प्रथमं मण्डलम् - सूक्तम् 22

21 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: अश्विनौ छन्दः: गायत्री

सूक्तम् 1.22 - सम्पूर्णम्

1 / 21
ऋक्: 1.22.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (21)
1.22.1
प्रा॒त॒र्युजा॒ वि बो᳚धया॒श्विना॒वेह ग᳚च्छताम् ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः॒॑युजा᳚ । वि । बो॒ध॒य॒ । अ॒श्विनौ᳚ । आ । इ॒ह । ग॒च्छ॒ता॒म् ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र होताध्वर्युमुद्दिश्य ब्रूते । हे अध्वर्यो प्रातर्युजा प्रातः सवनग्रहेण संयुक्तावश्विनौ देवौ वि बोधय । विशेषेण प्रबुद्धौ कुरु । अश्विनौ प्रबुद्धौ चाश्विनौ देवावस्याभिषवसंस्कारयुक्तस्य सोमस्य पीतये पानायेह कर्मण्या गच्छतां ॥ प्रातर्युंजाते गृह्यमाणेन ग्रहेण सहेति प्रातर्युजा । सत्सूद्विषेत्यादिना क्विप् । सुपां सुलुगित्याकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अस्य ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । पीतये । व्यत्ययेन क्तिन उदात्तत्वं ॥ १ ॥

1.22.2
या सु॒रथा᳚ र॒थीत᳚मो॒भा दे॒वा दि᳚वि॒स्पृशा᳚ ।
अ॒श्विना॒ ता ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
या । सु॒॑रथा᳚ । र॒थि॑त᳚मा । उ॒भा । दे॒वा । दि॒वि॒॑स्पृशा᳚ ।
अ॒श्विना᳚ । ता । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योभाश्विना देवा यावुभावश्विनौ देवौ सुरथा शोभनरथयुक्तौ रथीतमा रथिनां मध्येऽतिशयेन रथिनौ दिविस्पृशा द्युलोकनिवासिनौ ता हवामहे । तादृशावश्विनावाह्वयामहे ॥ येत्यादिष्वष्टसु पदेषु सुपां सुलुगिति द्विवचनस्याकारः । सुरथा । शोभनो रथो ययोस्तौ सुरथौ । समासांतोदात्तत्त्वापवादं बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बाधित्वा नञ् सुभ्यामित्यत्तरपदांतोदात्तत्वे पाप्त आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । रथीतमा । अन्येषामपि दृश्यत इति संहितायामिकारस्य दीर्घत्वम् । दिविस्पृशा । दिवि स्पृशत इति दिविस्पृशौ । क्विप्चेति क्विप् । तत्पुरुषे कृति बहुलमित्यलुक् । गतिकारकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरत्वं ॥ २ ॥

1.22.3
या वां॒ कशा॒ मधु᳚म॒त्यश्वि᳚ना सू॒नृता᳚वती ।
तया᳚ य॒ज्ञं मि᳚मिक्षतम् ॥
▶ पदपाठः (Word-by-word)
या । वा॒म् । कशा᳚ । मधु᳚॑मती । अश्वि᳚ना । सू॒नृता᳚॑वती ।
तया᳚ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विना हे अश्विनौ देवौ वां युवयोः संबंधिनी या कशाश्चताडिनी विद्यते तया सहागत्य यज्ञमस्मदीयं मिमिक्षतम् । सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान्दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । मधुमती । अर्णः क्षोद इत्यादिष्वेकशतसंख्याकेषूदकनामसु मधु पुरीषमिति पठितम् । तस्मादुदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत्स्वेदोदकं स्रवति तेनेयं कशाक्लिन्नेत्यर्थः । सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायामश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । श्लोको धारेत्यादिषु सप्तपंचाशद्वाङ्नामसु कशा धिषणेति पठितम् । अश्विनीर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता । फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञ मिमिक्षतमिति योजनीयं ॥ कशा । कश गतिशातनयोः । पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती । ऊन परिहाणे । सुष्ठूनयत्यप्रियमिति सून् । तथाविधमृतं सत्यं यस्यां वाचि सा सूनृता । नञ् सुभायमित्युत्तरपदांतोदात्तत्वं बाधित्वा परादिश्छंदसि बहुलमिति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवं नामा या कशेत्यर्थः । संज्ञायाम् (पा ८-२-११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहे सन् । हलंताच्च (पा १-२-१०) इति कित्त्वाद्गुणाभावः ॥ ढत्वकत्वषत्वानि ॥ ३ ॥

