श्रवणम्

1.136.4
अ॒यं मि॒त्राय॒ वरु᳚णाय॒ शंत᳚म॒ः सोमो᳚ भूत्वव॒पाने॒ष्वाभ᳚गो दे॒वो दे॒वेष्वाभ᳚गः ।
तं दे॒वासो᳚ जुषेरत॒ विश्वे᳚ अ॒द्य स॒जोष᳚सः ।
तथा᳚ राजाना करथो॒ यदीम᳚ह॒ ऋता᳚वाना॒ यदीम᳚हे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मि॒त्राय᳚ । वरु᳚णाय । शम्॑त᳚मः । सोमः᳚ । भू॒तु॒ । अ॒व॒॑पाने᳚षु । आ॑भ᳚गः । दे॒वः । दे॒वेषु᳚ । आ॑भ᳚गः ।
तम् । दे॒वासः᳚ । जु॒षे॒र॒त॒ । विश्वे᳚ । अ॒द्य । स॒॑जोष᳚सः ।
तथा᳚ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम᳚हे । ऋत᳚॑वाना । यत् । ईम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमस्माभिर्हूयमानः सोमः मित्रायवरुणायच शंतमःपीयमानःसन् सुखतमोभूतुभवतु छान्दसः शपोलुक् भूसुवोस्तिङीतिगुणाभावः अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु आसर्वतः भगोभज- नीयः ताभ्यां किंच देवः दीप्यमानः देवेषु मित्रावरुणानुचरेष्वितरदेवेषु तैःआभगः आभजनीयः यद्वा देवेषुस्तोतृषु यजमानेषु मध्येदेवः दीप्यमानः तथा आभगः तैरेवासर्वतोभजनीयः किंच तंसोमं वि- श्वेसर्वे देवासोदेवाः अद्यास्मिन्नहनि जषेरतसेवन्ते छान्दसोझस्य रन्नादेशाभावः बहुलंछन्दसीतिरु- डागमः कीदृशास्ते सजोषसः समानप्रीतियुक्ताः तथाहेराजाना राजमानामित्रावरुणौ युवांकरथः कुरुतं सेवेथइत्यर्थः व्यत्ययेनशप् यद्यस्मात्कारणात् यदीमहे यत्प्राप्नुमस्तद्देवान्याचामहे ईङ्गतौदै- वादिकः छान्दसोविकरणस्यलुक् तस्माज्जुषेरत तथाऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ ईमहे अभिमतफलंतयोः पानंवायाचामहे ॥ ४ ॥