प्रथमं मण्डलम् - सूक्तम् 24

15 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः देवता: कः (प्रजापतिः) छन्दः: त्रिष्टुप्

सूक्तम् 1.24 - सम्पूर्णम्

1 / 15
ऋक्: 1.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.24.1
कस्य᳚ नू॒नं क᳚त॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु᳚ दे॒वस्य॒ नाम᳚ ।
को नो᳚ म॒ह्या अदि᳚तये॒ पुन᳚र्दात्पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ॥
▶ पदपाठः (Word-by-word)
कस्य᳚ । नू॒नम् । क॒त॒मस्य᳚ । अ॒मृता᳚नाम् । मना᳚महे । चारु᳚ । दे॒वस्य᳚ । नाम᳚ ।
कः । नः॒ । म॒ह्यै । अदि᳚तये । पुनः᳚ । दा॒त् । पि॒तर᳚म् । च॒ । दृ॒शेय᳚म् । मा॒तर᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कस्येत्यनयर्चा शुनःशेपो यूपे बद्धः कांदिशीकः कं देवमुपधावानीति विचकित्सति । तथा चाम्नायते । हंताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार । ऐ ब्रा ७-१६ । इति । वयं शुनःशेपनामका अमृतानां देवतानां मध्ये कतमस्य किंजातीयस्य कस्य देवस्य चारु शोभनं नाम मनामहे । उच्चारयामः । को देवो मां मुमूर्षुं पुनरपि मह्यै महत्यै अदितये पृथिव्यै दात् । दद्यात् । तेन दानेनाहममृतः सन् पितरं मातरं च दृशेयम् । पश्येयम् । को ह वै नाम प्रजापतिरिति श्रुतेः कस्येति शब्दसामान्यदनया प्रजापतिरेवोपसृत इति गम्यते ॥ कतमस्य । किंशब्दाद्वा बहूनां जातिपरिप्रश्ने डतमच् (पा ५-३-९३) चित इत्यंतोदात्तत्वम् । अमृतानां नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । मनामहे । मन ज्ञाने । व्यत्ययेन शप् । पादादित्वादनिघातः । मह्यै । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । दात् । गातिस्था (पा २-४-७७) इति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । दृशेयं दृशिर् प्रेक्षणे । आशीर्लिङि मिपोऽम् । दृशेरग्वक्तव्यः । म ३-१-८६-२ । इत्यक्प्रत्ययः । शपोऽपवादः । कित्त्वाल्लघूपधगुणाभावः । लिङ्याशिष्यङ् (पा ३-१-८६) इत्यङि हि सति ऋदृशोऽङि गुणः (पा ७-४-१६) इति गुणः स्यात् । यासुट् । सलोपः । अतो येयः । आद्गुणः । यासुटः स्वरेणैकार उदात्तः । मातरं चेत्यत्र च शब्दाद्दृशेयमित्यनुषज्यते । अतस्तदपेक्षयैषा तिङ्विभक्तिः प्रथमेति चवायोगे प्रथमेति न निहन्यते ॥ १ ॥

1.24.2
अ॒ग्नेर्व॒यं प्र᳚थ॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु᳚ दे॒वस्य॒ नाम᳚ ।
स नो᳚ म॒ह्या अदि᳚तये॒ पुन᳚र्दात्पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य᳚ । अ॒मृता᳚नाम् । मना᳚महे । चारु᳚ । दे॒वस्य᳚ । नाम᳚ ।
सः । नः॒ । म॒ह्यै । अदि᳚तये । पुनः᳚ । दा॒त् । पि॒तर᳚म् । च॒ । दृ॒शेय᳚म् । मा॒तर᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थं प्रथमयर्चा विचिकित्सां क्वत्वा प्रजापते सकाशात्तं देवमग्निं निश्चित्यानया तुष्टाव । तथा च श्रूयते । तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा । ऐ ब्रा । ७-१६ । इति । पूर्ववद्योजना । दाद्ददातु दृशेयं पश्यानीत्येवमाशीः परत्वेन पदद्वयं योज्यं ॥ २ ॥

