ऊ॒ती दे॒वानां᳚ व॒यमिन्द्र᳚वन्तो मंसी॒महि॒ स्वय᳚शसो म॒रुद्भि᳚ः ।
अ॒ग्निर्मि॒त्रो वरु᳚ण॒ः शर्म᳚ यंस॒न्तद᳚श्याम म॒घवा᳚नो व॒यं च᳚ ॥
अ॒ग्निर्मि॒त्रो वरु᳚ण॒ः शर्म᳚ यंस॒न्तद᳚श्याम म॒घवा᳚नो व॒यं च᳚ ॥
पदपाठः (Word-by-word)
ऊ॒ती । दे॒वाना᳚म् । व॒यम् । इन्द्र᳚॑वन्तः । मं॒सी॒महि᳚ । स्व॑य᳚शसः । म॒रुत्॑भिः᳚ ।
अ॒ग्निः । मि॒त्रः । वरु᳚णः । शर्म᳚ । यं॒स॒न्् । तत् । अ॒श्या॒म॒ । म॒घ॑वा᳚नः । व॒यम् । च॒ ॥
अ॒ग्निः । मि॒त्रः । वरु᳚णः । शर्म᳚ । यं॒स॒न्् । तत् । अ॒श्या॒म॒ । म॒घ॑वा᳚नः । व॒यम् । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रवन्तः प्रीतेनेन्द्रेणतद्वन्तोवयंदेवानां देवान् कर्मणिषष्ठी ऊती ऊत्या तर्पणेनहविरादिना मं- सीमहि मन्येमहि कीदृशावयं स्वयशसः स्वायत्तकीर्तयः मरुद्भिः स्तुत्याहृष्टैर्मरुद्देवैः अनुगृहीताः यद्वा देवानामूत्या रक्षणेन रक्षितामंसीमहिमन्तारोभवेम सामर्थ्यात्तेषामेवमहत्त्वस्य किंचाग्निमित्रा- वरुणादेवाः शर्मयंसन् अस्माकंसुखंप्रायच्छन् तंतंवरंमघवानोवयंचतैर्दत्तान्नवन्तःसन्तस्तत्सुखंअश्याम व्याप्नुयाम अश्नोतेराशिषिलिङि छन्दस्युभयथेति सार्वधातुकत्वात्सलोपः ॥ ७ ॥
वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थीश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणामा- त्येनविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेप्रथमोऽध्यायः ॥ १ ॥