प्रथमं मण्डलम् - सूक्तम् 23

24 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: वायुः छन्दः: गायत्री

सूक्तम् 1.23 - सम्पूर्णम्

1 / 24
ऋक्: 1.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
1.23.1
ती॒व्राः सोमा᳚स॒ आ ग᳚ह्या॒शीर्व᳚न्तः सु॒ता इ॒मे ।
वायो॒ तान्प्रस्थि᳚तान्पिब ॥
▶ पदपाठः (Word-by-word)
ती॒व्राः । सोमा᳚सः । आ । ग॒हि॒ । आ॒शीः॑व᳚न्तः । सु॒ताः । इ॒मे ।
वायो॒ इति᳚ । तान् । प्र॑स्थि᳚तान् । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो इमे सोमास ऐंद्रवायवग्रहादिरूपाः सोमाः सुता अभिषुताः । ते च तीव्राः प्रभूतत्वात्तर्पयितुं समर्था आशीर्वंत आशिरयुक्ताः । अतस्त्वमा गहि । अस्मिन्कर्मण्यागच्छ । प्रस्थितानुत्तरवेदिं प्रत्यानीतांस्तान्सोमान्पिब ॥ सोमासः । अर्तिस्त्वित्यादिना मन् । नित्त्वादाद्युदात्तः । अज्जसेरसुक् । गहि । मरुद्भिरग्न आ गहि । ऋग्वे १-१९-२ । इत्यत्रोक्तम् । आशीर्वंतः । श्रीञ् पाके अपस्पृधेथामित्यादिसूत्रे । पा । ६-१-३६ । आङ् पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीरेषामस्तीत्याशीर्वंतः । छंदसीर इति वत्वम् । वायो । आमंत्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेनाव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

1.23.2
उ॒भा दे॒वा दि᳚वि॒स्पृशे᳚न्द्रवा॒यू ह᳚वामहे ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒भा । दे॒वा । दि॒वि॒॑स्पृशा᳚ । इ॒न्द्र॒वा॒यू इति᳚ । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्त एव शस्त्र उभा देवा दिविस्पृशेति द्वे ऐंद्रवायवतृचस्य प्रथमाद्वितीये । तथा च द्वितीयस्येति खंडे सूत्रितम् । उभा देवा दिविस्पृशेति द्वे (आ ७-६) इति ॥

दिविस्पृशा द्युलोकवर्तिनावुभा देवा द्वौ देवाविंद्रवायू हवामहे । आह्वयामः । किमर्थम् । अस्य सोमस्य पीतये । असकृद्व्याख्यातं ॥ उभा देवा । सुपां सुलुगित्याकारः । दिविस्पृशा । हृद्युभ्यां ङेरुपसंख्यानम् । पा ६-३-९-१ । इति सप्तम्या अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्रवायू । इंद्रश्च वायुश्चेति द्वंद्वः । उभयत्र वायोः प्रतिषेधू वक्तव्यः । पा ६-३-२६-१ । इत्यानङो निषेधः । देवताद्वंद्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरत्वस्य नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति निषेधात्समासांतोदात्तत्वमेव शिष्यते । हवामहे । ह्वेञ् स्पर्धायां शब्दे च । बहुलं छंदसीति संप्रसारणम् । संप्रसारणाच्चेति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्याद्युदात्तत्वे प्राप्ते तिङ्ङतिङ इत्याष्टमिको निघातः । अस्य । ऊडिदमित्यादिना षष्ठ्या उदात्तत्वम् । पीतये । पा पाने । स्थागापापचः (पा ३-३-९५) इति भावे क्तिन् । घुमास्थेतीत्वम् । व्यत्ययेनांतोदात्तत्वं ॥ २ ॥

1.23.3
इ॒न्द्र॒वा॒यू म᳚नो॒जुवा॒ विप्रा᳚ हवन्त ऊ॒तये᳚ ।
स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्र॒वा॒यू इति᳚ । म॒नः॒॑जुवा᳚ । विप्राः᳚ । ह॒व॒न्ते॒ । ऊ॒तये᳚ ।
स॒ह॒स्र॒॑अ॒क्षा । धि॒यः । पती॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रा मेधाविन ऋत्विग्यजमाना ऊतये रक्षणार्थमिंद्रवायू हवंते । आह्वयंति । कीदृशौ । मनोजुवौ मन इव वेगवत्तरौ सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपींद्र एव सहस्राक्षस्तथापि च्छत्त्रिन्यायेन वायुरपि तथोच्यते । धियस्पती । कर्मणो बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवज्जवत इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुगित्याकारः । विप्राः । औणादिको रन् । रन्प्रत्ययांत आद्युदात्तः । ऊतये । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । सहस्राक्षा । सहस्रमक्षीणि ययोस्तौ । बहुव्रीहौ सक्थ्यक्ष्णोः (पा ५-४-११३) इति षच् समासांतः । बहुव्रीहिस्वरे प्राप्ते समासांतप्रत्ययस्य सति शिष्वत्वाच्चित इत्यंतोदात्तत्वम् । धियः । सावेकाच इति ङस उदात्तत्वम् । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सकारः । पती । डत्यंत आद्युदात्तः ॥ ३ ॥