1.24.3
अ॒भि त्वा᳚ देव सवित॒रीशा᳚नं॒ वार्या᳚णाम् ।
सदा᳚वन्भा॒गमी᳚महे ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा᳚नम् । वार्या᳚णाम् ।
सदा᳚ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमे छंदोमे वैश्वदेवशस्त्र अभि त्वा देव सवितरिति सावित्रस्तृचः सूक्तस्थानीयः । अथ छंदोमा इति खंडेऽभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवा (आ ८-९) इति सूत्रितं ॥ अभित्वेत्येषाग्निमंथनेऽपि विनियुक्ता । प्रातर्वैश्वदेव्यामिति खंडेऽभि त्वा देव सवितर्मही द्यौः पृथिवी च नः (आ २-१६) इति सूत्रितम् । श्रूयते च । अभि त्वा देव सवितरिति सावित्रीमन्वाह । ऐ ब्रा १-१६ । इति ॥ तथा प्रवर्ग्येऽप्येषा विनियुक्ता । अथोत्तरमिति खंडेऽभि त्वा देव सवितः समी वत्सं न मातृभिः । अ ४-७ । इति सूत्रितं ॥ तथा ग्रावस्तोत्रेऽपि । एतस्मिन्काले ग्रावस्तुदिति खंडे मध्यमस्वरेणेदं सवनमभि त्वा देव सवितः । अ । ५-१२ । इति सूत्रितं ॥

अथाग्निना प्रेरितः सन्सवितारमभि त्वेत्यनेन तृचेन प्रार्थयते । तथैव श्रूयते । तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन । ऐ ब्रा ७-१६ । इति । हे सदावन् सदा सर्वदा रक्षक हे सविर्तदेव वार्याणां वरणीयानां धनानामीशानां स्वामिनं त्वां प्रति भागं भजनीयं धनमभि सर्वत ईमहे । याचामहे ॥ ईशानम् । ईश ऐश्वर्ये लटः शानच् । तास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः । वार्याणाम् । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वम् । अवन् । आमंत्रितनिघातः । भागम् । कर्षात्वत इति घञोंऽत उदात्तः ॥ ३ ॥

1.24.4
यश्चि॒द्धि त᳚ इ॒त्था भगः᳚ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त᳚योर्द॒धे ॥
▶ पदपाठः (Word-by-word)
यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः᳚ । श॒श॒मा॒नः । पु॒रा । नि॒दः ।
अ॒द्वे॒षः । हस्त᳚योः । द॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितर्यो भगो भजनीयो धनविशेषस्ते तव हस्तयोर्दधे धृतोऽभूत्तं धनविशेषमीमह इति पूर्वत्रान्वयः । चिच्छब्धः पूजार्थे हिशब्दः प्रसिद्धौ । धनस्य पूज्यत्वं सर्वत्र प्रसिद्धम् । तामेव पूज्यत्वप्रसिद्धिं विसदयति । इत्था शशमानोऽनेन प्रकारेण शस्यमानः स्तूयमानः । धनस्तुतिप्रकारं च सर्वे जानंति । ननु स्वकीये धने वैरिभिरपहृते सति वैरिगृहीतं धनं सर्वो लोको निंदति द्वेष्टि च । अतो धनस्तुतिर्न नियतेत्याशंक्याह । निदः पुरा अद्वेषो निंदायाः पूर्वं स्वकीयत्वेन व्यवस्थिते सति तदानीं द्वेषरहितः । तस्मात्स्वकीयत्वाभिप्रायेण स्तूयमानत्वमुक्तमित्यर्थः ॥ इत्था । प्रकारवचन इदमस्थमुः (पा ५-३-२४) सुपां सुलुगिति व्यत्ययेन विभक्तेर्डादेशः । टलोप उदात्तनिवृत्तिस्वरेणाकार उदात्तः । शशमानः । शशप्लुतगतौ । इह तु स्तुत्यर्थः । ताच्छील्यवयोवचनेति (पा ३-२-१२९) ताच्छीलकश्चानश् । कर्तरि शप् । पित इत्यंतोदात्तत्वम् । निदः । णिदि कुत्सायाम् । संपदादिलक्षणः क्विप् । सावेकाच इति पंचम्या उदात्तत्वम् । अद्वेषः । न विद्यते द्वेषोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । दधे । कर्मणि लिट् । तस्यार्धधातुकत्वेनाभ्यस्तानामादिरित्याद्युदात्तो न भवति । प्रत्ययस्वर एव शिष्यते । यद्द्वृत्तयोगान्निघाताभावः ॥ ४ ॥

