श्रवणम्

1.86.6
पू॒र्वीभि॒र्हि द᳚दाशि॒म श॒रद्भि᳚र्मरुतो व॒यम् ।
अवो᳚भिश्चर्षणी॒नाम् ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीभिः᳚ । हि । द॒दा॒शि॒म । श॒रत्॑भिः᳚ । म॒रु॒तः॒ । व॒यम् ।
अवः᳚॑भिः । च॒र्ष॒णी॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः पूर्वीभिर्बह्वीभिः शरद्भिः संवत्सरैश्चर्षणीनां सर्वस्य द्रष्टृणां सर्वज्ञानां भवतां संबंधिभिरवोभी रक्षणैर्युक्ताः संतो वयं ददाशिम । युष्मभ्यं हवींषि दत्तवंतः । हि यस्मादर्थे । यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छतेत्यर्थः ॥ पूर्वीभिः । पुरुशब्दाद्वोतो गुणवचनादिति ङीष् । यणादेशे हलि चेति दीर्घत्वम् । ददाशिम । दाशृ दाने । लिटीडागमः । हि चेति निघातप्रतिषेधः । चर्षणीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ६ ॥