यस्मा᳚दृ॒ते न सिध्य᳚ति य॒ज्ञो वि᳚प॒श्चित᳚श्च॒न ।
स धी॒नां योग᳚मिन्वति ॥
स धी॒नां योग᳚मिन्वति ॥
पदपाठः (Word-by-word)
यस्मा᳚त् । ऋ॒ते । न । सिध्य᳚ति । य॒ज्ञः । वि॒पः॒॑चितः᳚ । च॒न ।
सः । धी॒नाम् । योग᳚म् । इ॒न्व॒ति॒ ॥
सः । धी॒नाम् । योग᳚म् । इ॒न्व॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
यज्ञोऽयमनुष्ठातव्यो विपश्चितश्चन विदुषोऽपि यजमानस्य यस्मात्सदसस्पतिदेवादृते न सिद्ध्यति सोऽयं सदसस्पतिर्देवो धीनां मनोऽनुष्ठानविषयाणामस्मद्बुद्धीनामनुष्ठेयकर्मणां वा योगं संबंधमिन्वति । व्याप्नोति । यजमानमनुगृह्य तदीयं यज्ञं निष्पादयतीत्यर्थः ॥ यस्मात् । अन्यारादित्यादिना (पा २-३-२९) ऋतेयोगात्पंचमी । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेति प्रतिषेधः । सिद्ध्यति । षिधु संराद्धौ । श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । धीनाम् । सावेकाच इति विभक्तेरुदात्तत्वम् । योगम् । युजिर् योगे । घञो ञित्त्वादाद्युदात्तत्वम् । इन्वति । इवि व्याप्तौ । शप् । इदितो नुम् धातोरिति नुम् । निघातः ॥ ७ ॥