1.24.5
भग᳚भक्तस्य ते व॒यमुद᳚शेम॒ तवाव᳚सा ।
मू॒र्धानं᳚ रा॒य आ॒रभे᳚ ॥
▶ पदपाठः (Word-by-word)
भग᳚॑भक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव᳚ । अव᳚सा ।
मू॒र्धान᳚म् । रा॒यः । आ॒॑रभे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः ते त्वदीया वयं शुनःशेपनामानो भगभक्तस्य धनेन संयुक्तस्य तवावसा रक्षणेनोदशेम । उत्कर्षेण व्याप्नुमः । किं कर्तुम् । रायो धनस्य मूर्धानमुत्कर्षमारभे । प्रारब्धुम् । धनिकत्वप्रसिद्ध्या व्याप्ता भूयामेत्यथः भगशब्दो वृषादित्वादाद्युदात्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । अशेम । अशू व्याप्तौ । लिजि व्यत्ययेन परस्मैपदम् । शप् । रायः । ऊडिदमिति षष्ठ्या उदात्तत्वम् । आरभे । कृत्यार्थे तवैकेनिति तुमर्थे केन्प्रत्ययः । नित्स्वरेणाद्युदात्तत्वं ॥ १३ ॥ ५ ॥

1.24.6
न॒हि ते᳚ क्ष॒त्रं न सहो॒ न म॒न्युं वय᳚श्च॒नामी प॒तय᳚न्त आ॒पुः ।
नेमा आपो᳚ अनिमि॒षं चर᳚न्ती॒र्न ये वात᳚स्य प्रमि॒नन्त्यभ्व᳚म् ॥
▶ पदपाठः (Word-by-word)
न॒हि । ते॒ । क्ष॒त्रम् । न । सहः᳚ । न । म॒न्युम् । वयः᳚ । च॒न । अ॒मी इति᳚ । प॒तय᳚न्तः । आ॒पुः ।
न । इ॒माः । आपः᳚ । अ॒नि॒॑मि॒षम् । चर᳚न्तीः । न । ये । वात᳚स्य । प्र॒॑मि॒नन्ति᳚ । अभ्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ सवित्रा प्रेरितः शुनःशेप एतदादिसूक्तशेषेणोत्तरेण च सूक्तेन वरुणं तुष्टाव । तथा च श्रूयते । तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकविशंता । ऐ ब्रा ७-१६ । इति । हे वरुण पतयंतः प्रौढे वियत्युत्पतंतोऽमी दृश्यमाना वयश्चन श्येनादयः पक्षिणोऽपि ते क्षत्रं त्वदीयं शरीरबलं न ह्यापुः । नैव प्राप्ताः । त्वत्सदृशं शरीरबलं पक्षिणामपि नास्तीत्यर्थः । तथा सहस्त्वदीयं पराक्रमं तव सामर्थ्यमपि न प्रापुः । तथा मन्युं त्वदीयं कोपमपि न प्रापुः । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः । अनिमिषं सर्वदा चरंतीः प्रवाहरूपेण गच्छंत्य आपस्त्वदीयं बलं न प्रापुः । वातस्य वायोर्ये गतिविशेषास्त्वदीयमभ्वं वेगं न प्रमिनंति न हिंसंति । अतिक्रमं कर्तुं न शक्ता इत्यर्थः । तेऽपि न प्रापुरिति पूर्वात्रान्वयः ॥ पतयंतः । पत गतौ । चुरादिरदंतः । लटः शतृ । शप् । गुणायादेशौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिचः स्वरः । आपुः आप्लृ गतौ । लिट्युसि द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७०) इत्यात्वम् । आप्लृ गतौ । लिट्युसि द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७०) इत्यात्वम् । अत्र न सहो न मन्युमित्यादिभिरापुरित्यस्य संबंधात्तदपेक्षया प्राथम्याच्चादिलोपे विभाषेति प्रथमा तिङ्विभक्तिर्न निहन्यते । चरंतीः वा छंदसीति पूर्वसवर्णदीर्घः । प्रमिनंति । मीञ् हिंसायाम् । त्यादिभ्यः श्ना । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । मीनातेर्निगमे (पा ७-३-८१) इति ह्रस्वत्वम् । प्रत्यय । स्वरः । तिङि चोदात्तवति (पा ८-१-७१) इति गतिरनुदात्तः । यद्वृत्तयोगादनिघातः ॥ ६ ॥

