प्रथमं मण्डलम् - सूक्तम् 4

10 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.4 - सम्पूर्णम्

1 / 10
ऋक्: 1.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.4.1
सु॒रू॒प॒कृ॒त्नुमू॒तये᳚ सु॒दुघा᳚मिव गो॒दुहे᳚ ।
जु॒हू॒मसि॒ द्यवि᳚द्यवि ॥
▶ पदपाठः (Word-by-word)
सु॒रू॒प॒॑कृ॒त्नुम् । ऊ॒तये᳚ । सु॒दुघा᳚म्॑इव । गो॒॑दुहे᳚ ।
जु॒हू॒मसि᳚ । द्यवि᳚॑द्यवि ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिंद्रमूतयेऽस्मद्रक्षार्थं द्यवि द्यवि प्रतिदिनं जुहूमसि । आह्वयामः । आह्वाने दृष्टांतः । गोदुहे गोदुगर्थं सुदुघामिव सुष्टु दोग्ध्रीं गामिव । यथा लोके गोर्यो दोग्धा तदर्थं तस्याभिमुखेन दोहनीयां गामाह्वयति तद्वत् । वस्तोरित्यादिषु द्वादशस्वहर्नामसु द्यविद्यवीति पठितम् । सुरूपकृत्नुम् । करोतीति कृत्नुः । कृहनिभ्यां क्नुः (उ ३-३०) कित्वाद्गुणाभावः । तकारोपजनश्छांदसः । समासांतो दात्तः । ऊतये । अवतेर्धातोरुदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्च । पा । ३-३-९७ । इति क्तिन्नुदात्तो निपातितः । सुदुघाम् । सुष्टुदुग्ध इति सुदुघा । दुहः कब्घश्च (पा ३-२-७०) इति कप्प्रत्ययो हकारस्य च घकारः । कित्त्वाद्गुणाभावः । कपः पित्त्वादनुदात्तत्वे धातुस्वरेणोकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेतीवसमासे स एव स्वरः । गां दोग्धीति गोधुक् । सुत्सूद्विषेत्यादिना (पा ३-२-६१) क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । हूयतेर्लडुत्तमपुरुषबहुवचने बहुलं छंदसीति शपः श्लुः ॥ पा पा २-४-७६ । अभ्यस्तस्य च (पा ६-१-३३) इत्यभ्यस्तकारणस्य हूयतेः प्रागेव द्विर्वचनात्संप्रसारणम् । संप्रसारणाच्च (पा ६-१-१०८) इति परपूर्वत्वम् । हलः (पा ६-४-२) इति दीर्घः । ततः श्लाविति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा ७-४-५९) चुत्वजश्त्वे (पा ७-४-६२) ८-४-५३ । इदंतो मसिः (पा ७-१-४६) इतीकारागमः । प्रत्ययस्वरेण मकारस्योदात्तत्वम् । द्यवि द्यवि । द्योशब्दः प्रातिपदिकस्वरेणांतोदात्तः । नित्यवीप्सयोः पा ८-१-४ । इति द्विर्भावः तस्य परमाम्रेडितम् (पा ८-१-२) अनुदात्तं च (पा ८-१-३) इति द्वितीयस्यानुदात्तत्वं ॥ १ ॥

1.4.2
उप᳚ न॒ः सव॒ना ग᳚हि॒ सोम᳚स्य सोमपाः पिब ।
गो॒दा इद्रे॒वतो॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । सव᳚ना । आ । ग॒हि॒ । सोम᳚स्य । सो॒म॒॑पाः॒ । पि॒ब॒ ।
