प्रथमं मण्डलम् - सूक्तम् 86

10 ऋचः

ऋषिः: गोतमो राहूगणः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 1.86 - सम्पूर्णम्

1 / 10
ऋक्: 1.86.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.86.1
मरु᳚तो॒ यस्य॒ हि क्षये᳚ पा॒था दि॒वो वि᳚महसः ।
स सु᳚गो॒पात᳚मो॒ जनः᳚ ॥
▶ पदपाठः (Word-by-word)
मरु᳚तः । यस्य᳚ । हि । क्षये᳚ । पा॒थ । दि॒वः । वि॒॑म॒ह॒सः॒ ।
सः । सु॒॑गो॒पात᳚मः । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो यस्येति दशर्चं द्वितीयं सूक्तं गोतमस्यार्षं गायत्रं मरुद्देवताकम् । अनुक्रम्यते च । मरुतो दश गायत्रमिति ॥ व्यूळ्हे तृतीये छंदोम आग्निमारुते शस्त्र एतत्सूक्तम् । तृतीयस्यागन्म महेति खंडे सूत्रितम् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् (आ ८-११) इति ॥ ऐंद्रामारुत्यां प्रधानस्य हविषो मरुतो यस्येत्येषानुवाक्या । सूत्रितं च । ऐंद्रामारुतीं भेदकामा मरुतो यस्य हि क्षये (आ २-११) इति ॥ एषैव वरुणप्रघासेषु मारुता आमिक्षाया अनुवाक्या । सूत्रितं च । मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेव । आ । २-१७ । इति ॥ तथा प्रातःसवने पोतुरेषा प्रस्थितयाज्या । सूत्रितं च । मरुतो यस्यहि क्षयेऽग्ने पत्नीरिहा वह (आ ५-५) इति ॥

हे विमहसो विशिष्टप्रकाशा मरुतो दिवोऽंतरिक्षलोकादागत्य यस्य हि यस्य खलु यजमानस्य क्षये यज्ञ गृहे पाथ सोमं पिबथ स जनो जातो यजमानः सुगोपातमः शोभनैः पालकैरत्यंतं युक्तो भवति ॥ पाथ । पा पाने । लट बहुलं छंदसीति शपो लुक् । यद्वृत्तयोगादनिघातः । विमहसः । विशिष्टं महस्तेजो येषां ते तथोक्ताः । सुगोपातमः । शोभनो गोपा रक्षको यस्य स सुगोपाः सुगोपातमः । तमपः पित्वादनुदात्तत्वे सहि बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वमेव शिष्यते ॥ १ ॥

1.86.2
य॒ज्ञैर्वा᳚ यज्ञवाहसो॒ विप्र᳚स्य वा मती॒नाम् ।
मरु᳚तः शृणु॒ता हव᳚म् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञैः । वा॒ । य॒ज्ञ॒॑वा॒ह॒सः॒ । विप्र᳚स्य । वा॒ । म॒ती॒नाम् ।
मरु᳚तः । शृ॒णु॒त । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यज्ञवाहसो यज्ञस्य वोढारो मरुतो यूयं यज्ञैर्वा । वाशब्दः समुच्चये । यज्ञैश्च यजमानस्य मतीनां सुत्तीनां संबंधिनो विप्रस्य वा यजमानस्य मेधाविनश्च हवमाह्वानं शृणुत । यज्ञवतो यजमानस्य यागरहितस्य स्तोतुश्चाह्वानमवत्यं भवद्भिः श्रोतव्यं यतो भवंतो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति भावः ॥ यज्ञवाहसः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनाद्वहिहाधाञ्भ्य् श्चंदसीति कारकपूर्वाद्वहतेरसुन् । णिदित्यनुवृत्तेरुपधावृद्धिः । मतीनां मन ज्ञाने । अस्मात्करणे क्तिन् । नामन्यतरस्यामिति नाम उदात्तत्वम् । शृणुत । श्रुवः शृचेति श्नुः । सति शिष्वस्य स्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनात्तिङ एव स्वरः शिष्यते । मरुत इत्यस्यामंत्रितस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वेन पदादपरत्वान्निघाताभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् संप्रसारणं च ॥ २ ॥

1.86.3
उ॒त वा॒ यस्य᳚ वा॒जिनो॑नु॒ विप्र॒मत᳚क्षत ।
स गन्ता॒ गोम᳚ति व्र॒जे ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒ । यस्य᳚ । वा॒जिनः᳚ । अनु᳚ । विप्र᳚म् । अत᳚क्षत ।
सः । गन्ता᳚ । गो॑म᳚ति । व्र॒जे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत वापि च यस्य यजमानस्य वाजिनो हविर्लक्षणान्नोपेता ऋत्विजो विप्रं मेधाविनं मरुद्गणमन्वतक्षत हविष्प्रदानादिना तीक्ष्णीकुर्वंति स यजमानो गोमति बहुभिर्गोभिर्युक्ते व्रजे गोष्ठे गंता गमनशीलो भवति ॥ अतक्षत । तक्षूत्वक्षू तनूकरणे । छांदसो लङ् । व्यत्ययेन मध्यमः । गंता । गमेस्ताच्छीलिकस्तृन् ॥ ३ ॥