1.24.7
अ॒बु॒ध्ने राजा॒ वरु᳚णो॒ वन᳚स्यो॒र्ध्वं स्तूपं᳚ ददते पू॒तद᳚क्षः ।
नी॒चीना᳚ः स्थुरु॒परि᳚ बु॒ध्न ए᳚षाम॒स्मे अ॒न्तर्निहि᳚ताः के॒तवः᳚ स्युः ॥
▶ पदपाठः (Word-by-word)
अ॒बु॒ध्ने । राजा᳚ । वरु᳚णः । वन᳚स्य । ऊ॒र्ध्वम् । स्तूप᳚म् । द॒द॒ते॒ । पू॒त॑द᳚क्षः ।
नी॒चीनाः᳚ । स्थुः॒ । उ॒परि᳚ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति᳚ । अ॒न्तः । नि॑हि᳚ताः । के॒तवः᳚ । स्यु॒रिति᳚ स्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूतदक्षः शुद्धबलो वरुणो राजाबुध्ने मूलरहितेंऽतरिक्षे तिष्ठन्वनस्य वननीयस्य तेजसः स्तूपं संघमूर्ध्वमुपरिदेशे ददते । धारयति । नीचीनाः स्थुः । ऊर्ध्वदेशे वर्तमानस्य वरुणस्य रश्मय इत्यध्याहार्यम् । ते ह्यदोमुखास्तिष्ठंति । एषां रश्मीनां बुध्नो मूलमुपरि तिष्ठतीति शेषः । तथा सति केतवः प्रज्ञापकाः प्राणा अस्मेऽस्मास्वंतर्निहिताः स्थापिताः स्युः । मरणं न भविष्यतीत्यर्थः ॥ अबुध्ने । न विद्यते बुध्नो मूलमस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्तूपम् । स्त्यै शब्दसंघातयो । स्त्यः संप्रसारणमूच्छेति पप्रत्ययः । तत्संनियोगेन यकारस्य संप्रसारणं परपूर्वत्व ऊकारादेशश्च । निदित्यनुवृत्तेराद्युदात्तत्वम् । ददते । भौवादिकः । नीचीनाः । निपूर्वादंचतेर्ऋृत्विगित्यादिना क्विना । अनि दितामिति नलोपः । न्यच् शब्दात्स्वार्थे विभाषांचेरदिक्स्त्रियाम् (पा ५-४-८) इति खः अयन्नित्यादिना तस्येनादेशः । आयनादिषूपदेशिवद्वचनम् । स्वरसिद्ध्यर्थम् । पा ७-१-२-१ । इति वचनादीकार उदात्तः । अच इत्यकारलोपे चाविति दीर्घत्वम् । स्थुः । गातिस्थेत्यादिना (पा २-४-७७) सिचो लुक् । अतः (पा ३-४-११०) इति झेर्जुसादेशः । उस्यपदांतात् (पा ६-१-९६) इति पररूपत्वम् । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । अस्मे । सुपां सुलुगिति सप्तम्याः शेअदेशः । निहिताः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । स्युः । अस्तेर्लिङि श्नसोरल्लोपः ॥ ७ ॥