1.22.4
न॒हि वा॒मस्ति᳚ दूर॒के यत्रा॒ रथे᳚न॒ गच्छ᳚थः ।
अश्वि᳚ना सो॒मिनो᳚ गृ॒हम् ॥
▶ पदपाठः (Word-by-word)
न॒हि । वा॒म् । अस्ति᳚ । दू॒र॒के । यत्र᳚ । रथे᳚न । गच्छ᳚थः ।
अश्वि᳚ना । सो॒मिनः᳚ । गृ॒हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विना हे अश्विनौ देवौ युवां सोमिनः सोमवतो यजमानस्य गृहं प्रति रथेन गच्छथः । स मार्गो वां युवयोर्दूरके दूरदेशे नह्यस्ति । न वर्तते खलु । यद्वा । यत्र गृहे गच्छथस्तच्छ गृहं दूरे न भवति ॥ नहि । एवमादीनामंत इत्यंतोदात्तः । अस्ति । चादिलोपे । विभाषेति निघाताभावः । अत्र हि गृहं दूरे च नास्ति युवां च रथेन गच्छथ इति समुच्चयश्चार्थो गम्यते । चशब्दो न प्रयुज्यत इति च लोपे प्रथमा तिङ्वभक्तिरस्तीति । यत्र । निपातस्य चेति संहितायां दीर्घत्वम् । गच्छथः । इयं यद्यपि न प्रथमा तथापि यत्रेति यद्वृत्तयोगान्न निघातः ॥ ४ ॥

1.22.5
हिर᳚ण्यपाणिमू॒तये᳚ सवि॒तार॒मुप᳚ ह्वये ।
स चेत्ता᳚ दे॒वता᳚ प॒दम् ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑पाणिम् । ऊ॒तये᳚ । स॒वि॒तार᳚म् । उप᳚ । ह्व॒ये॒ ।
सः । चेत्ता᳚ । दे॒वता᳚ । प॒दम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्यूढस्य द्वितीये छंदोमे वैश्वदेवशस्त्रे हिरण्यपाणिमूतय इति सावित्र्यश्चतस्रः । द्वितीयस्येति खंडे सूत्रितम् । हिरण्यपाणिमूतय इति चतस्रो महिद्यौः पृथिवी च नः (आ ८-१०) इति ॥

ऊतयेऽस्मद्रक्षणार्थं सवितारं देवमुप ह्वये । आह्वयामि । स च सविता देव एतन्मंत्रप्रतिपाद्यदेवता भूत्वा पदं यजमानेन प्राप्यं स्थानं चेत्ता । ज्ञापयिता भवति । कीदृशं सवितारम् । हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्पयमृत्विग्भूत्वा ब्रह्मत्वेनावस्थितः । तदानीं कस्यांचिदिष्वावध्वर्यवस्तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवंतः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत्तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवंतः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः । सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुत इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति । हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हर्यतेर्वा स्यात्प्रेप्साकर्मणः (नि २-१०) इति । तथा पाणिः । पणायतेः पूजाकर्मणः (नि २-२६) इति ॥ हिरण्यशब्दो नब्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये उदात्त इत्यनुवृत्तावूतियूतिजूतिसातीत्यादिना क्तिनंतोंऽतोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादंतोदात्तत्वम् । चेत्ता । चिती संज्ञाने । अस्मादंतर्भावितण्यर्थात्ताच्छेल्ये तृन् । अनित्यमागमशासनमितीडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल् (पा ५-४-२७) इति स्वार्थे तल् । लितीति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजंतः । चित इत्यंतोदात्तः ॥ ४ ॥ ५ ॥

1.22.6
अ॒पां नपा᳚त॒मव᳚से सवि॒तार॒मुप᳚ स्तुहि ।
तस्य᳚ व्र॒तान्यु᳚श्मसि ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । नपा᳚तम् । अव᳚से । स॒वि॒तार᳚म् । उप᳚ । स्तु॒हि॒ ।
तस्य᳚ । व्र॒तानि᳚ । उ॒श्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र होता सामगमृत्विजमन्यं वा शस्त्रिणं ब्रूते । अवसेऽस्मान्रक्षितुं सवितारमुप स्तुहि । तस्य सवितुः संबंधीनि व्रतानि कर्माणि सोमयागादिरूपाण्युश्मसि । कामयामहे । कीदृशं सवितारम् । अपां नपातं जलस्य न पालकम् । संतापेन शोषक मित्यर्थः ॥ अपाम् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । नपातम् । पा रक्षणे । अस्य शत्रंतः पाच्छब्दः । तस्य नञा समासे नभ्राण्नपादित्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथमपामिति षष्ठी । न लोकाव्ययनिष्ठाखलर्थेति (पा २-३-६९) कर्मणि षष्ठ्याः प्रतिषेधादिति चेत् । तर्ह्येषा शेषलक्षणास्तु । अग्न्यादित्यावपां कारणतया संबंधिनावग्नेराप इति श्रुतेः । आदित्याच्जायते वृष्टिः । मनु ३-७६ । इति स्मृतेश्च । अस्मिन्पक्ष उगिदचामिति नुमभावोऽपि निपातनादेवेति मंतव्यम् । पातेः क्विबंतस्य तुग्वा निपातनाद्द्रष्टव्यः । अथवा न पातयतीति नपात् । पग्लृ गताविति धातोर्ण्यंतात्क्विप् । अग्न्यादित्यौह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । तुमर्थे सेसेनित्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि । वश कांतौ । अदिप्रभृतिभ्य इति शपो लुक् । इंदतो मसिरितीकारोपजनः ॥ ६ ॥

