इन्द्र᳚म॒ग्निमुप᳚ स्तुहि द्यु॒क्षम᳚र्य॒मणं॒ भग᳚म् ।
ज्योग्जीव᳚न्तः प्र॒जया᳚ सचेमहि॒ सोम᳚स्यो॒ती स᳚चेमहि ॥
पदपाठः (Word-by-word)
इन्द्र᳚म् । अ॒ग्निम् । उप᳚ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण᳚म् । भग᳚म् ।
ज्योक् । जीव᳚न्तः । प्र॒॑जया᳚ । स॒चे॒म॒हि॒ । सोम᳚स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
दिवे द्योतमानाय सूर्यायनमोवोचं नमस्कारोपलक्षितं स्तोत्रंवोचंब्रवीमि स्तौमीत्यर्थः कीदृशाय- तस्मै बृहतेमहते बृहन्महतोरुपसंख्यानमितिविभक्तिरुदात्ता स्तुत्याय तथारोदसीभ्यां द्यावापृथिवी- भ्यां तदभिमानिदेवाभ्यांनमोवोचं तथामित्रायसर्वजनहिताय अहरभिमानिदेवाय नमोवोचं तद्वद्व- रुणाय आवरकाय रात्र्यभिमानिदेवाय तथामीह्ळुषे अभिमतफलस्य सेक्रेरुद्राय कीदृशायतस्मै सुमृ- ळीकायशोभनसुखयित्रे पुनःसएवविशेष्यते मीह्ळुषे सुमृडीकायेतिद्वेप्रत्येकविशॆषणभूते इदानीं यज- मानः ऋत्विजं स्वात्मानंवाप्रतिब्रवीति हेहोतःहेआत्मन्वा इन्द्रमग्निं द्युक्षंदीप्तिमन्तमर्यमणं भगंच उपउपेत्य बुद्भ्याप्राप्यस्तुहि स्तुतिंकुरु अस्मदनुग्रहात् ज्योक् चिरकालंजीवन्तोजीवनोपेतावयं प्रजयापुत्रभृत्यादिना सचेमहि संगताभूयास्म किंच सोमस्यइन्दोरूतीऊत्यासचेमही तमपिस्तुत्वा तत्कारितेनरक्षणेन सहिताभूयास्मेत्यर्थः ॥ ६ ॥