1.24.8
उ॒रुं हि राजा॒ वरु᳚णश्च॒कार॒ सूर्या᳚य॒ पन्था॒मन्वे᳚त॒वा उ᳚ ।
अ॒पदे॒ पादा॒ प्रति᳚धातवे॑करु॒ताप᳚व॒क्ता हृ᳚दया॒विध᳚श्चित् ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । हि । राजा᳚ । वरु᳚णः । च॒कार᳚ । सूर्या᳚य । पन्था᳚म् । अनु᳚॑ए॒त॒वै । ऊं॒ इति᳚ ।
अ॒पदे᳚ । पादा᳚ । प्रति᳚॑धातवे । अ॒कः॒ । उ॒त । अ॒प॒॑व॒क्ता । हृ॒द॒य॒॑विधः᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणो राजा सूर्याय सूर्यस्य पंथां मार्गमुरुं विस्तीर्णं चकार । हिशब्दः प्रसिद्धौ । उत्तरायणदक्षिणायनमार्गस्य विस्तारः प्रसिद्धः । किमर्थमेवं कृतवानिति तदुच्यते । अन्वेतवा उ । अनुक्रमेणोदयास्तमयौ गंतुमेव । तथापदे पादरहितेंऽतरिक्षे पादा प्रतिधातवे । पादौ प्रक्षेप्तुम् । अकः । मार्गं कृतवान् । पूर्वत्र रथस्य मार्गः अत्र पादयोरिति विशेषः । यद्वा । अपदे यूपे बद्धेन मया गंतुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुमुपायं बंधविमोचनरूपं करोत्वित्यर्थः । उतापि च हृदयाविधश्चिदस्मदीयवेधकस्य शत्रोरप्यपवक्तापवदिता निराकर्ता भवतु ॥ चकार । लिट्स्वरेणाकार उदात्तः । हि चेति निघातप्रतिषेधः । पंथाम् । पथिमथ्यृभुक्षामात् (पा ७-१-८५) इति द्वितीयायामपि व्यत्ययेनात्वम् । पथिन्शब्दस्य पतेस्थ च (उ ४-१२) इति प्रत्ययांतत्वेनांतोदात्तत्वे प्राप्ते पथिमथोः सर्वनामस्थाने (पा ६-१-१९९) इत्याद्युदात्तत्वम् । अन्वेत वै । अनुपूर्वादेतेस्तुमर्थे सेसेनिति तवैप्रत्ययः । तवै चांतश्च युगपत् (पा ६-२-५१) इत्याद्यंतयोरुदात्तत्वम् । पादा । सुपां सुलुगित्याकारः । प्रतिधातवे । दधातेस्तुमर्थ इति सूत्रेणैव तवेन्प्रत्ययः । तादौ च निति (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । अकः करोतेश्छंदसिलुङ् लङ् लिट इति लोडर्थे लुङ् । तस्य तिप् । मंत्रे घसेत्यादिना (पा २-४-८०) च्लेर्लुक् । गुणो रपरत्वम् । हल्ङ्याब्भ्यः (पा ६-१-६८) इति तिपो लोपः । आडागमः । हृदयाविधः । हृञ् हरणे । वृह्रोः षुग्दुकौ च । उ । ४ । १०० । इति कयन् । व्यध ताडने । क्विप् । नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.24.9 समानपद
श॒तं ते᳚ राजन्भि॒षजः᳚ स॒हस्र᳚मु॒र्वी ग᳚भी॒रा सु᳚म॒तिष्टे᳚ अस्तु ।
बाध᳚स्व दू॒रे निरृ᳚तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु᳚मुग्ध्य॒स्मत् ॥
▶ पदपाठः (Word-by-word)
श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः᳚ । स॒हस्र᳚म् । उ॒र्वी । ग॒भी॒रा । सु॒॑म॒तिः । ते॒ । अ॒स्तु॒ ।
बाध᳚स्व । दू॒रे । निः॑ऋ᳚तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः᳚ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन्वरुण ते तव शतं भिषजो बंधनिवारकाणि शतसंख्याकान्यौषधानि वैद्या वा संति । ते तव सुमतिरस्मदनुग्रहबुद्धिरुर्वी विस्तीर्णा गभीरा गांभीर्योपेता स्थिरास्तु । निर्ऋृतिमस्मदनिष्टकारिणीं निर्ऋृतिं पापदेवतां पराचैः पराङ्मुखां कृत्वा दूरेऽस्मत्तो व्यवहिते देशे स्थापयित्वा तां बाधस्व । कृतं चिदस्माभिरनुष्ठि तमप्येनः पापमस्मत् प्रमुमुग्धि । प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । तादौ चेति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य युष्मत्तत्ततक्षुःष्वंतःपादम् (पा ८-३-१०३) इति षत्वम् । बाधस्व बाधृ विलोडने । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋृतिम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । मुच्लृ मोक्षणे । बहुलं छंदसीति श्लुः । हुझल्भ्यो हेर्धिः (पा ६-४-१०१) तस्यापित्त्वेन ङित्त्वा द्गुणाभावः । चोः कुः (पा ८-२-३०) इति कुत्वं ॥ ९ ॥