1.22.7
वि॒भ॒क्तारं᳚ हवामहे॒ वसो᳚श्चि॒त्रस्य॒ राध᳚सः ।
स॒वि॒तारं᳚ नृ॒चक्ष᳚सम् ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ॒क्तार᳚म् । ह॒वा॒म॒हे॒ । वसोः᳚ । चि॒त्रस्य᳚ । राध᳚सः ।
स॒वि॒तार᳚म् । नृ॒॑चक्ष᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसोर्निवासहेतोश्चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य राधसो धनस्य विभक्तारं अस्य यजमानस्यैतावद्धनदानमुचितमिति विभागकारिणं नृचक्षसं मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्रह्मणे सवितुर्विभागहेतुत्वमेव समामनंति । यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजतीति ॥ विभक्तारम् । तृचश्चित्त्वादंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । हूयतेर्बहुलं छंदसीति संप्रसारणम् । वसो । वस निवासे । शृस्वृस्निहीत्यादिना उः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । राधसः । असुनंतो नित्त्वादाद्युदात्तः । नृचक्षसम् । नृंश्चष्व इति नृचक्षाः । तं नृचक्षसम् । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन् । शित्त्वादनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.22.8
सखा᳚य॒ आ नि षी᳚दत सवि॒ता स्तोम्यो॒ नु नः᳚ ।
दाता॒ राधां᳚सि शुम्भति ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः᳚ । नु । नः॒ ।
दाता᳚ । राधां᳚सि । शु॒म्भ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखिभूता हे ऋत्विज आ नि षीदत । सर्वत्रोपविशत । नोऽस्माकमयं सविता नु क्षिप्रं स्तोम्यः स्तुतियोग्यो राधांसि धनानि दाता प्रदातुमुद्युक्तः । एष सविता शुंभति । शोभते ॥ समानाः संतः ख्यांति प्रकाशंत इति सखायः । ख्या प्रकथने । समाने ख्याश्चोदात्तः (उ ४-१३६) इतीण् प्रत्ययः । तत्सन्नियोगेन डित्वं यलोपश्च । डित्त्वादाकारलोपः । समानस्य छंदसीत्यादिना (पा ६-३-८४) समान शब्दस्य सादेशः । इण्संनियोगेनोदात्तत्वम् । जसि सख्युरसंबुद्धौ (पा ७-१-९२) इति णित्त्वाद्वृद्धिरायादेशश्च । नि षीदत । सदेरप्रतेः (पा ८-३-६६) इति षत्वम् । स्तोमेषु प्रतिपाद्यत्वेन भवः स्तोम्यः । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । दाता दानशीलः । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । राधांसि । गतम् । कर्तृकर्मणोः कृतीति प्राप्तायः षष्ठ्या न लोकाव्ययेति प्रतिषेधः ॥ ८ ॥

1.22.9
अग्ने॒ पत्नी᳚रि॒हा व᳚ह दे॒वाना᳚मुश॒तीरुप᳚ ।
त्वष्टा᳚रं॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । पत्नीः᳚ । इ॒ह । आ । व॒ह॒ । दे॒वाना᳚म् । उ॒श॒तीः । उप᳚ ।
त्वष्टा᳚रम् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्टोमे प्रातःसवनेऽग्ने पत्नीरिहा वहेति नेष्टुः प्रस्थितयाज्या । प्रशास्ता ब्राह्मणाच्छंसीति खंडे सूत्रितम् । अग्ने पत्नीरिहा वहोक्षान्नाय वशान्नाय । आ ५_५ । इति ॥

हे अग्नेः उशतीः कामयमाना देवानां पत्नीरिंद्राण्याद्या इह देवय जनदेश आ वह । तथा त्वष्टारं देवं सोमपीतये सोमपानार्थमुप समीप आ वह ॥ पत्नीः । डत्यंतः पतिशब्द आद्युदात्तः । पत्युर्नो यज्ञसंयोगे (पा ४-१-३३) इति ङीप् । तत्संनियोगेन नकारश्च ङीपः पित्त्वाड्डुतिस्वर एव । उशतीः । वश कांतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । शतुर्ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति ङीबुदात्तः ॥ ९ ॥

