श्रवणम्

1.18.4
स घा᳚ वी॒रो न रि᳚ष्यति॒ यमिन्द्रो॒ ब्रह्म᳚ण॒स्पति᳚ः ।
सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । वी॒रः । न । रि॒ष्य॒ति॒ । यम् । इन्द्रः᳚ । ब्रह्म᳚णः । पतिः᳚ ।
सोमः᳚ । हि॒नोति᳚ । मर्त्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रो देवो यं मर्त्यं यक्ष्यमाणं हिनोति प्राप्नोति वर्धयति वा । तथा ब्रह्मणस्पतिर्देवो हिनोति । तथा सोमो हिनोति । स घ स एव यजमानो वीरो वीर्ययुक्तः सन्न रिष्यति । न विनश्यति ॥ घ । चादिरनुदात्तः । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । ब्रह्मणस्पतिः । उक्तम् । हिनोति । हि गतौ वृद्धौ च । स्वादिभ्यः श्नुः । तिपः पित्त्वात् श्नुप्रत्ययस्वर एव शिष्यते ॥ ४ ॥