1.24.10
अ॒मी य ऋक्षा॒ निहि᳚तास उ॒च्चा नक्तं॒ ददृ᳚श्रे॒ कुह᳚ चि॒द्दिवे᳚युः ।
अद᳚ब्धानि॒ वरु᳚णस्य व्र॒तानि᳚ वि॒चाक᳚शच्च॒न्द्रमा॒ नक्त᳚मेति ॥
▶ पदपाठः (Word-by-word)
अ॒मी इति᳚ । ये । ऋक्षाः᳚ । नि॑हि᳚तासः । उ॒च्चा । नक्त᳚म् । ददृ᳚श्रे । कुह᳚ । चि॒त् । दिवा᳚ । ई॒युः॒ ।
अद᳚ब्धानि । वरु᳚णस्य । व्र॒तानि᳚ । वि॒॑चाक᳚शत् । च॒न्द्रमाः᳚ । नक्त᳚म् । ए॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमी रात्रावस्माभिर्दृश्यमाना ऋक्षाः सप्त ऋषयः । तथा च वाजसनेयिन आमनंति । ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षत इति । यद्वा । ऋक्ष्वाः सर्वेऽपि नक्षत्रविशेषाः । ऋक्षाः स्तृभिरिति नक्षत्राणाम् (नि ३-२०) इति यास्केनोक्तत्वात् । उच्चा उच्चैरुपरि द्युप्रदेशे निहितासः स्थापिता ये संति ते ऋक्षा नक्तं रात्रौ ददृश्रे । सर्वैरपि दृश्यंते । दिवाहनि कुह चिदीयुः । क्वापि गच्छेयुः । न दृश्यंत इत्यर्थः । वरुणस्य राज्ञो व्रतानि कर्माणि नक्षत्रदर्शनादिरूपाण्यदब्दानि केनाप्यहिंसितानि । किंच वरुणस्याज्ञयैव चंद्रमा नक्तं रात्रौ विचाकशत् विशेषेण दीप्यमान एति । गच्छति ॥ निहितासः । आज्जसेरसुक् । थाथादिस्वरेणोत्तरपदांतोदात्तत्वे प्राप्ते (पा ६-२-१४४) गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । ददृश्रे । दृशेर्लिट इरयो रे (पा ६-४-७६) इति रेआदेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । कुह । वा ह च छंदसि (पा ५-३-१३) इति किंशब्दादुत्तरस्य त्रलो हादेशः । कु तिहोः (पा ७-२-१०४) इति किंशब्दस्य कुआदेशः । स्थानिवद्भावाल्लित्सर्वेणाद्युदात्तत्वम् । विचाकशत् । कशेर्दीप्त्यर्थाद्यङ् लुगंताच्छतृप्रत्ययः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । समासे कृत्स्वरः । यद्वा काशतेर्वा व्यत्ययेनोपधाह्रस्वत्वम् । चंद्रमाः । चंद्रे माङो डित् (उ ४-२२७) इत्यसिप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १४ ॥ १० ॥

1.24.11 समानपद
तत्त्वा᳚ यामि॒ ब्रह्म᳚णा॒ वन्द᳚मान॒स्तदा शा᳚स्ते॒ यज᳚मानो ह॒विर्भि᳚ः ।
अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु᳚शंस॒ मा न॒ आयु॒ः प्र मो᳚षीः ॥
▶ पदपाठः (Word-by-word)
तत् । त्वा॒ । या॒मि॒ । ब्रह्म᳚णा । वन्द᳚मानः । तत् । आ । शा॒स्ते॒ । यज᳚मानः । ह॒विः॑भिः᳚ ।
अहे᳚ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु᳚॑शंस । मा । नः॒ । आयुः᳚ । प्र । मो॒षीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशिनस्य वारुणस्य पशोर्वपापुरोडाशयोस्तत्त्वा यामीति द्वे ऋचौ याज्ये । सूत्रितं च । तत्त्वा यामि ब्रह्मणा वंदमान इति द्वे अस्तभ्नाद्याम् (आ ३-७) इति ॥ वरुणप्रघासेषु वारुणस्य हविषो याज्या तत्त्वा यामीत्येषा पंचम्यां पौर्णमास्यामित्यत्र सूत्रितम् । इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वंदमानः । अ २-१७ । इति ॥