1.23.4
मि॒त्रं व॒यं ह᳚वामहे॒ वरु᳚णं॒ सोम᳚पीतये ।
ज॒ज्ञा॒ना पू॒तद᳚क्षसा ॥
▶ पदपाठः (Word-by-word)
मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु᳚णम् । सोम᳚॑पीतये ।
ज॒ज्ञा॒ना । पू॒त॑द᳚क्षसा ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्विंशकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे मित्रं वयं हवामह इति तृचः षडहस्तोत्रियः । चतुर्विंश इति खंडे सूत्रितम् । आ नो मित्रावरुणा मित्रं वयं हवामहे (आ ७-२) इति ॥ अभिप्लवषडहेऽपि प्रातःसवने मैत्रावरुणस्यायं तृच आवापार्थः । अभिप्लवपृष्ठ्याहानीति खंडे सूत्रितम् । परिशिष्टानावापानुद्धृत्य मित्रं वयं हवामहे (आ ७-५) इति ॥ मैत्रावरुणस्य मित्रं वयं हवामह इत्येषा प्रातःसवने प्रस्धितयाज्या । प्रशास्ता ब्राह्मणाच्छंसीत्युपक्रम्येदं ते सौम्यं मधु मित्रं वयं हवामहे । आ । ५-५ । इति सूत्रितं ॥

वयमनुष्ठातारः सोमपीतये सोमपानार्थं मित्रं वरुणं चोभावाह्वयामः । कीदृशावुभौ । जज्ञाना कर्मप्रदेशे प्रादुर्भवंतौ पूतदक्षसा शुद्धबलौ ॥ वरुणम् । वृञ् वरणे । कृवृतृदारिभ्य उनन् (उ ३-५३) नित्त्वादाद्युदात्तः सोमपीतये । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । जनी प्रादुर्भावे । छंदसि लिट् (पा ३-२-१०५) तस्य लिटः कानज्वा (पा ३-२-१०६) इति कानजादेशः । गमहनेत्यादिना (पा ६-४-९८) उपधालोपः तस्याचः परस्मिन्निति स्थानिवद्भावाज्जनशब्दस्य द्विर्वचनम् । स्तोः श्चुनाश्चुः (पा ८-४-४०) इति नकारस्य ञकारः । चित इत्यंतोदात्तत्वम् । पूर्ववदाकारः । पूतदक्षसा । पूञ् पवने । निष्ठेति क्तः । श्र्युकः किति (पा ७-२-११) इतीट् प्रतिषेधः । पूतं दक्षो ययोस्तौ बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.23.5
ऋ॒तेन॒ यावृ᳚ता॒वृधा᳚वृ॒तस्य॒ ज्योति᳚ष॒स्पती᳚ ।
ता मि॒त्रावरु᳚णा हुवे ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । यौ । ऋ॒त॒॑वृधौ᳚ । ऋ॒तस्य᳚ । ज्योति᳚षः । पती॒ इति᳚ ।
ता । मि॒त्रावरु᳚णा । हु॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यौ मित्रावरुणावृतेन सत्यवचनेन यजमानानुग्रहकारिणा ऋतावृधौ । ऋतमवश्यं भावितया सत्यं कर्मफलं तस्य वर्धकौ । ऋतस्य सत्यस्य प्रशस्तस्य ज्योतिषः प्रकाशस्य पती पालकौ । श्रुत्यंतरे मित्रावरुणयोरदितिपुत्रत्वेन श्रुतत्वाद्द्वादशादित्येष्वंतर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यंतरे चाष्टौ पुत्रासो अदितेरित्युपक्रम्य मित्रश्च वरुणश्चेत्यादिकमाम्नातम् । तै । आ १-१३ २-३ । ता मित्रावरुणा तथाविधौ मित्रावरुणौ हुवे । आह्वयामि ॥ ऋतावृधौ । वृधु वृद्धौ । क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । द्युत दीप्तौ । द्युतेरिसिन्नादेश्च जः (उ २-१११) इतीसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वंद्वे चेत्यानङ् । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते बहुलं छंदसीति शपो लुक् । टेरेत्वम् । गुणे प्राप्ते क्ङिति च (पा १-१-५) इति प्रतिषेधः । उवङादेशः तिङ्ङतिङ इति निघातः ॥ ८ ॥ ५ ॥

