श्रवणम्

1.18.8
आदृ᳚ध्नोति ह॒विष्कृ᳚तिं॒ प्राञ्चं᳚ कृणोत्यध्व॒रम् ।
होत्रा᳚ दे॒वेषु᳚ गच्छति ॥
▶ पदपाठः (Word-by-word)
आत् । ऋ॒ध्नो॒ति॒ । ह॒विः॑कृ᳚तिम् । प्राञ्च᳚म् । कृ॒णो॒ति॒ । अ॒ध्व॒रम् ।
होत्रा᳚ । दे॒वेषु᳚ । ग॒च्छ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदनंतरमेव हविष्कृतिं हविःसंपादनयुक्तं यजमानमृध्नोति । सदसस्पतिर्देवो वर्धयति । हविर्दानानंतरमेव फलं प्रयच्छतीत्यर्थः । तथाविधफलसिद्धयेऽध्वरं यजमानेनानुष्ठीयमानं यज्ञं प्रांचं प्रकर्षेण गच्छंतमविघ्नेन परिसमाप्तियुक्तं कृणोति । करोति । होत्रा हूयमाना देवता तुष्टा सती यजमानं प्रख्यापयितं देवेषु गच्छति । यद्वा । होत्रास्मदीयस्तुतिरूपा वाक् देवान्परितोषयितुं देवेषु गच्छति । श्लोको धारेत्यादिषु सप्तपंचाशत्सु वाङ्नामसु होत्रा गीरिति पठितं ॥ हविष्कृतिम् । हविषः कृतिः संपादनं यस्य यजमानस्य सोऽयं हविष्कृतिः । बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् । प्रांचम् । अनिगंतोंऽचतौ वप्रत्यये (पा ६-२-५२) इति गतेः प्रकृतिस्वरत्वम् । पश्चादेकादेशस्वरः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । हूयतेऽस्यामिति होत्रा देवता । हुयामाश्रुभसिभ्यस्त्रन् (उ ४-१६७) इति त्रन् । नित्त्वादाद्युदात्तः ॥ ८ ॥