हे वरुण मुमूर्षुरहं त्वां प्रति तदायुर्यामि । याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वंदमानः स्तुवन् । सर्वत्र यजमानोऽपि हविर्भिस्तदायुरा शास्ते । प्रार्थयते । त्वं चेह कर्मण्य हेलमानोऽनादरमकुर्वन्बोधि । अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नोऽस्मदीयमायुर्मा प्रमोषीः । प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु यज्ञाकर्मस्वीमहे यामीति पठितम् । चाशब्दलोपश्छांदसः ॥ अहेळमानः । हेडृ अनादरे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । बुध अवगमने लोटः सेर्हिः । बहुलं छंदसीति विकरणस्य लुक् । वा छंदसि (पा ३-४-८८) इत्यपित्त्वाभावेन ङित्त्वाभावाल्लघूपधगुणः । हुझल्भ्यो हेर्धिरितिदेशः । धातोरंत्यलोपश्छांदसः । मोषीः । मुष स्तेये । लोडर्थे छांदसो लुङ् । वदव्रजेति प्राप्ताया वृद्धेर्नेट । पा ७-२-३,४ । इति प्रतिषेधे सति लघूपधगुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ११ ॥

1.24.12
तदिन्नक्तं॒ तद्दिवा॒ मह्य᳚माहु॒स्तद॒यं केतो᳚ हृ॒द आ वि च᳚ष्टे ।
शुन॒ःशेपो॒ यमह्व᳚द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु᳚णो मुमोक्तु ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । नक्त᳚म् । तत् । दिवा᳚ । मह्य᳚म् । आ॒हुः॒ । तत् । अ॒यम् । केतः᳚ । हृ॒दः । आ । वि । च॒ष्टे॒ ।
शुनः॒शेपः᳚ । यम् । अह्व᳚त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा᳚ । वरु᳚णः । मु॒मो॒क्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तदित्तदेव वरुणविषयं स्तोत्रं नक्तं रात्रौ मह्यं शुनःशेपायाहुः । कर्तव्यत्वेनाभिज्ञाः कथयंति । तथा दिवापि तदेवाहुः । हृदो मदीमनसो निष्पन्नोऽयं केतः प्रज्ञाविशेषोऽपि तदेव कर्तव्यत्वेना वि चष्टे । सर्वतो विशेषेण प्रकाशयति । गृभीतो गृहीतो यूपे बद्धः शुनःशेप एतन्नामको जनो यं वरुणमह्वत् आहूतवान् स वरुणो राजास्मान् शुनःशेपान्मुमोक्तु । बंधान्मुक्तं करोतु ॥ मह्यम् । ङयि चेत्याद्युदात्तत्वम् । आहुः । ब्रुवः । पंचानाम् (पा ३-४-८४) इति ब्रू ञो लट झेरुसादेशो धातोराहादेशश्च । हृदः । पद्दन्नित्यादिना (पा ६-१-६३) हृदयशब्दस्य हृदादेशः । ऊडिदंपदादीति पंचम्या उदात्तत्वम् । शुनःशेपः । शुन इव शेपो यस्येति समासे शुनः शेप पुच्छांगूलेषु संज्ञयां षष्ठ्या अलुग्वक्तव्यः । पा ६-३-२१-४ । इत्यलुक् । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते उभे वनस्पत्यादिषु (पा ६-२-१४०) इति पूर्वेत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । अह्वत् । ह्वेञो लुङि लिपिसिचिचिह्वश्च (पा ३-१-५३) इति च्लेरङादेशः आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । गृभीतः । हृग्रहोर्भ इति भत्वम् । सो अस्मान् । प्रकृत्यांतःपादमिति प्रकृतिभावः । मुमोक्तु । बहुलं छंदसीति विकरणस्य श्लुः ॥ १२ ॥

