य॒ज्ञेषु᳚ । जेन्यः᳚ । न । वि॒श्पतिः᳚ । प्रि॒यः । य॒ज्ञेषु᳚ । वि॒श्पतिः᳚ ।
सः । ह॒व्या । मानु᳚षाणाम् । इ॒ळा । कृ॒तानि᳚ । प॒त्य॒ते॒ ।
सः । नः॒ । त्रा॒स॒ते॒ । वरु᳚णस्य । धू॒र्तेः । म॒हः । दे॒वस्य᳚ । धू॒र्तेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निर्मानुषे मनुष्यस्ययजमानस्यसंबन्धिनि वृजने वर्जनीयेपापे निमित्तभूतेसति यज्ञेषु निमि- त्तेषु शंतमः अत्यन्तंसुखतमः अनिष्टस्यनिवारकत्वात् अतएवहितः स्वर्गाद्यभिमतसाधकत्वात् किं- चायं यज्ञेषु विश्पतिः ऋत्विग्रूपाणां प्रजानां अतिशयेनपालकः पत्यावैश्वर्ये इतिपूर्वपदप्रकृतिस्वरेप्रा- प्ते परादिश्छन्दसिबहुलमित्युत्तरपदाद्युदात्तत्वम् अतएवप्रियश्चभवति तत्र दृष्टान्तः-जेन्योन्विश्पतिः जयशीलोराजेव सयथा परसेनाद्युपद्रवपरिहारेणसम्यक् परिपालनेनच प्रजानांप्रियोभवति किंच सोयमग्निः मानुषाणांमनुष्याणां यजमानानां संबन्धीनि हव्याहवींषि इळाकृतानि इळायांवेद्यां कृ- तानि संपादितानिउद्दिश्य पत्यतेपतति आगच्छति किंच सोऽग्निर्नोऽस्मान्यजमानान्वरुणस्य वारक- स्य धूर्तेर्हिंसकस्य भयात् त्रासते त्रायते यद्वा धूर्तेरितिपञ्चमी वरूनस्यपापदेवस्यधूर्तेर्हिंसकात् किंच महोमहतोदेवस्यधूर्तोर्हिंसातः त्रासतेपालयते अयष्टारमग्निर्हिनस्तीतिप्रसिद्धं यद्वा एकमेववाक्यंधूर्ते- र्हिंसकस्य महोमहतोवरुणस्यदेवस्य वरुणाख्यायाः पापदेवतायाः धूर्तेर्हिंसातोनोऽस्मान्सोग्निस्त्रासते त्रायते ॥ ७ ॥

1.128.8
अ॒ग्निं होता᳚रमीळते॒ वसु᳚धितिं प्रि॒यं चेति᳚ष्ठमर॒तिं न्ये᳚रिरे हव्य॒वाहं॒ न्ये᳚रिरे ।
वि॒श्वायुं᳚ वि॒श्ववे᳚दसं॒ होता᳚रं यज॒तं क॒विम् ।
दे॒वासो᳚ र॒ण्वमव᳚से वसू॒यवो᳚ गी॒र्भी र॒ण्वं व᳚सू॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । होता᳚रम् । ई॒ळ॒ते॒ । वसु᳚॑धितिम् । प्रि॒यम् । चेति᳚ष्ठम् । अ॒र॒तिम् । नि । ए॒रि॒रे॒ । ह॒व्य॒॑वाह᳚म् । नि । ए॒रि॒रे॒ ।
वि॒श्व॑आ᳚युम् । वि॒श्व॑वे᳚दसम् । होता᳚रम् । य॒ज॒तम् । क॒विम् ।
दे॒वासः᳚ । र॒ण्वम् । अव᳚से । व॒सु॒॑यवः᳚ । गीः॒॑भिः । र॒ण्वम् । व॒सु॒॑यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमुमग्निं होतारं आह्वातारं होमनिष्पादकंवा ईळते ऋत्विजः स्तुवन्ति तथा वसुधितिं धनस्य- धारयितारंवा अतएवप्रियंसर्वेषां प्रियतमं चेतिष्ठं अतिशयेनयजमानानांचेतयितारं यद्वा प्रकृष्टचेतन- वन्तं चेतृशब्दात्तुश्छन्दसीतीष्ठन् तुरिष्ठेमेयःस्वितितृलोपःअरतिंईश्वरं तादृशंदेवं न्येरिरे नितरांप्राप्ताः प्राप्तिरेवविशॆष्यते हव्यवाहंन्येरिरे निःशेषेणप्राप्ताः इतरदेवेभ्योहव्यंवोढुंयथाप्रभवतितथानितरांप्रा- प्ताः पुनःकीदृशं विश्वायुं सर्वत्रप्राणिजीवनं विशवेदसंसर्वप्रज्ञं होतारंदेवानामाह्वातारं यजतं यजनी- यंकविंसर्वज्ञं इरप्रेरणे इरगतावित्यन्यतमस्यलिटिरूपं किंच देवासोदेवनशीलाः ऋत्विजः रण्वं अति- प्रध्वानंशब्दयन्तं अवसेस्यरक्षणाय वसूयवः वसुकामाःसन्तः पुनःकीदृशाः गीर्भिःस्तुतिभिः रण्वं रण- यन्तं रमणीयंवा वसूयवः वसुहवीरूपमन्नं अग्नयेप्रदातुमात्मनइच्छन्तः न्येरिरे प्रीतोयथाधनंप्रयच्छ- ति तथाहविरादिनाप्राप्ताइत्यर्थः ॥ ८ ॥

यंत्वंरथमित्येकादशर्चंतृतीयंसूक्तम् पारुच्छेपंसर्वमात्यष्टमित्युक्तत्वादत्यष्टीछन्दस्कं अनुक्तत्वादै- न्द्रं प्रप्रावोअस्मइत्यादिकेद्वे अतिशक्वर्यौ षष्ट्यक्षरोपेतत्वात् पाहिनइत्यन्त्याष्टिः चतुः षष्ट्यक्षरोपेत- त्वात् प्रतद्वोचेयमितिषष्ठीइन्दुदेवत्या तथानुक्रमणिका—यंत्वमेकादशषष्ठ्यैन्द्रवीप्रप्रावोतिशक्वर्याव- ष्टिरन्त्येति । दशरात्रस्यषष्ठेहनिमरुत्वतीयशस्त्रेएतत्सूक्तं षष्ठस्येतिख्ण्डेसूत्रितम्—यंत्वंरथमिन्द्रसयो- वृषेति ।