गो॒॑दाः । इत् । रे॒वतः᳚ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपाः सोमस्य पातरिंद्र सोमं पातुं नोऽस्मदीयानि सवनात्रीणि सवनानि प्रत्युप समीप आगहि । आगच्छ । आगत्य च सोमस्य सोमं पिब । रेवतो धनवतस्तव मदो हर्षो गोदा इद्गोप्रद एव । त्वयि हृष्टे सत्यस्माभिर्गावो लभ्यंत इत्यर्थः ॥ उप । निपातत्वादाद्युदात्तः । सवना । सूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् (पा ३-३-११७) सुपो डादेशष्टिलोपश्च । लितीशि प्रत्ययात्पूर्वस्याकारस्योदात्तत्वम् । गहि । गमेर्बहुलं छंदसीति शपो लुक् । हेर्ङीत्त्वादनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । अतो हेः (पा ६-४-१०५) इत्याभाच्छास्त्रीये लुति कर्तव्येऽसिद्धवदत्राभात् (पा ६-४-२२) इत्याभाच्छास्त्रीयो मकारलोपोऽसिद्धवद्भवति । सोमपाः । आमंत्रितस्य चेति निघातः । तस्याविद्यमानवत्त्वेऽपि पूर्वापेक्षया तिङ्ङतिङ इति पिबेत्यस्य निघातः । न च पूर्वस्यापि परांगवद्भावेनाविद्यमानवत्त्वम् । असामर्थ्येन तदभावात् । गां ददातीति गोदाः । क्विप्च (पा ३-२-७६) इति क्विपं परमपि सरूपं बाधित्वा प्रतिपदविधित्वादातो मनिन्क्वनिब्वनिपश्च (पा ३-२-७४) इति विच् । क्विपि हि घमास्थेत्यादिना पा ६-४-६६ । धातोराकारस्येत्वं स्यात् । रेवान् । रयिर्धनमस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुप् (पा ६-१-१७६) इति मतबुदात्तः । छंदसीरः (पा ८-२-१५) इति वत्वम् । रयेर्मतौ बहुलं छंदसि । पा ६-१-३७-६ । इति संप्रसारणपरपूर्वत्वे गुणश्च । मदः । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप् । पित्त्वादनुदात्तः ॥ २ ॥

1.4.3
अथा᳚ ते॒ अन्त᳚मानां वि॒द्याम᳚ सुमती॒नाम् ।
मा नो॒ अति᳚ ख्य॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
अथ᳚ । ते॒ । अन्त᳚मानाम् । वि॒द्याम᳚ । सु॒॑म॒ती॒नाम् ।
मा । नः॒ । अति᳚ । ख्यः॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ सोमपानानंतरं हे इंद्र ते शवांतमानामंतिकतमानामतिशयेन समीपवर्तिनां सुमतीनां शोभनमतियुक्तानां शोभनप्रज्ञानां पुरुषाणां मध्ये स्थित्वा विद्याम । वयं त्वां जानीयाम । यद्वा । सुमतीनाम् । शोभनबुद्धीनां कर्मानुष्ठानविषयाणां लाभार्थमित्यध्याहारः । बुद्धिलाभाय त्वां स्मरेमेत्यर्थः । त्वमपि नोऽति माख्यः । अस्मानतिक्रम्यान्येषां त्वत्स्वरूपं मा प्रकथय । किंत्वा गह्यस्मानेवागच्छ । अथेति निपात आद्युदात्तः । निपातस्य चेति दीर्घत्वम् । अंतमानाम् । अतिशयेनांतिका इत्यतिशायने तमप् (पा ५-३-५५) तमे तादेश्च । पा ६-४-१४९-९ । इति तादिलोपः । अंतोऽस्यास्तीत्यंतिकः समीपः । अत इनिठनाविति ठन् । नित्त्वादाद्युदात्तः । दूरोत्कर्षस्य ह्यवसानं नास्ति । सामीप्योत्कर्षस्य पुनर्यो यस्य समीपः स एव तस्यांत इत्यंतवत्त्वात्समीपमंतिकमुच्यते । विद्याम । वेत्तेर्लिङि । यासुट् परस्मैपदेषूदात्तो ङुच्च (पा ३-४-१०३) इति यासुडुदात्तः । पादादित्त्वात्तिङ्ङतिङ इति न निघातः । सुमतीनाम् । मतिशब्दे क्तिनंतेऽपि मंत्रे वृषेषपचमनविदभूवीरा उदात्तः (पा ३-३-९६) इतीकार उदात्तः । शोभना मतिर्येषां ते सुमतय इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरापवादेन नञ् सुभ्यामित्युत्तरपदांतोदात्तः । शोभना मतयः सुमतय इति कर्मधारयेऽप्यव्ययपूर्वपदप्रकृतिस्वरापवादः । कृदुत्रपदप्रकृतिस्वरेणांतोदात्ततैव । अतो मतुपि ह्रस्वादंतोदात्ताच्च सुमतिशब्दात्परस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । ख्यः । ख्या प्रकथन इत्यस्य लुङु सिप्यस्यतिवक्तिख्यातिभ्योऽज् (पा ३-१-५२) इति च्लेरङादेशः । आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । इतश्च (पा ३-४-१००) इतीकारलोपो रुत्वविसर्गौ । न माङ् योगे (पा ६-४-७४) इत्यडभावः । गहि । गमेर्बहुलं छंदसीति शपो लुकि हेर्ङीत्त्वादनुदात्तोपदेशेति मकारलोपस्यासिद्धवदत्रा भादित्यसिद्धत्वादतो हेरिति लुग्न भवति ॥ ३ ॥

1.4.4
परे᳚हि॒ विग्र॒मस्तृ᳚त॒मिन्द्रं᳚ पृच्छा विप॒श्चित᳚म् ।
यस्ते॒ सखि᳚भ्य॒ आ वर᳚म् ॥
▶ पदपाठः (Word-by-word)
परा᳚ । इ॒हि॒ । विग्र᳚म् । अस्तृ᳚तम् । इन्द्र᳚म् । पृ॒च्छ॒ । वि॒पः॒॑चित᳚म् ।
यः । ते॒ । सखि᳚॑भ्यः । आ । वर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यजमानं प्रति होता ब्रूते । हे यजमान त्वमिंद्र परेहि । इंद्रस्य समीपे गच्छ । गत्वा च विपश्चितं मेधाविनं होतारं मां पृच्छ । असौ होता सम्यक् स्तुतवान्न चेत्येवं प्रस्नं कुरु । य इंद्रस्ते तव यजमानस्य सखिभ्य ऋत्विग्भ्यो वरं श्रेष्ठं धनपुत्रादिकमा समंतात्प्रयच्छतीति शेषः । तादृशमिंद्रमिति पूर्वत्रान्वयः । पुनरपि कीदृशम् । विग्रं मेधाविनं अस्तृतमहिंसितम् । विप्र इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु विग्रविपश्चिच्छब्दौ पठतौ ॥ विग्रं वृषादित्वादाद्युदात्तः । अस्तैतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इंद्रशब्द ऋज्रेंद्राग्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । सखिभ्यः । समानेख्यश्चोदात्तः (उ ४-१३६) इति समान उपपदे ख्यातेरिण् । डिदित्यनुवैत्तेस्तस्य डित्त्वाट्टलोपश्च पा ६-४-१४३ । तत्सन्नियोगेन यलोपः । उपपदस्योदात्तत्वम् । समानस्य छंदस्यमूर्धप्रभृत्युदर्केषु (पा ६-३-८४) इति सभावः । अतः सखिशब्द आद्युदात्तः । व्रियत इति वरः । ग्रहवृदृनिश्चिगमश्च (पा ३-३-५८) इत्यप् । तस्य पित्त्वाद्धातुस्वर एव ॥ ४ ॥

1.4.5
उ॒त ब्रु᳚वन्तु नो॒ निदो॒ निर॒न्यत᳚श्चिदारत ।
दधा᳚ना॒ इन्द्र॒ इद्दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः᳚ । निः । अ॒न्यतः᳚ । चि॒त् । आ॒र॒त॒ ।