1.24.13
शुन॒ःशेपो॒ ह्यह्व᳚द्गृभी॒तस्त्रि॒ष्वा᳚दि॒त्यं द्रु᳚प॒देषु᳚ ब॒द्धः ।
अवै᳚नं॒ राजा॒ वरु᳚णः ससृज्याद्वि॒द्वा{4} अद᳚ब्धो॒ वि मु᳚मोक्तु॒ पाशा᳚न् ॥
▶ पदपाठः (Word-by-word)
शुनः॒शेपः᳚ । हि । अह्व᳚त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒॑प॒देषु᳚ । ब॒द्धः ।
अव᳚ । ए॒न॒म् । राजा᳚ । वरु᳚णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद᳚ब्धः । वि । मु॒मो॒क्तु॒ । पाशा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृभीतो बंधनाय गृहीतस्त्रिसंख्याकेषु द्रुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु बद्धः शुनःशेप आदित्यमदितेः पुत्रं यं वरुणमह्वत् आहूतवान् । हि यस्मादेवं तस्मात्स वरुणो राजैनं शुनःशेपमव ससृज्यात् । अवसृष्टं बंधनाद्विमुक्तं करोतु । विमोकप्रकार एव स्पष्टीक्रियते । विद्वान् विमोकप्रकाराभिज्ञः अदब्धः केनाप्यहिंसितो वरुणः पाशान्बंधनरज्जुविशेषान्वि मुमोक्त । विच्छिद्यैनं मुक्तं करोतु ॥ त्रिषु षट् त्रिचतुर्भ्यो हलादिः पा ६-१-१७९ । इति विभक्तेरुदात्तत्वम् । संहितायामुदात्तस्वरितयोर्यण इति पर आकारः स्वर्यते । ससृज्यात् । सृज विसर्गे । प्रार्थनायां लिङ् । बहुलं छंदसीति विकरणस्य श्लुः । विद्वान् । विद ज्ञाने । विदेः शतुर्वसुः (पा ७-१-३६) उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । संहितायां दीर्घादट समानपाद इति नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अदब्धः । दन्भु दंभे । निष्ठायामनिदितामिति नलोपे झषस्तथोर्धोऽधः (पा ८-२-४०) इति धत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १३ ॥

1.24.14
अव᳚ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव᳚ य॒ज्ञेभि᳚रीमहे ह॒विर्भि᳚ः ।
क्षय᳚न्न॒स्मभ्य᳚मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚ । ते॒ । हेळः᳚ । व॒रु॒ण॒ । नमः᳚॑भिः । अव᳚ । य॒ज्ञेभिः᳚ । ई॒म॒हे॒ । ह॒विः॑भिः᳚ ।
क्षय᳚न् । अ॒स्मभ्य᳚म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति᳚ प्र॑चेतः । राज᳚न् । एनां᳚सि । शि॒श्र॒थः॒ । कृ॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवभृथेऽव ते हेळ इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश्चरित्वेति खंडे सूत्रितम् । अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर्नमस्कारैरवेमहे । अवनयामः । तथा यज्ञैः सांगानुष्ठानेन पूज्यैर्हविर्भिरवेमहे । वरुणं परितोष्य क्रोधमपनयामः । हे असुरानिष्वक्षेपणसील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुणास्मभ्यमस्मदर्थं क्षयन्नस्मिन्कर्मणि निवसन्कृतान्यस्माभिरनुष्ठितान्येनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छंदसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमंत्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमंत्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदंतः । छांदसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छंदसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥

1.24.15
उदु᳚त्त॒मं व᳚रुण॒ पाश᳚म॒स्मदवा᳚ध॒मं वि म᳚ध्य॒मं श्र᳚थाय ।
अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒ अदि᳚तये स्याम ॥
▶ पदपाठः (Word-by-word)
उत् । उ॒त्॑त॒मम् । व॒रु॒ण॒ । पाश᳚म् । अ॒स्मत् । अव᳚ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ᳚ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव᳚ । अना᳚गसः । अदि᳚तये । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण उत्तममुत्कृष्टं शिरसि बद्धं पाशमस्मदस्मत्त उच्छ्रथाय । उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशमव श्रथाय । अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय । वियुज्य शिथिलीकुरु । अथानंतरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपास्तव व्रते त्वदीये कर्मण्यदितये खंडनराहित्यायानागसोऽपराधरहिताः स्याम । भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेनाद्युदात्तत्वे प्राप्त उत्तमशश्वत्तमौ सर्वत्रेत्युंछादिषु पाठादंतोदात्तत्वम् (पा ६-१-१६०) अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते (उ ५-५४) इत्यवतेरमच् । वस्य धः । श्रथाय । श्रथ दौर्बल्ये । संहितायां छांदसो दीर्घः । तव । युष्मदस्मदोर्ङसीत्यद्युदात्तत्वम् । अनागसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ् सुभ्यामिति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस् शब्दादस्मायामेधेति (पा ५-२-१२१) मत्वर्थीयो विनिः । तस्य विन्मतोर्लुक् (पा ५-३-६५) इति लुक् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १५ ॥