स सु॒क्रतु᳚ः पु॒रोहि᳚तो॒ दमे᳚दमे॒॑ग्निर्य॒ज्ञस्या᳚ध्व॒रस्य᳚ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य᳚ चेतति ।
क्रत्वा᳚ वे॒धा इ᳚षूय॒ते विश्वा᳚ जा॒तानि᳚ पस्पशे ।
यतो᳚ घृत॒श्रीरति᳚थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा अजा᳚यत ॥
क्रत्वा᳚ वे॒धा इ᳚षूय॒ते विश्वा᳚ जा॒तानि᳚ पस्पशे ।
यतो᳚ घृत॒श्रीरति᳚थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा अजा᳚यत ॥
पदपाठः (Word-by-word)
सः । सु॒॑क्रतुः᳚ । पु॒रः॑हि᳚तः । दमे᳚॑दमे । अ॒ग्निः । य॒ज्ञस्य᳚ । अ॒ध्व॒रस्य᳚ । चे॒त॒ति॒ । क्रत्वा᳚ । य॒ज्ञस्य᳚ । चे॒त॒ति॒ ।
क्रत्वा᳚ । वे॒धाः । इ॒षु॒॑य॒ते । विश्वा᳚ । जा॒तानि᳚ । प॒स्प॒शे॒ ।
यतः᳚ । घृ॒त॒॑श्रीः । अति᳚थिः । अजा᳚यत । वह्निः᳚ । वे॒धाः । अजा᳚यत ॥
क्रत्वा᳚ । वे॒धाः । इ॒षु॒॑य॒ते । विश्वा᳚ । जा॒तानि᳚ । प॒स्प॒शे॒ ।
यतः᳚ । घृ॒त॒॑श्रीः । अति᳚थिः । अजा᳚यत । वह्निः᳚ । वे॒धाः । अजा᳚यत ॥
सायणभाष्यम् (Sayana Commentary)
सोऽग्निः सुक्रतुः शोभनकर्मा पुरोहितः पुरोधार्यमाणः यद्वा पुरोहितवद्यागनिर्वहकः सन् दमेदमे तत्तद्यजमानगृहेसर्वेषुदेवयजनेषुवाअध्वरस्यनाशरहितस्यफलप्रदस्ययज्ञस्य तदर्थं चेततिजानाति- प्रबुध्यतइत्यर्थः किंचायंयजमानोऽपि क्रत्वाशोभनेनकर्मणा यज्ञस्यचेतति कर्तव्यतामेवजानाति किंचायमग्निरपि क्रत्वाप्रकृष्टेनकर्मणा वेधाः विविधानांफलानांकर्तासन् इषूयते इष्यतइतीषुरन्नमाग- मनंवा तदिच्छते यजमानायतदर्थं विश्वाजातानिसर्वाणि संपादितानिहविरादीनिपस्पशे अत्यर्थंस्पृ- शति स्वीकरोति यतोयं घृतश्रीः घृतंसेवमानः अतिथिः अतिथिवत्पूज्यश्च अजायत उत्पन्नः यतःका- रणाद्घृतमत्यर्थंसेवमानः प्रवृद्धोभवत् अतः स्पशइत्यर्थः एवमग्नौप्रवृद्धे यजमानोपि वह्निः हविषां- वोढा वेधाः विविधस्यफलस्यकर्ताउत्पादयिता अजायत समर्थोऽभवत् ॥ ४ ॥