1.22.10
आ ग्ना अ᳚ग्न इ॒हाव᳚से॒ होत्रां᳚ यविष्ठ॒ भार᳚तीम् ।
वरू᳚त्रीं धि॒षणां᳚ वह ॥
▶ पदपाठः (Word-by-word)
आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव᳚से । होत्रा᳚म् । य॒वि॒ष्ठ॒ । भार᳚तीम् ।
वरू᳚त्रीम् । धि॒षणा᳚म् । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अवसेऽस्मानवितुं ग्ना देवपत्नीरिहा वह । तथा हे यविष्ठ युवतमाग्ने होत्रां होमनिष्पादकाग्निपत्नीं भारतीं भरतनामकस्यादित्यस्य पत्नीं वरूत्रीं वरणीयां धिषणां वाग्देवीं चा वह । वाग्वै धिषणेति वाजसनेयकम् । भरत आदित्यः (नि ८-१३) इति यास्केनोक्तत्वात्तस्य पत्नी भारतीत्युच्यते ॥ गम्यंत इति ग्नाः । गम्लृ सृप्लृ गतौ । औणादिको ड्नप्रत्ययः । डित्वाट्टलोपः । प्रत्ययस्वरः । होत्राम् । हुयामाश्रुभसिभ्यस्त्रन् (उ ४-१६७) इति त्रनंतो नित्त्वादाद्युदात्तः । अतिशयेन युवा यविष्ठः । अतिशायने तमबिष्ठनौ । स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादिपरस्य लोपः पूर्वस्य च गुणः । भारतीं शार्ङ्गरवादेरवृत्कृतत्वात् ङीनंतो नित्त्वादाद्युदात्तः । वरूत्रीम् । ग्रसितस्कभितेत्यादौ (पा ७-२-३४) यद्यपि वरूतृशब्दस्तृजंत इत्युक्तं तथाप्यंत इतिकरणस्य प्रदर्शनार्थत्वाद्वरूतृशब्दस्तृनंतोऽपि द्रष्टव्यः । तेन नित्त्वादाद्युदात्तत्वम् । शेषनिघातेन ऋकारस्यानुदात्तत्वादुदात्तयणो हल्पूर्वादित्यपि न ङीप उदात्तत्वम् । धिषणाम् । क्युप्रत्ययानुवृत्तौ धृषेर्धिष च संज्ञायाम् (उ २-८२) इति क्युः ॥ ५ ॥ १० ॥

1.22.11
अ॒भि नो᳚ दे॒वीरव᳚सा म॒हः शर्म᳚णा नृ॒पत्नी᳚ः ।
अच्छि᳚न्नपत्राः सचन्ताम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । नः॒ । दे॒वीः । अव᳚सा । म॒हः । शर्म᳚णा । नृ॒॑पत्नीः᳚ ।
अच्छि᳚न्न॑पत्राः । स॒च॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवीर्देव्यो देवपत्न्योऽवसा रक्षणेन महो महता शर्मणा च सुखेन च सह नोऽस्मानभि सचंताम् । आभिमुख्येन सेवंताम् । कीदृश्यो देव्यः । नृपत्नीर्मनुष्याणां पालयित्र्यः अच्छिन्नपत्रा अच्छिन्नपक्षाः । न हि पक्षिरूपाणां देवपत्नीनां पक्षाः केनचिच्छिद्यंते ॥ देवीः । पुंयोगादाख्यायाम् (पा ४-१-४८) इति ङीषंतः । प्रत्ययस्वरेणांतोदात्तः । दीर्घाज्जसि चेति प्रतिषेधस्य वा छंदसीति पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । अवसा । अव रक्षणे । असुन् । नित्त्वादाद्युदात्तः । महः । मह पूजायाम् । क्विप् । सुपां सुपो भवंति (म ७-१-३९) इति तृतीयैकवचनस्य ङसादेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । नृपत्नीः । समासांतोदात्तत्वे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । अच्छिन्नपत्राः । न च्छिन्नान्यच्छिन्नानि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अच्छिन्नानि पत्राणि यासां ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ११ ॥

1.22.12
इ॒हेन्द्रा॒णीमुप᳚ ह्वये वरुणा॒नीं स्व॒स्तये᳚ ।
अ॒ग्नायीं॒ सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
इ॒ह । इ॒न्द्रा॒णीम् । उप᳚ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये᳚ ।
अ॒ग्नायी᳚म् । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहास्मिन्कर्मणि स्वस्तयेऽस्माकमविनाशाय सोमपीतये सोमपानाय चेंद्रवरुणाग्नीनां पत्नीराह्वयामि ॥ इंद्राणीम् । वरुणानीम् । इंद्रवरुणेत्यादिना (पा ४-१-४९) पुंयोगे ङीष्प्रत्यय आनुगागमश्च । प्रत्ययस्वरः । अग्नायीम् । वृषाकप्यग्निकुसितकुसीदानामुदात्तः (पा ४-१-३७) इति ङीप् । तत्संनियोगेनेकारस्यैकार उदात्तः । सोमपीतये । असकृत्पूर्वोक्तं ॥ १२ ॥