दधा᳚नाः । इन्द्रे᳚ । इत् । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्माकं संबंधिन ऋत्विज इति शेषः । ते ब्रुवंतु । इंद्रं स्तुवंतु । उतमपि च हे निदो निंदितारः पुरुषा निरारत । इतो देशान्निर्गच्छत । अन्यतश्चिदन्यस्मादपि देशान्निर्गच्छत । कीदृशा ऋत्विजः । इंद्रे दुवः परिचर्यां दधानाः कुर्वाणाः । इच्छब्धोऽवधारणे । सर्वदा परिचर्यां कुर्वंत एव तिष्ठंत्वित्यर्थः । निंदंतीति निदः । निदि कुत्सायाम् । क्विपि नुमभावश्छांदसः । सुपोऽनुदात्तत्वाद्धातुस्वरः । आमंत्रितत्त्वेऽपि वाक्यांतरत्वेन स्ववाक्यगतपदादत्परत्वान्न निघात इत्याद्युदात्तत्वमेव । अन्यतः लितीति प्रत्ययात्पूर्वस्योदात्तत्वं चिदित्यपिशब्दार्थे । तेन न केवलमितः । इतो निर्गत्यान्यतोऽपि निर्गच्छतेति गम्यते । स एष धात्वर्थयोः संबंध आरतेति लुङा द्योत्यते । स हि धातुसंबंधाधिकारे विधीयते । आरत । अर्तेश्छंदसि लुङ् लङ् लिट इति लोडर्थे लुङ् । मध्यमबहुवचनस्य तादेशः । सर्तिशास्त्यर्तिभ्यश्च (पा ३-१-५६) इति च्लेरङादेशः । यदृरोऽङि गुणः (पा ७-४-१६) इति गुणः । आडागमः । दधानाः । शानचश्चित्त्वात्पाप्तमंतोदात्तं बाधित्वा परत्वादभ्यस्तानामादरित्याद्युदात्तत्तम् । दुवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तः ॥ ७ ॥ ५ ॥

1.4.6
उ॒त नः᳚ सु॒भगा{4}᳚ अ॒रिर्वो॒चेयु᳚र्दस्म कृ॒ष्टयः᳚ ।
स्यामेदिन्द्र᳚स्य॒ शर्म᳚णि ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । सु॒भगा᳚न् । अ॒रिः । वो॒चेयुः᳚ । द॒स्म॒ । कृ॒ष्टयः᳚ ।
स्याम᳚ । इत् । इन्द्र᳚स्य । शर्म᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म शत्रूणामुपक्षपयितरिंद्र त्वदनुग्रहादरिरुत शत्रवोऽपि नोऽस्मान् सुभगान् शोभनधनोपेतान्वोचेयुः । उच्यासुः । कृष्टयो मनुष्या अस्मन्मित्रभूता वदंतीति किमु वक्तव्यमिति शेषः । ततो धनसंपन्ना वयमिंद्रस्य शर्मणींद्रप्रसादलब्धे सुखे स्यामेश् । भवेमैव । मघमित्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु रयिः क्षत्रं भग इति पठितम् । मनुष्या इत्यादिषु पंचविंशतिसंख्याकेषु मनुष्यनामसु कृष्टय इति पठितं ॥ उत ॥ एवमादीनामंतः । फि ४-१४ इत्यंतोदात्तः । सुभगान् । भगशब्दस्य क्रत्वादिषु पाठान्न ञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं बाधित्वा क्रत्वादयश्च ॥ पा ६-२-११८ । इत्युत्तरपदाद्युदात्तत्वम् । संहितायां दीर्घादटि समानपादे (पा ८-३-९) इति नकारस्य रुत्वम् । भोभगो (पा ८-३-१७) इति यत्वम् । लोपः शाकल्यस्य (पा ८-३-१९) इति यलोपः तस्यासिद्धवत्त्वान्न पुनः संधिकार्यम् । आतोऽट नित्यम् (पा ८-३-३) इत्याकारस्य सानुनासिकता । अरिः । वचनव्यत्ययः । अच इः (उ ४-१३८) इतीप्रत्ययांतः । प्रत्ययस्वरेणांतोदात्तः वोचेयुः । उच्यासुः । वच परिभाषण इत्यस्माधाशीर्लिज् झेर्जुसादेशे (पा ३-४-१०८) लिङ्याशिष्यङ् (पा ३-१-८६) इत्यङ् प्रत्यये वच उम् (पा ७-४-२०) इत्युमागमः । गुणः । किदाशिषि (पा ३-४-१०४) इति यासुट् । छंदस्युभयथा (पा ३-४-११७) इति लङादेशस्य सार्वधातुकत्वाल्लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकारलोपः । अतो येयः पा ७-२-८० । आद्गुणः (पा ६-१-७२) अङोऽदुपदेशत्वाल्लसार्वधातुकस्वरेण लिङोऽनुदात्तत्वम् । अङ् प्रत्ययस्वर एव शिष्यते । तेन सहेकारस्य गुण एकादेश उदात्तेनोदात्त इत्युदात्तः । दस्म । दसु उपक्षय इत्यस्मादंतर्भावितण्य र्थादिषियुधींधिदशिस्याधूसूभ्यो मक् ! उ १-१४४ । पदात्परत्वादामंत्रितनिघातः । कृष्टयः । क्तिच् क्तौ च संज्ञायाम् (पा ३-३-१७४) इति क्तिचि मनुष्यनामत्वाच्चित इत्यंतोदात्तः । स्याम । अस भुवि । श्नसोरल्लोपः (पा ६-४-१११) यासुट उदात्तत्वम् । पादादित्वादनिघातः । शर्मणि । शृ हिंसायां हिनस्ति दुःखमिति शर्म । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति मनिन् । नेड्वति कृति (पा ७-२-८) इतीट् प्रतिषेधः । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

1.4.7
एमा॒शुमा॒शवे᳚ भर यज्ञ॒श्रियं᳚ नृ॒माद᳚नम् ।
प॒त॒यन्म᳚न्द॒यत्स᳚खम् ॥
▶ पदपाठः (Word-by-word)
आ । ई॒म् । आ॒शुम् । आ॒शवे᳚ । भ॒र॒ । य॒ज्ञ॒॑श्रिय᳚म् । नृ॒॑माद᳚नम् ।
प॒त॒यत् । म॒न्द॒यत्॑स᳚खम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईमिति निपात इदंशब्दार्थे वर्तते । हे यजमानाशवे कृत्स्नसोमयागव्याप्तायेंद्रायेमा भर । इमं सोममाहर । कीदृशं सोमम् । आशुं सवनत्रयव्याप्तं यज्ञ श्रियं यज्ञस्य संपद्रूपं नृमादनं नृणामृत्विग्यजमानानां हर्षहेतुं पतयत्पतयंतं कर्माणि प्राप्नुवंतं मंदयत्सखम् । य इंद्रो मंदयति यजमानान् हर्षयति तस्मिन्निंद्रे सखिभूतोऽयं सोमः । तत्प्रीतिहेतुत्वात्तृप्तिहेतुत्वाद्वा ॥ आशुम् । कृवापाजिमिस्वदिसाधृशूभ्य उण् (उ १-१) इत्युण् । प्रत्ययस्वरः । आशवे । पूर्ववत् । यज्ञश्रियम् । समासस्येत्यंतोदात्त्यः माद्यंतेऽनेनेति मादनः । करणाधिकरणयोश्च (पा ३-३-११७) इति ल्युट् । तस । लित्त्वात्पूर्व आकार उदात्तः । गतिकारकोपपदात्कृदिति स एव शिष्यते । पतयत् । पतेरदंतस्य चौरादिको णिच् (पा ३-१-२५) अतो लोपः (पा ६-४-४८) तस्य स्थानिवत्त्वादुपधाया वृद्ध्यभावः (पा ७-२-११६) १-१-५६ । लटः शत्रादेशः तस्य छंदस्युभयथेत्यार्धधातुकत्वेन शबभावाददुपदेशात् (पा ६-१-१८६) इति निघाताभावेन प्रत्ययाद्युदात्तत्वमेव भवति । आर्धधातुकत्वेऽपि सर्वे विधयश्चंदसि विकल्प्यंते । परि ३५ । इति णेरनिट (पा ६-४-५१) इति णिलोपाभावः । सुपां सुलुगित्यमोलुक् । न लुमता (पा १-१-६३) इति प्रत्ययलक्षणनिषेधादुगिदचाम् । ७-१-७० । इति न नुम् । एवं मंदयच्छब्धोंतोदात्तः । मंदयतींद्रे सखा । सप्तमीति योगविभागत्समासः । तत्पुरषे तुल्यार्थेति सप्तमीपूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.4.8
