प्रथमं मण्डलम् - सूक्तम् 18

9 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: ब्रह्मणस्पतिः छन्दः: गायत्री

सूक्तम् 1.18 - सम्पूर्णम्

1 / 9
ऋक्: 1.18.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.18.1
सो॒मानं॒ स्वर᳚णं कृणु॒हि ब्र᳚ह्मणस्पते ।
क॒क्षीव᳚न्तं॒ य औ᳚शि॒जः ॥
▶ पदपाठः (Word-by-word)
सो॒मान᳚म् । स्वर᳚णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ ।
क॒क्षीव᳚न्तम् । यः । औ॒शि॒जः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मणस्पते एतन्नामकदेव सोमानमभिषवस्य कर्तारं मामनुष्ठातारं स्वरणं देवेषु प्रकाशनवंतं कृणुहि । कुरु । अत्र दृष्टांतः । कक्षीवंतमेतन्नामकमृषिम् । इवशब्दोऽत्राध्याहर्तव्यः । कक्षीवान्यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । यः कक्षीवानृषिरौशिज उशिजः पुत्रः । तमिवेति पूर्वत्र योजना । कक्षीवतोऽनुष्ठातृषु मुनिषु प्रसिद्धस्तैत्तिरीयैराम्नायते । एवं वै पर आट् णारः कक्षीवा औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत । तै । सम् । ५-६-५-३ । इति ऋगंतरेऽप्यृषित्वकथनेनानुष्ठातृत्वप्रसिद्धिः सूच्यते । अहं कक्षीवा ऋषिरस्मि विप्रः । ऋग्वे । ४-२६-१ । इति । तस्मादस्यानुष्ठातारं प्रति दृष्टांतत्वं युक्तम् । सोऽयं मंत्रो यास्केनैवं व्याख्यातः । सोमानं सोतारं प्रकाशनवंतं कुरु ब्रह्मणस्पते कक्षीवंतमिव य औशिजः । कक्षीवान्कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कांतिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मा प्रकाशनवंतं कुरु ब्रह्मणस्पते (नि ६-१०) इति । अस्मिन्मंत्रे सोमावमिति पादेन कृणुहि ब्रह्मण इति पादेन सूचितं तात्पर्यं तैत्तरीया आमनंति । सोमानं स्वरणमित्याह सोमपीथमेवाव रुंद्धे । कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुंद्धे । तै सं १-५-८-४ । इति ॥ सोमानम् । सुनोतीति । षुञ् अभिषवे । अन्येभ्योऽपि दृश्यंत इति मनिन् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थ त्वान्नित्त्वेऽपि नाद्युदात्तत्वं किंतु प्रत्ययस्वर एव । उंभादिषु वा सोमञ् शब्दो द्रष्टव्यः (पा ६-१-१६०) बहुलग्रहणादौणादिको वा मनिर्द्रष्टव्यः । स्वरणम् । प्रख्यातम् । स्वृशब्दोपतापयोः । कृत्यल्युटो बहुलम् (पा ३-३-११३) इति कर्मणि ल्युट् । लतीत्यकार उदात्तः । कृणुहि । कृवि हिंसाकरणयोश्च । इदितो नुम् धातोरिति नुम् । लोटः सिपो हिः । शपि प्राप्ते धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोपः इति लोपः । तस्य स्थानिवद्भावान्न पूर्वस्य लघूपधगुणः । हेर्ङित्त्वादुकारस्य न गुणः । उत्तश्च प्रत्ययाच्छंदोवावचनम् । पा ६-४-१०६-१ । इति हेर्लुग्न । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनाद्धेरेव प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वान्न निघातः । ब्रह्मणः षष्ठ्याः पतिपुत्रेत्यादिना (पा ८-३-५३) संहितायां विसर्जनीयस्य सकारः । सुबामंत्रितपरांगवद्भावात्पदद्वयस्यामंत्रितनिघातः । कक्षीवंतम् । कक्षे भवा कक्ष्याश्चोदरसंबंधिनी रज्जुः । भवे छंदसि (पा ४-४-११०) इति यत्प्रत्ययः । सास्यास्तीत्यर्थ आसंदीवदष्ठीवच्चक्रीवत्कक्षीवत् (पा ८-२-१२) इत्यृषिविशेषनाम कक्षीवच्छब्दो निपातितः । छंदसीर इति वत्वम् । यप्रत्ययस्वरेण तदादेशो निपातित ईकार उदात्तः । मतुप्सुपौ पित्त्वादनुदात्तौ । औशिजः । वश कांतौ । इजीत्यनुवृत्तौ वशेः किच्च (उ २-७१) इतीजिप्रत्ययः । तस्य कित्त्वाद्ग्रहिज्येत्यादिना संप्रसारणं परपूर्वत्वे गुणाभावः स तस्यापत्यम् (पा ४-१-९२) इति प्राग्दीव्यतोऽण् (पा ४-१-८३) आदिवृद्धिः । प्रत्ययस्वरेणांतोदात्तत्वं ॥ १ ॥

