ता स॒म्राजा᳚ घृ॒तासु᳚ती य॒ज्ञेय᳚ज्ञ॒ उप᳚स्तुता ।
अथै᳚नोः क्ष॒त्रं न कुत᳚श्च॒नाधृषे᳚ देव॒त्वं नू चि᳚दा॒धृषे᳚ ॥
पदपाठः (Word-by-word)
ता । स॒म्॑राजा᳚ । घृ॒तासु᳚ती॒ इति᳚ घृ॒त॑आ᳚सुती । य॒ज्ञे॑य᳚ज्ञे । उप᳚॑स्तुता ।
अथ᳚ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः᳚ । च॒न । आ॒॑धृषे᳚ । दे॒व॒॑त्वम् । नु । चि॒त् । आ॒॑धृषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेऋत्विजः मित्रावरुणाभ्यां ज्येष्ठंप्रशस्यं बृहत् महत् अतिप्रवृद्धंनमः नमस्कारोपलक्षितंस्तोत्रं- तदुपलक्षितंहविर्लक्षणमन्नंवा प्रभरतसंपादयत् नमइत्यन्ननाम नमः आयुरितितन्नामसुपाठात् किंच हव्यंहव्यांमतिंतत्प्रदानविषयांबुद्धिं भरत यद्वा मतिंपूज्यं हव्यंहविर्भरत पूर्वत्रपुरोडाशाद्यदनीयमन्नं इदानींतु सोमाज्यादिरूपं निपेयंहविरितिविवेकः कीदृशाभ्यांताभ्यां निचिराभ्यांनितरांचिरकाला- भ्यां नित्याभ्यामित्यर्थः प्रवाहरूपेणेतिभावः किंच मृळयद्भ्यां स्तुत्याहविः स्वीकारेणस्वयं मृडित्वा- यजमानमपिसुखयद्भां तथास्वादिष्ठंस्वादुतरंमृडयद्भ्यांहविःसुखयद्भ्यांभक्षयद्भ्यामित्यर्थः कस्तयोर्वि- शेषइतितत्राह—ता तौमित्रावरुणौसम्राजा सम्यग्राजमानौ राजतेःक्विप् मोराजिसमः क्वावितिसमो- मकारस्यमकारः घृतासुतीघृतमासूयते आदीयतेयाभ्यां तौ तादृशौ यद्वा घृतमुदकंवृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यांतौ एतयोरहोरात्राभिमानिदेवत्वादहोरात्रिद्वारावृष्ट्युत्पादकत्वात् अहोरा- त्रेवैमित्रावरुणावहोरात्राभ्यांखलुवैपर्जन्योवर्षतीतिश्रुतेः । वृष्ट्यनुज्ञाप्रदत्वंप्रसिद्धं किंच एतौयज्ञेयज्ञे सर्वेष्वपियज्ञेषुउपस्तुता सर्वैरृत्विग्भिःस्तूयमानौ गतिरनन्तरइतिगतेःप्रकृतिस्वरत्वं अथ अपिच एनोः एनयोः संज्ञापूर्वकस्यविधेरनित्यत्वादोसिचेतिगुणाभावे अतोगुणेइतिपररूपत्वं अथ अपिच एनोः एनयोः संज्ञापूर्वकस्यविधेरनित्यत्वादोसिचेतिगुणाभावे अतोगुणेइतिपररूपत्वं क्षत्रं बलं कुतश्चन कस्मादपिचशत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा नाधृषे आधर्षितुंनामशक्यं- नभवति कृत्यार्थेतवैकेनितिकेन्प्रत्ययः किंच तयोर्देवत्वं नूचित् देवभावोऽपिनाधृषेआधर्षणायोग्यः यद्वा पूर्वमिवेदानीमपि नूचिदिति निपातः पुराणनवयोरितियास्केनोक्तत्वात् आधृषे नकेनाप्यध- र्षणीयोभवति एतयोर्बलंनाधृष्यं किमुतद्देवत्वमितिभावः ॥ १ ॥