1.22.13
म॒ही द्यौः पृ᳚थि॒वी च᳚ न इ॒मं य॒ज्ञं मि᳚मिक्षताम् ।
पि॒पृ॒तां नो॒ भरी᳚मभिः ॥
▶ पदपाठः (Word-by-word)
म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् ।
पि॒पृ॒ताम् । नः॒ । भरी᳚म॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितीये छंदोमे वैश्वदेवशस्त्रे मही द्यौः पृथवी च न इति द्यावापृथिव्यनिविद्भानीयस्तृचः । द्वितीयस्याग्निं व इति खंडे सूत्रितम् । मही द्यौः पृथिवी च नो युवाना पितरा पुनः (आ ८-१०) इति ॥ आग्रयणेष्टौ मही द्यौरित्येषा द्यावापृथिव्यैककपालस्यानुवाक्या । आग्रयणं व्रीहिश्यामाकेति खंडे सूत्रितम् । ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः (आ २-९) इति ॥ अग्निमंथनेऽप्येषा विनियुक्ता । प्रातर्वैश्वदेव्यामिति खंडे सूत्रितम् । अभि त्वादेवसवितर्मही द्यौः पृथिवी च नः (आ २-१६) इति ॥ विष्यंदमानं सांनाय्यमनयैवाहवनीयदेशे निनयेत् । विध्यपराध इति खंडे तथैव सूत्रितम् । विष्यंदमानं मही द्यौः पृथिवी च न इत्यंतःपरिधिदेशे निनयेयुः (आ ३-१०) इति ॥ आश्विनशस्त्रेऽप्येषा संस्थितेष्वाश्विनायेति खंडे सूत्रितम् । मही द्यौः पृथिवी च न स्ते हि द्यावापृथिवी विश्वशंभुवा (आ ६-५) इति ॥

मही महती द्यौर्दुलोकदेवता पृथिवी भूमिदेवता च नोऽस्मदीयमिनं यज्ञं मिमिक्षताम् । स्वकीयसारभूतेन रसेन मिमिक्षताम् । सेक्तुमिच्छताम् । तथा भरीमभिर्भरणैः पोषणैर्नोऽस्मान्पिपृताम् । उभे देव्यौ पूरयतां ॥ मही । महच्छब्दामगितश्चेति ङीप् । अच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति । ङीप उदात्तत्वम् । द्यौः । दिव्यब्दः प्रातिपदिकस्वरेणांतोदात्तः । गोतो णित् (पा ७-१-९०) इति ततः परस्य सोर्णिद्वद्भावाद्भवंती वृद्धिरपि स्थानिवद्भावेनोदात्ता । पृथिवी । प्रथ प्रख्याने । प्रथेः षिवन्संप्रसारणं च (उ १-१५०) इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च (पा ४-१-४१) इति ङीष् । प्रत्ययस्वरः । मिमिक्षताम् । मिह सेचने । सनि द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । पिपृताम् । पृ पालनपूरणयोः । ह्रस्व इत्येके । शपः श्लुः । अर्तिपिपर्त्योश्च (पा ७-४-७७) इत्यभ्यासस्याकारस्य इकारः । तिङः प्रत्ययस्वरः । भरीमभिः । डुभृञ् धारणपोषण योः हुस्तृभृधृस्वृसृभ्य ईमन्नितीमन् । नित्त्वादाद्युदात्तः ॥ १३ ॥

1.22.14
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा᳚ रिहन्ति धी॒तिभि᳚ः ।
ग॒न्ध॒र्वस्य᳚ ध्रु॒वे प॒दे ॥
▶ पदपाठः (Word-by-word)
तयोः᳚ । इत् । घृ॒त॑व᳚त् । पयः᳚ । विप्राः᳚ । रि॒ह॒न्ति॒ । धी॒ति॑भिः᳚ ।
ग॒न्ध॒र्वस्य᳚ । ध्रु॒वे । प॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

गंधर्वस्य ध्रुवं पदमंतरिक्षम् । तथा च तापनीयशाखायां समाम्नायते । यक्षगंधर्वाप्सरोगणसेवितमंतरिक्षम् । नृ ता १-२ । इति । तेनांतरिक्षेणोपलक्षित आकाशे वर्तमानयोस्तयोरिद्द्यावापृथिव्योरेव संबंधि पयो जलं घृतवद्धृतसदृशं विप्रा मेधाविनः प्राणिनो धीतिभिः कर्मभी रिहंति । लिहंति यद्वा । घृतवद्धृतं सारं तेनोपेतं रिहंति । लिहेर्व्यत्ययेन रेफः । गंधर्वस्य । धृञ् धारणे । गवि गन् धृञो व इति वप्रत्ययः । तत्संन्नियोगेन गोशब्दस्य च गन्नादेशः ॥ १४ ॥