1.86.4
अ॒स्य वी॒रस्य᳚ ब॒र्हिषि᳚ सु॒तः सोमो॒ दिवि᳚ष्टिषु ।
उ॒क्थं मद᳚श्च शस्यते ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । वी॒रस्य᳚ । ब॒र्हिषि᳚ । सु॒तः । सोमः᳚ । दिवि᳚ष्टिषु ।
उ॒क्थम् । मदः᳚ । च॒ । श॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिविष्टिषु यजनीयदिवसेषु बर्हिषि यज्ञे वीरस्य शत्रुक्षेपणकुशलस्यास्य मरुद्गणस्य यागाय सोमः सुतः । ऋत्विग्भिरभिषुतो भवति । उक्थं मरुद्देवताकं शस्त्रं मदश्च मदिधातुना युक्ता मरुतो देवाः सोमस्य मत्सन्नित्यादिका मारुती निविच्चास्य मरुद्गणस्य हर्षाय शस्यते । होत्रा पठ्यते ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । दिविष्विषु । इष्टय एषणानि गमनानि । दिवो द्योतमानस्य सूर्यस्येष्टयो येषु दिवसेषु ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेनोत्वाभावः ॥ ४ ॥

1.86.5
अ॒स्य श्रो᳚ष॒न्त्वा भुवो॒ विश्वा॒ यश्च᳚र्ष॒णीर॒भि ।
सूरं᳚ चित्स॒स्रुषी॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः᳚ । विश्वाः᳚ । यः । च॒र्ष॒णीः । अ॒भि ।
सूर᳚म् । चि॒त् । स॒स्रुषीः᳚ । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यजमानस्य स्तुतिं मरुत आ आभिमुख्येन श्रोषंतु । शृण्वंतु । यो मरुद्गणो विश्वाश्चर्षणीः सर्वान् शत्रुभूतान्मनुष्यानभि भुवः अभिभवति । तादृग्गणाकारा मरुतः शृण्वंत्वित्यर्थः । सूरं चित् स्तुतेः प्रेरयितारं यजमानमपीषो मरुद्भिः प्रत्तान्यन्नानि सस्रुषीः प्राप्तानि भवंतु ॥ श्रोषंतु । श्रु श्रवणे । लोट सिब्बहुलं लेटेति बहुलवचनात्सिप् । भुवः । भवतेर्लेट तिपस्तिङां तिङो भवंतीति सिप् । लेटोऽडाटावित्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । सूरम् । षू प्रेरणे । सुसूधागृधिभ्यः क्रन्निति क्रन्प्रक्ययः । सुस्रुषीः । स्रु गतौ । अस्माल्लिटः क्वसुः । उगितश्चेति ङीप् । भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ ५ ॥

1.86.6
पू॒र्वीभि॒र्हि द᳚दाशि॒म श॒रद्भि᳚र्मरुतो व॒यम् ।
अवो᳚भिश्चर्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीभिः᳚ । हि । द॒दा॒शि॒म । श॒रत्॑भिः᳚ । म॒रु॒तः॒ । व॒यम् ।
अवः᳚॑भिः । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः पूर्वीभिर्बह्वीभिः शरद्भिः संवत्सरैश्चर्षणीनां सर्वस्य द्रष्टृणां सर्वज्ञानां भवतां संबंधिभिरवोभी रक्षणैर्युक्ताः संतो वयं ददाशिम । युष्मभ्यं हवींषि दत्तवंतः । हि यस्मादर्थे । यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छतेत्यर्थः ॥ पूर्वीभिः । पुरुशब्दाद्वोतो गुणवचनादिति ङीष् । यणादेशे हलि चेति दीर्घत्वम् । ददाशिम । दाशृ दाने । लिटीडागमः । हि चेति निघातप्रतिषेधः । चर्षणीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ६ ॥

1.86.7
सु॒भग॒ः स प्र᳚यज्यवो॒ मरु᳚तो अस्तु॒ मर्त्य᳚ः ।
यस्य॒ प्रयां᳚सि॒ पर्ष᳚थ ॥
▶ पदपाठः (Word-by-word)
सु॒॑भगः᳚ । सः । प्र॒॑य॒ज्य॒वः॒ । मरु᳚तः । अ॒स्तु॒ । मर्त्यः᳚ ।
यस्य᳚ । प्रयां᳚सि । पर्ष᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रयज्यवः प्रकर्षेण यष्टव्या मरुतः स मर्त्यो मनुष्यो यजमानः सुभगोऽस्तु । शोभनधनो भवतु । यस्य यजमानस्य प्रयांसि हविर्लक्षणान्यन्नानि पर्षथ आत्मनि सिंचथ । स्वीकुरुथेत्यर्थः ॥ सुभगः भग इति धननाम । शोभनो भगो यस्य । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । पर्षथ । पृषु वृषु मृषु सेचने । भौवादिकः । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः ॥ ७ ॥

