श्रवणम्

1.128.5
क्रत्वा॒ यद᳚स्य॒ तवि᳚षीषु पृ॒ञ्चते॒॑ग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ ।
स हि ष्मा॒ दान॒मिन्व᳚ति॒ वसू᳚नां च म॒ज्मना᳚ ।
स न᳚स्त्रासते दुरि॒ताद᳚भि॒ह्रुत॒ः शंसा᳚द॒घाद᳚भि॒ह्रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । यत् । अ॒स्य॒ । तवि᳚षीषु । पृ॒ञ्चते᳚ । अ॒ग्नेः । अवे᳚न । म॒रुता᳚म् । न । भो॒ज्या᳚ । इ॒षि॒राय᳚ । न । भो॒ज्या᳚ ।
सः । हि । स्म॒ । दान᳚म् । इन्व᳚ति । वसू᳚नाम् । च॒ । म॒ज्मना᳚ ।
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒॑इ॒तात् । अ॒भि॒॑ह्रुतः᳚ । शंसा᳚त् । अ॒घात् । अ॒भि॒॑ह्रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यस्मात्कारणात्सर्वेयजमानाः क्रत्वाप्रकृष्टेनकर्मणा हविःप्रदानादिरूपेण अस्याग्नेः तविषीषु प्रबलासु ज्वालासु अवेन तृप्तिनिमित्तेनभोज्या भक्ष्याणि पुरोडाशादीनि पृञ्चते मिश्रयन्ति तविषी- तिबलनाम तविषीशुष्ममिति तन्नामसुपाठात् तत्रदृष्टान्तः—मरुतांनभोज्वा वायूनांसंबन्धीनिव्री- ह्याद्यन्नानीव वायुषुमेघंनिर्भिद्यवृष्टिंजनयत्सुसत्सुसस्यादिद्वाराव्रीह्यादिभोज्यानियथापृंचतेतथेत्यर्थः दानेदृष्टान्तः—इषिरायनभोज्या एषणयुक्ताययाचमानायार्थिनेभोज्या भोग्यानिभक्ष्यादीनियथा- दीयन्ते तद्वत् इषिर् श्ब्दोयास्केनैवंनिरुक्तः—ईषणेनवैषणेनवार्षणेनवेति । अतःकारणात् सहिस्म सखलुयजमानः दानमिन्वति हविः प्रदानं तस्मैव्याप्नोति यद्वा स्वयमभिमतंदानमिन्वति इन्वतिर्व्या- प्तिकर्मा इन्वतिनक्षति इतितत्कर्मसुपाठात् केनसामर्थ्येनेति वसूनांचमज्मना निवासयाग्योनांधनानां अग्निनालब्धानां बलेनैव यद्वा सोऽग्निः वसूनां हविर्निवासोग्यानां ज्वालारूपाणां धनानां मज्मना- बलेन दानमिन्वतीतिशेषः किंच सोऽग्निः अभिह्रुतः आभिमुख्येनपापैः ह्रियमाणान् नोऽस्मान्दुरितात् पापात् त्रासते त्रायतेतथाशंसात् अतिप्रभूतत्वेनशंसनीयात् यद्वा हिंसकात् अभिह्रुतः अभितोह्रियमाणात् अघात् दुःखात् तत्कारणात् पापाद्वा त्रासते त्रायते ॥ ५ ॥