1.18.2
यो रे॒वान्यो अ᳚मीव॒हा व᳚सु॒वित्पु᳚ष्टि॒वर्ध᳚नः ।
स नः᳚ सिषक्तु॒ यस्तु॒रः ॥
▶ पदपाठः (Word-by-word)
यः । रे॒वान् । यः । अ॒मी॒व॒॑हा । व॒सु॒॑वित् । पु॒ष्टि॒॑वर्ध᳚नः ।
सः । नः॒ । सि॒स॒क्तु॒ । यः । तु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो ब्रह्मणस्पती रेवान्दनवान्यश्चामीवहा रोगाणां हंता वसुविद्धनलब्धा पुष्टिवर्धनः पुष्टेर्वर्धयिता यश्च तुरस्त्वरोपेतः शीघ्रफलदः स ब्रह्मणस्पतिर्नोऽस्मान् सिषक्तु । सेवताम् । परिगृह्यानुगृह्णात्वित्यर्थः । अत्र सिषक्तुशब्दस्य सेवार्थत्वं यास्क आह । सिषक्तु सचत इति सेवमानस्य (नि ३-२१) इति प्रत्यायकौ शब्दाविति शेषः ॥ रेवान् । रयिरस्यास्तीति मतुप् । रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति यकारस्य संप्रसारणं परपूर्वत्वम् । छंदसीर इति वत्वम् । आद्गुणः । ननु वत्वस्यासिद्धत्वाद्बहिरंगत्वाच्च प्रागेव गुणे कृत इवर्णाभावान्न वत्वम् । न चांतादिवच्च (पा ६-१-८५) इत्यादिवद्भावेनेवर्णसंपादनं वर्णाश्रयविधौ तत्प्रतिषेधात् । अन्यथा खट्वाभिरत्यत्र सवर्णदीर्घस्यांतवद्भावेन अकारत्वादतो भिस ऐस् (पा ७-१-९) इत्यैसादेशः स्यात् । न च निरवकाशत्वेन वत्वस्यानवकाशत्वम् । अग्निवान्वैदर्भस्तंबः । उप ब्रह्माणि हरिवः । ऋग्वे १०-१०४-६ । इत्यादाववकाशलाभात् सत्यम् । अत्र गुणप्रवृत्तेः प्रागिकारात्परो मतुप् । कदाचिदिवर्णात्परस्य मतुपः पश्चादेकारादेशेनेवर्णाभावेऽपि भवति वत्वमिति छंदसीर इति सूत्रकृता विवक्षितम् । अमुनैवाभिप्रायेण हरिव इत्यादिकमुदाहृत्याप्यंते वृत्तिकृता आरेवानित्यप्युदाहृतम् । का ८-२-१५ । ह्रस्वनुड्भ्यामित्यत्रारेशब्दान्मतुप इत्युदात्तत्वं वक्तव्यम् । पा ६-१-१७६-१ । इत्यात्रारेशब्दो रेशब्दस्याप्युपलक्षणम् । अत एव हि रेवा इंद्रेत्यादौ मतुप उदात्तत्वं दृष्वम् । अथवा ह्रस्वनुड्भ्यामित्यत्रापि कदाचिद्ध्रस्वात्परस्य मतुप उदात्तत्वमित्येव व्याख्येयम् । एवं च संप्रसारणपरपूर्वत्वयोः कृतयोर्गुणात्प्राघ्घ्रस्वात्परो मतुबिति रेवानारेवानित्यादौ सर्वत्रोदात्तत्वं सिद्ध्यति । अयमेव सूत्रकृतोऽभिप्राये वार्तिककृता व्याख्यात इति । अमीवहा । अम रोग इत्येतस्माद्वन्प्रत्ययेनामीवशब्दो निपातितः । तं हंतीति बहलं छंदसीति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वसुवित् । वसु विंदतीति वसुवित् । क्विप्चेति क्विप् । उत्तरपद प्रकृतिस्वरत्वम् । पुष्टिवर्धनः । वर्धयतेर्नंद्यादित्वाल्ल्युः (पा ३-१-१३४) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पुष्वेर्वर्धन इति कर्मणि षष्ठ्या समासः । कृदुत्तरपदप्रकृसत्विरत्वम् । सिषक्तु । षच समवाये । लोट बहुलं छंदसीति शपः श्लुः । श्लाविति द्वित्वे हलादिशेषे बहुलं छंदसीत्यभ्यासस्याकारस्येकारः (पा ७-४-७८) तुरः । तुर त्वरणे । इगुपधज्ञाप्रीकिरः । कः प्रत्ययस्वरः ॥ २ ॥