1.23.6
वरु᳚णः प्रावि॒ता भु᳚वन्मि॒त्रो विश्वा᳚भिरू॒तिभि᳚ः ।
कर᳚तां नः सु॒राध᳚सः ॥
▶ पदपाठः (Word-by-word)
वरु᳚णः । प्र॒॑अ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
कर᳚ताम् । नः॒ । सु॒॑राध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं वरुणोऽस्माकं प्राविता भुवत् । प्रकर्षेण रक्षको भवतु । मित्रश्च विश्वाभिरूतिभिः सर्वाभी रक्षाभिः प्राविता भुवत् । तावुभावपि नोऽस्मान्सुराधसः प्रभूतधनयुक्तान्करताम् । कुरुतां ॥ अविता । तृचत्चित्त्वादंतोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । भू सत्तायाम् । लेटस्तिप् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् । गुणे प्राप्ते भूसुवोस्तिङि (पा ७-३-८८) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङ इति निघातः । विश्वाभिः अशिप्रुषीत्यादिना क्वनंतो विश्वशब्दः आद्युदात्तः । टाप्सुपोरनुदात्तत्वात्तदेव शिष्यते । ऊतिभिः । ऊतियूतीत्यादिना क्तिन्नुदात्तः । करताम् । कृञ् करणे । भौवादिकः लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोत्यनेनेति राधो धनम् । शोभनं राधो येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं प्राप्तं सोर्मनसी अलोमोषसी (पा ६-२-११७) इत्युत्ररपदाद्युदात्तत्वेन बाध्यते ॥ ६ ॥

1.23.7
म॒रुत्व᳚न्तं हवामह॒ इन्द्र॒मा सोम᳚पीतये ।
स॒जूर्ग॒णेन᳚ तृम्पतु ॥
▶ पदपाठः (Word-by-word)
म॒रुत्व᳚न्तम् । ह॒वा॒म॒हे॒ । इन्द्र᳚म् । आ । सोम᳚॑पीतये ।
स॒॑जूः । ग॒णेन᳚ । तृ॒म्प॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वंतं मरुद्भिर्युक्तमिंद्रं सोमपीतये सोमपानाया हवामहे । आह्वयामः । स चेंद्रो गणेन मरुत्समूहेन सजूः सह तृंपतु । तृप्तो भवतु ॥ मरुत्वंतम् । मरुतोऽस्य संतीति मरुत्वान् । झयः (पा ८-२-१०) इति मतुपो वत्वम् । तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञायां पदसंज्ञाया बाधितत्वाज्जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ह्रस्वनुड्भ्यां मतुप् (पा ६-१-१७६) इति मतुप उदात्तत्वेन भवितव्यं स्वरविधौ व्यंजनमविद्यमानवत् । परि ७९ । इति तकारस्याविद्यमानवत्त्वेन ह्रस्वात्परत्वात् । न । ह्रस्वनुड्भ्यामित्यत्र नुड्ग्रहणसामर्थ्यादविद्यमानपरिभाषा नाश्रीयत इति वृत्तावुक्तम् । का ६-१-१७६ । अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः । संपदादिलक्षणः क्विप् । समाना प्रीतिर्यस्येति बहुव्रीहिः । समानस्य छंदसीति सभावः । ससजुषो रुः (पा ८-२-६६) इति रुत्वम् । स र्वोरुपधायाः (पा ८-२-७६) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते त्रिचक्रादीनां छंदसि । पा ६-२-१९९-१ । इत्युत्तरपदांतोदात्तत्वम् । तृंपतु । तृप तृन्प तृप्तौ । तुदादिभ्यः शः । शे मुचादीनाम् । पा ७-१-५९ इति नुगागमः ॥७ ॥

1.23.8 समानपद
इन्द्र᳚ज्येष्ठा॒ मरु᳚द्गणा॒ देवा᳚स॒ः पूष᳚रातयः ।
विश्वे॒ मम᳚ श्रुता॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚॑ज्येष्ठाः । मरु᳚त्॑गणाः । देवा᳚सः । पूष᳚॑रातयः ।
विश्वे᳚ । मम᳚ । श्रु॒त॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवास इंद्रमरुद्रूपा विश्वे सर्वे यूयं मम हवमाह्वानं श्रुत । शृणुत । कीदृशाः । इंद्रज्येष्ठाः । इंद्रो ज्येष्ठो मुख्यो येषु ते । तथाविधा मरुद्गणाः मरुत्समूहरूपाः । पूषरातयः । पूषाख्यो देवो रातिर्दातायेषामिंद्रमरुतां ते पूषरातयः ॥ इंद्रज्येष्ठाः । आमंत्रिताद्युदात्तत्वम् । पादादित्त्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् (पा ८-१-७४) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । श्रु श्रवणे । लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् (पा ३-४-१०१) इति तादेशः । व्यत्ययेन शप् । बहुलं छंदसीति शपो लुक् । सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते क्ङिति चेति प्रतिषेधः । द्व्यचोऽतस्तिङ इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च । भावेऽनुपसर्गस्य (पा ३-३-७५) इत्यप् । संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते ॥ ८ ॥

