तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा᳚ रिहन्ति धी॒तिभि᳚ः ।
ग॒न्ध॒र्वस्य᳚ ध्रु॒वे प॒दे ॥
ग॒न्ध॒र्वस्य᳚ ध्रु॒वे प॒दे ॥
पदपाठः (Word-by-word)
तयोः᳚ । इत् । घृ॒त॑व᳚त् । पयः᳚ । विप्राः᳚ । रि॒ह॒न्ति॒ । धी॒ति॑भिः᳚ ।
ग॒न्ध॒र्वस्य᳚ । ध्रु॒वे । प॒दे ॥
ग॒न्ध॒र्वस्य᳚ । ध्रु॒वे । प॒दे ॥
सायणभाष्यम् (Sayana Commentary)
गंधर्वस्य ध्रुवं पदमंतरिक्षम् । तथा च तापनीयशाखायां समाम्नायते । यक्षगंधर्वाप्सरोगणसेवितमंतरिक्षम् । नृ ता १-२ । इति । तेनांतरिक्षेणोपलक्षित आकाशे वर्तमानयोस्तयोरिद्द्यावापृथिव्योरेव संबंधि पयो जलं घृतवद्धृतसदृशं विप्रा मेधाविनः प्राणिनो धीतिभिः कर्मभी रिहंति । लिहंति यद्वा । घृतवद्धृतं सारं तेनोपेतं रिहंति । लिहेर्व्यत्ययेन रेफः । गंधर्वस्य । धृञ् धारणे । गवि गन् धृञो व इति वप्रत्ययः । तत्संन्नियोगेन गोशब्दस्य च गन्नादेशः ॥ १४ ॥