1.18.3
मा न॒ः शंसो॒ अर᳚रुषो धू॒र्तिः प्रण॒ङ्मर्त्य᳚स्य ।
रक्षा᳚ णो ब्रह्मणस्पते ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । शंसः᳚ । अर᳚रुषः । धू॒र्तिः । प्रण᳚क् । मर्त्य᳚स्य ।
रक्ष᳚ । नः॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अररुषो मर्त्यस्योपद्रवं कर्तुमस्मत्समीपं प्राप्तस्य शत्रुरूपस्य मनुष्यस्य धूर्तिर्हिंसकः शंसः शंसनम् । अधिक्षेप इत्यर्थः । कादृशो वाग्विशेषो नोऽस्मान्माप्रणक् । मा संपृणक्तु । शत्रुणा प्रयुक्तोऽधिक्षेपः कदाचिदस्मान्मा प्राप्नोत्वित्यर्थः । तदर्थं हे ब्रह्मणस्पते नोऽस्मान्रक्ष । पालय ॥ मा । निपातः । शंसनम् । शंसः । भावे घञ् । ञॆत्त्वादाद्युदात्तः । अररुषः । अर्तेररुः (उ ४-७९) इत्यंतर्भावितण्यर्थादृ गतावित्यस्मादरुस् । गुणो रपरत्वम् । प्रत्ययस्वरे प्राप्ते वृषादित्वादाद्युदात्तः । धूर्तिः । धुर्वी हिंसार्थः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रतथसिसुसरकसेषु चेतीट् प्रतिषेधः । उपधायाश्च (पा ७-१-१०१) इत्युपधादीर्घत्वम् । वलि लोपं बाधित्वोठि प्राप्ते (पा ६-४-१९) राल्लोपः (पा ६-४-२१) इति वकारलोपः । प्रणक् । पृची संपर्के । लङस्तिप् । इतश्चेतीकारलोपः । हल्ङ्यादिलोपः । कुत्वम् । रुधादिभ्यः श्नम् । तस्य व्यत्ययो बहुलम् (पा ३-१-८५) इत्यडागमः । यणादेशः । अकारस्यागमानुदात्तत्वं बाधित्वा व्यत्ययेनोदात्तत्वम् । चादिलोपे विभाषेति निघाताभावः । मर्त्यस्य । मृङ् प्राणत्यागे असिहसिमृइत्यादिना (उ ३-८६) औणादिकस्तन्प्रत्ययः । मर्तेषु भव इत्यर्थे भव छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । रक्ष । रक्ष पालने । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । पादादित्वान्न निघातः । रक्षा णः । द्यृचोऽतस्तिङ इति दीर्घः । उपसर्गाद्बहुलम् (पा ८-४-२८) इति बहुलग्रहणादनुपसर्गादपि नसो णत्वम् । ब्मह्मणस्पते । षष्ठ्याः पतिपुत्रेति संहितायां विसर्गस्य सकारः । सुबामंत्रिते परांगवद्भावात्पदद्वयस्यामंत्रितनिघातः ॥ ३ ॥