1.22.15
स्यो॒ना पृ᳚थिवि भवानृक्ष॒रा नि॒वेश᳚नी ।
यच्छा᳚ न॒ः शर्म᳚ स॒प्रथः᳚ ॥
▶ पदपाठः (Word-by-word)
स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒॑वेश᳚नी ।
यच्छ᳚ । नः॒ । शर्म᳚ । स॒॑प्रथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्योना पृथिवीत्येषा महानाम्नीव्रते भूमिस्पर्शने विनियुक्ता । एतद्विदं ब्रह्मचारिणमिति खंडे सूत्रितम् । स्योना पृथिवि भवेति समाप्य । आ ८-१४ ॥ इति ॥ स्मार्ते हेमंतप्रत्यवरोहणेऽप्येषा जप्या । मार्गशीर्ष्यां प्रत्यवरोहणमिति खंडे सूत्रितम् । तस्मिन्नुपविश्य स्योना पृथिवि भवेति जपित्वा । आ- गृ । २-३-६ । इति ॥

हे पृथिवि स्योनत्वादिगुणयुक्ता भव । स्योनशब्दो विस्तीर्णवाची । तथा च वाजसनेयब्राह्मणे स्योनशब्दोपेतं कंचिन्मंत्रमुदाहृत्य व्याख्यातम् । इंद्रस्योरुमाविश स्योन स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाहेति । यद्वा । स्योनशब्दः सुखवाची । तथा च यास्कवाक्यमुदाहरिष्यते । अनृक्षरा कंटकरहिता निवेशनी निवासस्थानभूता सप्रथो विस्तारयुक्तं शर्म शरणं न्योऽस्मभ्यं यच्छ । हे पृथिवि देहि । तामेतामृचमुदाहृत्य यास्क एवं व्याचष्टे । सुखा नः पृथिवि भवानृक्षरा निवेशन्यृक्षरः कंटक ऋच्छतेः कंटकः कंतपो वा कृंततेर्वा कंटतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म शरणं सर्वतः पृथु (नि ९-३२) इति ॥ स्योना । षिवु तंतुसंताने । सिवेष्टेर्यो च उ । ३-९ । इति नप्रत्ययः । टेश्च यो इत्यादेशः । प्रत्ययस्वरः स्योना पृथिवीत्यनयोर्भवेत्याख्यातेनैवान्वयो न परस्वरम् । अतोऽसामर्थ्येनैव परांगवद्भावाभावादोकारस्य नामंत्रिताद्युदात्तत्वम् । अनृक्षरा । ऋषी गतौ । गच्छत्यंतरित्यृक्षरः कंटकः । तन्यृषिभ्यां क्सरन् (उ ३-७५) षढोः कः सीति कत्वम् । आदेशप्रत्यययोरिति षत्वम् । नञा बहुव्रीहिः । तस्मान्नुडचि (पा ६-३-७४) इति नुडागमः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । निविशंत्यस्यामिति निवेशनी । करणाधिकरणयोश्चेति ल्युट् । लतीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यच्छ । दाण् दाने । पाघ्रेत्यादिना यच्छादेशः । द्व्यचोऽतस्तिङ इति दीर्घः । सप्रथः । प्रथ प्रख्याने असुन् । प्रथसा सह वर्तत इति तेन सहेति तुल्ययोगे (पा २-२-२८) इति समासः । वोपसर्जनस्य (पा ६-३-८२) इति सभावः । कृत्स्वरः ॥ ६ ॥ १५ ॥

1.22.16
अतो᳚ दे॒वा अ᳚वन्तु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
अतः᳚ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः᳚ । विष्णुः᳚ । वि॒॑च॒क्र॒मे ।
पृ॒थि॒व्याः । स॒प्त । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातःसवने सोमातिरेक एकं शस्त्रं शंसनीयम् । अत्रातो देवा इत्याद्याः षडृचः । सोमातिरेक इति खंडे सूत्रितम् । महा इंद्रो य ओजसातो देवा अवंतु न इत्यैंद्रीभिर्वैष्णवीभिश्च (आ ६-७) इति ॥ आप्तोर्यामेऽच्छावाकातिरिक्तोक्थ्येऽप्येताः षडृचः स्तोत्रियानुरूपार्थाः । तथा च यस्य पशव इति खंडे सूत्रितम् । अतो देवा अवंतु न इति स्तोत्रियानूरूपौ (आ ९-११) इति ॥ दर्शपूर्णमासयोः प्रायश्चित्तहोमेऽप्याद्ये विनियुक्ते । तथैव वेदं पत्न्या इति खंडे सूत्रितम् । अतो देवा अवंतु न इति द्वाभ्यां व्याहृतिभिश्च (आ १-११) इति ॥ याज्यानुवाक्ययोर्मध्ये लौकिकभाषणेऽतो देवा इत्येषा जप्या । सूत्रितं हि । आपद्यतो देवा अवंतु न इति जपेत् (आ १-५) इति ॥

