श्रवणम्

1.24.14
अव᳚ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव᳚ य॒ज्ञेभि᳚रीमहे ह॒विर्भि᳚ः ।
क्षय᳚न्न॒स्मभ्य᳚मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚ । ते॒ । हेळः᳚ । व॒रु॒ण॒ । नमः᳚॑भिः । अव᳚ । य॒ज्ञेभिः᳚ । ई॒म॒हे॒ । ह॒विः॑भिः᳚ ।
क्षय᳚न् । अ॒स्मभ्य᳚म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति᳚ प्र॑चेतः । राज᳚न् । एनां᳚सि । शि॒श्र॒थः॒ । कृ॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवभृथेऽव ते हेळ इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश्चरित्वेति खंडे सूत्रितम् । अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर्नमस्कारैरवेमहे । अवनयामः । तथा यज्ञैः सांगानुष्ठानेन पूज्यैर्हविर्भिरवेमहे । वरुणं परितोष्य क्रोधमपनयामः । हे असुरानिष्वक्षेपणसील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुणास्मभ्यमस्मदर्थं क्षयन्नस्मिन्कर्मणि निवसन्कृतान्यस्माभिरनुष्ठितान्येनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छंदसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमंत्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमंत्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदंतः । छांदसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छंदसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