1.18.4
स घा᳚ वी॒रो न रि᳚ष्यति॒ यमिन्द्रो॒ ब्रह्म᳚ण॒स्पति᳚ः ।
सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । वी॒रः । न । रि॒ष्य॒ति॒ । यम् । इन्द्रः᳚ । ब्रह्म᳚णः । पतिः᳚ ।
सोमः᳚ । हि॒नोति᳚ । मर्त्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रो देवो यं मर्त्यं यक्ष्यमाणं हिनोति प्राप्नोति वर्धयति वा । तथा ब्रह्मणस्पतिर्देवो हिनोति । तथा सोमो हिनोति । स घ स एव यजमानो वीरो वीर्ययुक्तः सन्न रिष्यति । न विनश्यति ॥ घ । चादिरनुदात्तः । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । ब्रह्मणस्पतिः । उक्तम् । हिनोति । हि गतौ वृद्धौ च । स्वादिभ्यः श्नुः । तिपः पित्त्वात् श्नुप्रत्ययस्वर एव शिष्यते ॥ ४ ॥

1.18.5
त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र᳚श्च॒ मर्त्य᳚म् ।
दक्षि᳚णा पा॒त्वंह᳚सः ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सोमः᳚ । इन्द्रः᳚ । च॒ । मर्त्य᳚म् ।
दक्षि᳚णा । पा॒तु॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मणस्पते त्वं तं मर्त्यमनुष्ठातारं मनुष्यमंहसः पापात्पाहीति शेषः । तथा सोमः पात्विंद्रश्च पातु दक्षिणाख्या देवता च पातु ॥ दक्षिणा । दक्ष वृद्धौ । द्रुदक्षिभ्यामनिन् ॥ उ २-५० । नित्त्वादाद्युदात्तः । अंहसः नब्वियस्येत्यादिनाद्युदात्तः ॥ ३४ ॥ ५ ॥

1.18.6
सद᳚स॒स्पति॒मद्भु᳚तं प्रि॒यमिन्द्र᳚स्य॒ काम्य᳚म् ।
स॒निं मे॒धाम᳚यासिषम् ॥
▶ पदपाठः (Word-by-word)
सद᳚सः । पति᳚म् । अद्भु᳚तम् । प्रि॒यम् । इन्द्र᳚स्य । काम्य᳚म् ।
स॒निम् । मे॒धाम् । अ॒या॒सि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनुप्रवचनीयचरोर्होमे सदसस्पतिमित्येषा विनियुक्ता । तथा च गृह्ये मेखलामाबद्येति खंडे पठ्यते । आचार्यः समन्वारब्धे जुहुयात्सदसस्पतिमद्भुतम् । आ गृ १-२२-११ । इति ॥

