त्रीणि᳚ प॒दा वि च᳚क्रमे॒ विष्णु᳚र्गो॒पा अदा᳚भ्यः ।
अतो॒ धर्मा᳚णि धा॒रय᳚न् ॥
अतो॒ धर्मा᳚णि धा॒रय᳚न् ॥
पदपाठः (Word-by-word)
त्रीणि᳚ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः᳚ । गो॒पाः । अदा᳚भ्यः ।
अतः᳚ । धर्मा᳚णि । धा॒रय᳚न् ॥
अतः᳚ । धर्मा᳚णि । धा॒रय᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
उपसदि वैष्णवयागस्य प्रातःकाले याज्या सायंकालेऽनुवाक्या त्रीणी पदेत्येषा । सूत्रितं च । त्रीणि पदा वि चक्रम इति स्विष्टकृदादि लुप्यते । आ ४-८ इति ॥
अदाभ्यः केनापि हिंसितुमशक्यो गोपाः सर्वस्य जगतो रक्षको विष्णुः पृथिव्यादिस्थानेष्वत एतेषु त्रीणि पदानि वि चक्रमे । किं कुर्वन् । धर्माण्यग्निहोत्रादीनि धारयन् । पोषयन् ॥ पदा । सुपां सुलुगित्यादिना विभक्तेर्डादेशः । तस्य स्थानिवद्भावेनानुदात्तत्वे प्राप्त उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य । ऋग्वे १-१-८ । इत्यत्रोक्तम् । अदाभ्यम् । दभेर्ऋहलोर्ण्यदितिण्यत् । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥ १८ ॥