विष्णुः परमेश्वरः सप्तधामभिः सप्तभिर्गायत्र्यादिभिश्छंदोभिः साधनभूतैर्यतः पृथिव्या यस्माद्भूप्रदेशाद्विचक्रमे । विविधं पादक्रमणं कृतवान् अतोऽस्मात्पृथिवीप्रदेशान्नोऽस्मान्देवा अवंतु । विष्णोः पृथिव्यादिलोकेषु च्छंदोभिः साधनैर्जयं तैत्तरीया आमनंति । विष्णुमुखा वै देवाश्छंदोभिरमांल्लोकानपजय्यमभ्यजयन् । तै सं ५-२-१-१ । इति । विष्णोस्त्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यपादानम् । पृथिवीप्रदेशाद्रक्षणम् । नाम भूलोके वर्तमानानां पापनिवारणं ॥ अतः एतच्छब्दात्वंचम्यास्तसिल् (पा ५-३-७) इति तसिल् । एतदोऽश् (पा ५-३-५) इत्यशादेशः । लित्स्वरेणाकार उदात्तः । यतः । तसिलः प्राग्दिशो विभक्तिः (पा ५-३-१) इति विभक्तिसंज्ञायां त्यदाद्यत्वम् । लित्स्वरः । विष्णुःविषेः किच्च (उ ३-३९) इति नुप्रत्ययः । कित्त्वान्न गुणः । निदित्यनुवृत्तेराद्युदात्तत्वम् । विचक्रमे । सुबिति योगविभागाद्विशब्दस्य समासः । समासांतोदात्तत्वम् । यद्वृत्तयोगान्न निघातः । सप्त । सुषां सुलुगिति भिसो लुक् । धामभिः दधातेरातो मनन्निति मनिन् । नित्स्वरः ॥ १६ ॥

1.22.17
इ॒दं विष्णु॒र्वि च᳚क्रमे त्रे॒धा नि द᳚धे प॒दम् ।
समू᳚ळ्हमस्य पांसु॒रे ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । विष्णुः᳚ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्॑ऊ᳚ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैष्णवोपांशुयाजस्येदं विष्णुरित्येषानुवाक्या । उक्ता देवता इति खंडे सूत्रितम् । इदं विष्णुर्वि चक्रमे त्रिर्देवः पृथिवीमेष एताम् (आ १-६) इति ॥ गार्हपत्याहवनीययोर्मध्ये श्वातिक्रमणेऽनयैव श्वपदेषु भस्म प्रक्षिपेत् । विध्यपराध इति खंडे सूत्रितम् । भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्वि चक्रमे (आ ३-१०) इति ॥ आतिथ्यायां प्रधानस्य हविष एषैवानुवाक्या । अथातिथ्येळांतेति खंडे सूत्रितम् । इदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्याम् (आ ४-५) इति ॥ उपसत्सु वैष्णवस्यैषैवानुवाक्या । अथोपसदिति खंडे सूत्रितम् । गयस्फानो अमीवहेदं विष्णुर्वि चक्रमे । आ ४-८ ॥ इति ॥

विष्णुस्त्रिविक्रमावतारधारीदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे । विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे । स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हमिदं सर्वं जगत्सम्यगंतर्भूतम् । सेयमृग्यास्केनैवं व्याख्याता । विष्णुर्विशतेर्वा व्यश्नोतेर्वा । यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामंतरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरेऽप्यायनेंऽतरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर एव पदं न दृश्यत इति पांसवः पादैः सूयंत इति वा पन्नाः शेरत इति वा पंसनीया भवंतीति वा । नि १२-१९ । इति ॥ त्रेधा एधाच्च (पा ५-३-४६) इत्येधाच् प्रत्ययः । चितोंऽतोदात्तः ! समूळ्हम् । वह प्रापणे । निष्ठेति क्तः । वचिस्वपीत्यादिना (पा ६-१-१५) संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽशादेश इत्यशनुदात्तः । प्रत्ययश्च सुप्स्वरेण । पांसुरे । नगपांसुपांडुभ्यश्चेति वक्तव्यम् । का ५-२-१०७-२ । इति मत्वर्थीयो रः । प्रत्ययस्वरः ॥ १७ ॥