मेधां लब्धुं सदसस्पतिमेतन्नामकं देवमयासिषम् । प्राप्तवानस्मि । कीदृशम् । अद्भुतमाश्चर्यकरम् । इंद्रस्य प्रियं सोमपाने सहचारित्वात् काम्यं कमनीयं सनिं धनस्य दातारं ॥ सदसः । षद्लृ विशरणादौ । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तः । पतिम् । पातेर्डतिः (उ ४-५७) टलोपः । प्रत्ययस्वरः । प्रियम् । इगुपधज्ञाप्रीतिकरः कः । इयङादेशः । प्रत्ययस्वरः । काम्यं कामयतेरचो यत् । णेरनिटीति णिलोपः । यतोऽनाव इत्याद्युदात्तत्वम् । सनिम् । षणु दाने । धात्वादेः षः सः । अच इरित्यनुवृत्तौ खनिकष्यंज्यसिवसिसनिध्वनिग्रंथिचरिभ्यश्च (उ ४-१३९) इति इप्रत्ययः । प्रत्ययस्वरः । आयासिषम् । या प्रापणे । लुङ् । मिपोऽमादेशः । यमरमनमातां सक् च (पा ७-२-७३) इति सिच इडागमः । धातोः सगागमः निघातः ॥ ६ ॥

1.18.7
यस्मा᳚दृ॒ते न सिध्य᳚ति य॒ज्ञो वि᳚प॒श्चित᳚श्च॒न ।
स धी॒नां योग᳚मिन्वति ॥
▶ पदपाठः (Word-by-word)
यस्मा᳚त् । ऋ॒ते । न । सिध्य᳚ति । य॒ज्ञः । वि॒पः॒॑चितः᳚ । च॒न ।
सः । धी॒नाम् । योग᳚म् । इ॒न्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञोऽयमनुष्ठातव्यो विपश्चितश्चन विदुषोऽपि यजमानस्य यस्मात्सदसस्पतिदेवादृते न सिद्ध्यति सोऽयं सदसस्पतिर्देवो धीनां मनोऽनुष्ठानविषयाणामस्मद्बुद्धीनामनुष्ठेयकर्मणां वा योगं संबंधमिन्वति । व्याप्नोति । यजमानमनुगृह्य तदीयं यज्ञं निष्पादयतीत्यर्थः ॥ यस्मात् । अन्यारादित्यादिना (पा २-३-२९) ऋतेयोगात्पंचमी । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेति प्रतिषेधः । सिद्ध्यति । षिधु संराद्धौ । श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । धीनाम् । सावेकाच इति विभक्तेरुदात्तत्वम् । योगम् । युजिर् योगे । घञो ञित्त्वादाद्युदात्तत्वम् । इन्वति । इवि व्याप्तौ । शप् । इदितो नुम् धातोरिति नुम् । निघातः ॥ ७ ॥

1.18.8
आदृ᳚ध्नोति ह॒विष्कृ᳚तिं॒ प्राञ्चं᳚ कृणोत्यध्व॒रम् ।
होत्रा᳚ दे॒वेषु᳚ गच्छति ॥
▶ पदपाठः (Word-by-word)
आत् । ऋ॒ध्नो॒ति॒ । ह॒विः॑कृ᳚तिम् । प्राञ्च᳚म् । कृ॒णो॒ति॒ । अ॒ध्व॒रम् ।
होत्रा᳚ । दे॒वेषु᳚ । ग॒च्छ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदनंतरमेव हविष्कृतिं हविःसंपादनयुक्तं यजमानमृध्नोति । सदसस्पतिर्देवो वर्धयति । हविर्दानानंतरमेव फलं प्रयच्छतीत्यर्थः । तथाविधफलसिद्धयेऽध्वरं यजमानेनानुष्ठीयमानं यज्ञं प्रांचं प्रकर्षेण गच्छंतमविघ्नेन परिसमाप्तियुक्तं कृणोति । करोति । होत्रा हूयमाना देवता तुष्टा सती यजमानं प्रख्यापयितं देवेषु गच्छति । यद्वा । होत्रास्मदीयस्तुतिरूपा वाक् देवान्परितोषयितुं देवेषु गच्छति । श्लोको धारेत्यादिषु सप्तपंचाशत्सु वाङ्नामसु होत्रा गीरिति पठितं ॥ हविष्कृतिम् । हविषः कृतिः संपादनं यस्य यजमानस्य सोऽयं हविष्कृतिः । बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् । प्रांचम् । अनिगंतोंऽचतौ वप्रत्यये (पा ६-२-५२) इति गतेः प्रकृतिस्वरत्वम् । पश्चादेकादेशस्वरः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । हूयतेऽस्यामिति होत्रा देवता । हुयामाश्रुभसिभ्यस्त्रन् (उ ४-१६७) इति त्रन् । नित्त्वादाद्युदात्तः ॥ ८ ॥