अ॒स्य पी॒त्वा श᳚तक्रतो घ॒नो वृ॒त्राणा᳚मभवः ।
प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । घ॒नः । वृ॒त्राणा᳚म् । अ॒भ॒वः॒ ।
प्र । आ॒वः॒ । वाजे᳚षु । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मयुक्तेंद्र त्वमस्य सोमस्य संबंधिनमंशं पीत्वा वृत्राणां वृत्रनामकासुरप्रमुखाणां शत्रूणां घनोऽभवः ॥ हंताभूः । ततो वाजेषु संग्रामेषु वाजिनं संग्रामवंतं स्वभक्तं प्रावः । प्रकर्षेण रक्षितवानसि ॥ अस्येतीदंशब्देन प्रयोगसमये पुरोदेशस्थः सोमो निर्दिश्यते न तु पूर्वप्रकृतः सोमः परामृश्यते । अतोऽनन्वादेशत्वान्नात्रेदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यशादेशः । अतो न सर्वानुदात्तत्त्वं किंतु त्यदाद्यत्वे (पा ७-२-१०२) हलि लोपे (पा ७-२-११३) अकारः प्रातिपदिकस्वरेणोदात्त इत्यंतोदात्तादित्यनुवृत्तावूडिदंपदाद्यप्पुम्रैद्युभ्यः (पा ६-१-१७१) इति विभक्तिरुदात्ता । पीत्वा । पिबतेः क्व्ताप्रत्यये घुमास्थादिनेत्वम् । प्रत्ययस्वरेणांतोदात्तः असामर्थ्यान्न परामंत्रितांगवद्भावः । घनः । मूर्तौ घनः (पा ३-३-७७) इति हंतेर्धातोः काठिन्येऽप्प्रत्ययः । तदस्यास्तीत्यर्शआदित्वादजंतः । चित्त्वादंतोदात्तः । वाजेषु । वृषादित्वादाद्युदात्तः । वाजिनम् । इनिप्रत्ययस्वरः ॥ ८ ॥

1.4.9
तं त्वा॒ वाजे᳚षु वा॒जिनं᳚ वा॒जया᳚मः शतक्रतो ।
धना᳚नामिन्द्र सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । वाजे᳚षु । वा॒जिन᳚म् । वा॒जया᳚मः । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
धना᳚नाम् । इ॒न्द्र॒ । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो बहुकर्मयुक्त यद्वा बहुप्रज्ञानयुक्तेंद्र धनानां सातये संभजनार्थं वाजेषु युद्धेषु वाजिनं बलवंतं त्वा पूर्वमंत्रोक्तगुणयुक्तं त्वां वाजयामः । अन्ववंतं कुर्मः । रण इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु पौंस्ये महाधने वाजेऽग्मन्निति पठितम् । अष्टाविंशतिसंख्याकेष्वन्ननामस्वंधो वाजः पाज इति पठितम् । उरु तुवीत्यादिषु द्वादशसु बहुनामसु शतं सहस्रमिति पठितम् । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शक्म क्रतुरिति पठितम् । केतः केतुरित्यादिष्वेकादशसु प्रज्ञानामसु क्रतुरसुरिति पठितं ॥ त्वा । अनुदात्तं सर्वमित्यनुवृत्तौ त्वामौ द्वितीयाया इति त्वादेशः । वाजेषु । वज व्रज गतौ । वाजयति गमयति शरीरनिर्वाहमनेनेति वाजो बलमन्नं वा । ण्यंतात्करणे घञ् । तत्र ञित्स्वरस्यापवादे कर्षात्वतः (पा ६-१-१५९) इत्यंतोदात्तत्वे प्राप्ते तस्याप्यपवादत्वेन वृषादीनां च (पा ६-१-२०३) इत्याद्युदात्तत्वम् । वाजयामः । वाजोऽस्यास्तीति वाजवान् । तं कुर्म इत्यर्थे तत्करोति तदाचष्टे । पा ३-१-२६, ५-६ । इति णिच् । इष्ठवणौ प्रातिपदिकस्य । पा ६-४-१५५-१ । इति तस्मिन्परत इष्टवद्भावाद्विन्मतोर्लुक् (पा ५-३-६५) इति मतुपो लुक् । टीः (पा ६-४-१५५) इत्यकारलोपः । णिचश्चित्त्वादंतोदात्तत्त्वं शपः पित्त्वेनानुदात्तत्त्वं लसार्वधातुकस्वरेणाख्यातस्याप्यनुदात्तत्वम् । पादादित्वात्तिङ्ङतिङ इति न निघातः । शतक्रतो । आमंत्रित निघातः । धनानाम् । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । सातये । उदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्चेति क्तिन्नुदात्तः ॥ ९ ॥

1.4.10
यो रा॒यो॒३॒᳚॑वनि᳚र्म॒हान्त्सु᳚पा॒रः सु᳚न्व॒तः सखा᳚ ।
तस्मा॒ इन्द्रा᳚य गायत ॥
▶ पदपाठः (Word-by-word)
यः । रा॒यः । अ॒वनिः᳚ । म॒हान् । सु॒॑पा॒रः । सु॒न्व॒तः । सखा᳚ ।
तस्मै᳚ । इन्द्रा᳚य । गा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रो रायो धनस्यावनी रक्षकः स्वामी वा तस्मा इंद्राय गायत । हे ऋत्विजस्तत्प्रीत्यर्थं स्तुतिं कुरुत । कीदृश इंद्रः । महान् गुणैरधिकः सुपारः सुष्ठु कर्मणः पूरयिता सुन्वतो यजमानस्य सखा सखिवत्प्रियः ॥ रायः । ऊडिदंपदाद्यप्पुम्रैद्युभ्य इति विभक्तेरुदात्तत्वम् । अवनिः । अव रक्षणगतिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्या लिंगनहिंसादहनभाववृद्धिषु चेत्यस्मादर्तिसृभृधृधम्यम्यश्यवितृभ्योऽनिः (उ २-१०३) इत्यनिः । प्रत्ययाद्युदात्तत्वम् । सुपारः । पृ पालनपूरणयोरित्यस्माणिजंतात्कर्तरीत्यनुवृत्तौ (पा ३-१-६८) पचाद्यच् (पा ३-१-१३४) चित इत्यंतोदात्तः । सुन्वतः । शतुरनुमो नद्यजादी (पा ६-१-१७३) इति विभक्तिरुदात्ता । सखा । समाने ख्यश्चोदात्तः (उ ४-१३६) इतीण् प्रत्ययांतः । तत्सन्नियोगेन यलोपः । सशब्दस्य चोदात्तः । डित्त्वाट्वलोपः तस्मै । अदिरित्यनुवृत्तौ त्यजितनियजिभ्यो डित् (उ १-१३१) इति तनोतेरदिप्रत्ययः डित्त्वाट्वलोपे प्रत्ययस्वरेण तच्छब्द उदात्तः । त्यदाद्यत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । सावेकाचस्तृतीयादिर्विभक्तिरिति । विभक्तेरुदात्तत्वे प्राप्ते प्रथमैकवचनेऽवर्णांतत्वान्न गोश्वन्साववर्ण (पा ६-१-१८२) इति निषेधः । इंद्राय । इंद्रशब्दो रन्प्रत्ययांतो निपातितः । नित्त्वादाद्युदात्तः । कर्मणा यमभिप्रैति स संप्रदानम् (पा १-४-३२) इत्यत्र क्रियाग्रहणं कर्तव्यम् । पा १-४-३२-१ । इति वचनाद्गानक्रियया प्राप्यत्वात्संप्रदानत्वेन चतुर्थी ॥ १० ॥