1.22.18
त्रीणि᳚ प॒दा वि च᳚क्रमे॒ विष्णु᳚र्गो॒पा अदा᳚भ्यः ।
अतो॒ धर्मा᳚णि धा॒रय᳚न् ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः᳚ । गो॒पाः । अदा᳚भ्यः ।
अतः᳚ । धर्मा᳚णि । धा॒रय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उपसदि वैष्णवयागस्य प्रातःकाले याज्या सायंकालेऽनुवाक्या त्रीणी पदेत्येषा । सूत्रितं च । त्रीणि पदा वि चक्रम इति स्विष्टकृदादि लुप्यते । आ ४-८ इति ॥

अदाभ्यः केनापि हिंसितुमशक्यो गोपाः सर्वस्य जगतो रक्षको विष्णुः पृथिव्यादिस्थानेष्वत एतेषु त्रीणि पदानि वि चक्रमे । किं कुर्वन् । धर्माण्यग्निहोत्रादीनि धारयन् । पोषयन् ॥ पदा । सुपां सुलुगित्यादिना विभक्तेर्डादेशः । तस्य स्थानिवद्भावेनानुदात्तत्वे प्राप्त उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य । ऋग्वे १-१-८ । इत्यत्रोक्तम् । अदाभ्यम् । दभेर्ऋहलोर्ण्यदितिण्यत् । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥ १८ ॥

1.22.19
विष्णो॒ः कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि᳚ पस्प॒शे ।
इन्द्र᳚स्य॒ युज्य॒ः सखा᳚ ॥
▶ पदपाठः (Word-by-word)
विष्णोः᳚ । कर्मा᳚णि । प॒श्य॒त॒ । यतः᳚ । व्र॒तानि᳚ । प॒स्प॒शे ।
इन्द्र᳚स्य । युज्यः᳚ । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विगादयो विष्णोः कर्माणि पालनादीनि पश्यत । यतो यैः कर्मभिर्व्रतान्यग्निहोत्रादीनि पस्पशे सर्वो यजमानः स्पृष्टवान् । विष्णोरनुग्रहादनुतिष्ठतीत्यर्थः । तादृशो विष्णुरिंद्रस्य युज्यो योज्योऽनुकूलः सखा भवति । विष्णोरिंद्रानुकूल्यं त्वष्टा हतपुत्र इत्यनुवाकेऽथ वै तर्हि विष्णुरित्यादिना । तै सं २-४-१२-२ । प्रपंचेन तैत्तिरीया आमनंति ॥ पस्पशे । स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे सर्पूर्वाः खयः (पा ७-४-६१) इति पकारः शिष्यते । सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेर्बाहुलकात्क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥ १९ ॥

1.22.20
तद्विष्णो᳚ः पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः᳚ ।
दि॒वी᳚व॒ चक्षु॒रात᳚तम् ॥
▶ पदपाठः (Word-by-word)
तत् । विष्णोः᳚ । प॒र॒मम् । प॒दम् । सदा᳚ । प॒श्य॒न्ति॒ । सू॒रयः᳚ ।
दि॒वि॑इ᳚व । चक्षुः᳚ । आ॑त᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरयो विद्वांस ऋत्विगादयो विष्णोः संबंधि परममुत्कृष्टं तच्छास्त्रप्रसिद्धम् । पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा पश्यंति । तत्र दृष्टांतः । दिवीव । अकाशे यथाततं सर्वतः प्रसृतं चक्षुर्नियोधाभावेन विशदं पश्यति । तद्वत् ॥ सदा । सर्वैकान्येति (पा ५-३-१५) दाप्रत्ययः । सर्वस्य सोऽनृतरस्यां दि (पा ५-३-६) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति तदेव शिष्यते । चक्षुः । नब्विषयस्येत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः । यस्य विभाषेतीट् प्रतिषेधः । अनुदात्तोपदेशेत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिरनंतर इति गतेरुदात्तत्वं ॥ २० ॥

1.22.21
तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांस॒ः समि᳚न्धते ।
विष्णो॒र्यत्प᳚र॒मं प॒दम् ॥
▶ पदपाठः (Word-by-word)
तत् । विप्रा᳚सः । वि॒प॒न्यवः᳚ । जा॒गृ॒॑वांसः᳚ । सम् । इ॒न्ध॒ते॒ ।
विष्णोः᳚ । यत् । प॒र॒मम् । प॒दम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्तं विष्णोर्यत्परमं पदमस्ति तत्पदं विप्रासो मेधाविनः समिंधते । सम्यक् दीपयंति । कीदृशाः । विपन्यवो विशेषेण स्तोतारो जागृवांसः शब्दार्थयोः प्रमादराहित्येन जागरूकाः ॥ विप्रासः । अज्जसेरसुक् । विपन्यवः स्तुत्यर्थस्यः पनेर्बाहुलक औणादिको युप्रत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये । लिटः क्वसुः । क्रादिनियमात्प्राप्तस्येटो वस्वेकाजाद्घसामिति नियमान्निवृत्तिः ॥ ७ ॥ २१ ॥