1.18.9
नरा॒शंसं᳚ सु॒धृष्ट᳚म॒मप᳚श्यं स॒प्रथ᳚स्तमम् ।
दि॒वो न सद्म᳚मखसम् ॥
▶ पदपाठः (Word-by-word)
नरा॒शंस᳚म् । सु॒धृष्ट᳚मम् । अप᳚श्यम् । स॒प्रथः᳚॑तमम् ।
दि॒वः । न । सद्म᳚॑मखसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नराशंसमेतन्नामकं देवविशेषम् । यद्वा । अवयवार्थव्युत्पत्या सदसस्पतिदेवतापरोऽयं शब्दः । व्युत्पत्तिं च यास्को दर्शयति । नराशंसो यज्ञ इति कात्थक्यो नरा अस्मिन्नासीनाः शंसंत्यग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति (नि ८-६) इति । अत्राग्निवत्सदसस्पतेरपि नरैः शस्यमानत्वान्नराशंसत्वम् । एवमेवाभिप्रायं हृदिनिधाय ब्राह्मणमेवमाम्नयते । प्रजा वै नरो वाक् शंसः । ऐ ब्रा ६-२७ । इति । अतो मनुष्यैः शस्यमानो यः सदसस्पतिर्यो वा नराशंसनामको देवस्तमपश्यम् । शास्त्रदृष्ट्या दृष्टवानस्मि । कीदृशम् । सुधृष्टममत्याधिक्येन धार्ष्ट्ययुक्तं सप्रथस्तममतिशयेन प्रख्यातं सद्ममखसं प्राप्ततेजस्कम् । तत्र दृष्टांतः । दिवो न द्युलोकानिव । आदित्यचंद्रादिभिरधिष्ठिता द्युलोकविशेषा यथा तेजस्विस्तद्वदयं नराशंसस्तेजस्वीत्यर्थः ॥ सुधृष्टमम् । शोभनम् । धृष्णोतीति सुधृक् । क्विप्चेति क्विप् । आतिशायनिकस्तमप् । षकारस्य जश्त्वाभावश्छांदसः । कृदुत्तरपदप्रकृतिस्वरत्वेन ऋकार उदात्तः । अपश्यम् । पाघ्राध्मेत्यादिना पश्या देशः । लुङ् लङ् लृंक्ष्वडुदात्तः (पा ६-४-७१) इत्यट उदात्तत्वम् । पादादित्वान्न निघातः । सप्रथस्तमम् । प्रथ प्रख्याने । प्रथनं प्रथः । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तत्वम् । सह प्रथसा वर्तत इति तेन सहेति तुल्ययोगे (पा २-२-२८) इति बहुव्रीहिसमासः । वोपसर्जनस्य (पा ६-३-८२) इति सादेशः । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । दिवः । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । सद्ममखसम् । सीदतीति सद्म । षद्लृ विशरणादौ । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तः । सद्म महो यस्येति बहुव्रीहौ हकारस्य व्यत्ययेन खकारः ॥ ३५ ॥ ९ ॥