1.86.8
श॒श॒मा॒नस्य᳚ वा नर॒ः स्वेद᳚स्य सत्यशवसः ।
वि॒दा काम᳚स्य॒ वेन᳚तः ॥
▶ पदपाठः (Word-by-word)
श॒श॒मा॒नस्य᳚ । वा॒ । न॒रः॒ । स्वेद᳚स्य । स॒त्य॒॑श॒व॒सः॒ ।
वि॒द । काम᳚स्य । वेन᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सत्यशवसोऽवितथबला नरो नेतारो मरुतः शशमानस्य युष्मान्स्तुतिभिः संभजमानस्य स्वेदस्य स्तावकमंत्रोच्चारणजनितेन श्रमेण स्विद्यमानगात्रस्य वेनतः । वेनतिः कांतिकर्मा । कामयमानस्य । वाशब्दः समुच्चये । एवंभूतस्य स्तोतुश्च कामस्य काममभिलाषं विद । लंभयत । प्रयच्छतेत्यर्थः ॥ शशमानस्य । शशप्लुतगतौ । ताच्छीलिकश्चानश् । स्वेदस्य । ञंष्विदा गात्रप्रक्षरणे अंतर्भावितण्यर्थात्कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । विद । विद्लृलाभे । लोट मध्यमपुरुषबहुवचनस्य व्यत्ययेन झादेशः । बहुलं छंदसीति विकरणस्य लुक् । झस्यादादेशः । लोपस्त आत्मनेपदेष्विति तलोषः । प्रत्ययाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । कामस्य । वृषादिषु पाठादाद्युदात्तत्वम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ ८ ॥

1.86.9
यू॒यं तत्स᳚त्यशवस आ॒विष्क᳚र्त महित्व॒ना ।
विध्य᳚ता वि॒द्युता॒ रक्ष᳚ः ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । तत् । स॒त्य॒॑श॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒॑त्व॒ना ।
विध्य᳚त । वि॒॑द्युता᳚ । रक्षः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सत्यशवसः सत्यबला अन्यैरप्रधृष्यबला मरुतो यूयं तद्वृत्रवॆधादिषु प्रसिद्धं युष्मदीयं माहात्म्यमाविष्कर्त । आविष्कुरुत । प्रकाशयत । विद्युता विद्योतमानेन महित्वना तेन महत्त्वेन महात्म्येन रक्षोऽस्माकमुपद्रवकारिणं राक्षसादिकं विध्यत । ताडयत । नाशयतेत्यर्थः ॥ कर्त । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । तप्तनप्तनथनाश्चेति तबादेशः । गुणः । इदुदुपधस्य चाप्रत्ययस्य । पा । ८-३-४१ । इत्याविःशब्दे विसर्जनीयस्य षत्वम् । महित्वना । भावप्रत्ययादुत्तरस्याङो व्यत्ययेन नाभाव उदात्तत्वं च । यद्वा । सुपां सुलुगिति तृतीयाया आजादेशो नकारोपजनश्च । विध्यत । व्यध ताडने । श्यनि ग्रहिच्यादिना संप्रसारणम् । तशब्दस्य सार्वधातुकमपिदिति ङित्वे सति ऋचि तुनुघमक्षुतङ्वति संहितायां दीर्घः ॥ ९ ॥

1.86.10
गूह᳚ता॒ गुह्यं॒ तमो॒ वि या᳚त॒ विश्व᳚म॒त्रिण᳚म् ।
ज्योति᳚ष्कर्ता॒ यदु॒श्मसि᳚ ॥
▶ पदपाठः (Word-by-word)
गूह᳚त । गुह्य᳚म् । तमः᳚ । वि । या॒त॒ । विश्व᳚म् । अ॒त्रिण᳚म् ।
ज्योतिः᳚ । क॒र्त॒ । यत् । उ॒श्मसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो गुह्यं गुहायां स्थितं सर्वत्र व्याप्य वर्तमानं तमोऽंधकारं गूहत । संवृत कुरुत । यद्वा । गुह्यं गुहायां शरीरांतर्गतगुहारूपे हृदये भवं तमो भावरूपाज्ञानम् । तद्गूहत । विनाशयत । अत्रिणं पुरुषार्थस्यात्तारं कामक्रोधादिकं सर्वं विनिर्गमयत । यज्ज्योतिः परतत्त्वसाक्षात्काररूपं ज्ञानं कामयामहे प्राणापानादिपंचवृत्तिरूपा हे मरुतस्तत्कर्त । कुरुत ॥ गूहत । गुहू संवरणे । शपि लघूपधगुण ऊदुपधाया गोहः (पा ६-४-५९) इत्युपधाया ऊकारः । यात । या प्रापणे । अस्मादंतर्भावितण्यर्थाल्लोट् । अत्रिणम् । अदेस्त्रिनि च (उ ४-६८) इति त्रिनिप्रत्ययः । उश्मसि । वश कांतौ । इदंतो मसिः । आदादित्वाच्चपो लुक् । ग्रहि ज्यादिना संप्रसारणं ॥ १० ॥