1.23.9
ह॒त वृ॒त्रं सु᳚दानव॒ इन्द्रे᳚ण॒ सह᳚सा यु॒जा ।
मा नो᳚ दु॒ःशंस᳚ ईशत ॥
▶ पदपाठः (Word-by-word)
ह॒त । वृ॒त्रम् । सु॒॑दा॒न॒व॒ । इन्द्रे᳚ण । सह᳚सा । यु॒जा ।
मा । नः॒ । दुः॒॑शंसः᳚ । ई॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानयुक्ताः मरुद्गणाः सहसा बलवता युजा योग्येनेंद्रेण सह वृत्रं शत्रुं हत । नाशयत । दुःशंसो दुष्टेन शंसनेन कीर्तनेन युक्तोवृत्रो नोऽस्मान्प्रति मेशत । समर्थो मा भूत् ॥ हत । हन हिंसागत्योः लोटस्थ । तस्य त । अदिप्रभृतिभ्यः शप इति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । सुदानवः । डुदाञ् दाने । दाभाभ्यां नुः । उ ३ । ३२ । इत्यौणादिको नुप्रत्ययः । प्रादिसमास आमंत्रितनिघातः । युजा । युजिर् योगे । ऋत्विगित्यादिना क्विन् । सावेकाच इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ई षद्दुःसुष्विति खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । ईशत । ईश ऐश्वर्ये । माङि लुङि प्राप्ते छंदसि लुङ् लङ् लिट इति व्यत्ययेन लङ् । तस्य बहुलं छंदसीति शपो लुगभावः । न माङ्योग इत्याडागमाभावः । तिङ्ङतिङ इति निघातः ॥ ९ ॥

1.23.10
विश्वा᳚न्दे॒वान्ह᳚वामहे म॒रुत॒ः सोम᳚पीतये ।
उ॒ग्रा हि पृश्नि᳚मातरः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः᳚ । सोम᳚॑पीतये ।
उ॒ग्राः । हि । पृश्नि᳚॑मातरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो मरुत्संज्ञ कान्विश्वान्सर्वान्देवान्सोमपीतये हवामहे । सोमपानार्थमाह्वयामः । ते च मरुत उग्राः शत्रुभिरसह्यबलाः पृश्निमातरः पृश्नेर्नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः पृश्नेः पुत्राः । ऋग्वे ५-५८-५ । इति मंत्रांतरादवगंतव्या ॥ पृश्निमातरः । पृश्निर्माता येषां ते । पृश्निशब्दो घृणिः पृश्निरित्युणादावाद्युदात्तोनिपातितः (उ ४-५२) बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥

1.23.11
जय᳚तामिव तन्य॒तुर्म॒रुता᳚मेति धृष्णु॒या ।
यच्छुभं᳚ या॒थना᳚ नरः ॥
▶ पदपाठः (Word-by-word)
जय᳚ताम्॑इव । त॒न्य॒तुः । म॒रुता᳚म् । ए॒ति॒ । धृ॒ष्णु॒॑या ।
यत् । शुभ᳚म् । या॒थन᳚ । न॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतां देवानां तन्यतुः शब्दो धृष्णुयाधार्ष्ण्ययुक्तः सन्नेति । गच्छति । केषामिव । जयतां विजययुक्तानां शूराणां भटानामिव । हे नरो नेतारो मरुतो यूयं यद्यदा शुभं शोभनं देवयजनं याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । तनु विस्तारे । ऋतन्यंजीत्यादिना (उ ४-२) यतुच् प्रत्ययः । धृष्णुया ञिधृषा प्रागल्भ्ये । असिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) सुपां सुलुगिति सोर्याजादेशः । चित्त्वादंतोदात्तः । याथन । तप्तनप्तनथनाश्चेति थनादेशः । यच्छब्दयोगान्निघाताभावः ॥ ११ ॥

1.23.12
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो᳚ जा॒ता अ᳚वन्तु नः ।
म॒रुतो᳚ मृळयन्तु नः ॥
▶ पदपाठः (Word-by-word)
ह॒स्का॒रात् । वि॒॑द्युतः᳚ । परि᳚ । अतः᳚ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
म॒रुतः᳚ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हस्काराद्दीप्तिकराद्विद्युतो विशेषेण दीप्यमानादतोऽंतरिक्षात्परि जाताः सर्वत उत्पन्ना मरुतो नोऽस्मानवंतु । रक्षंतु । तथाविधा मरुतो नोऽस्मान्मृळयंतु । सुखयंतु ॥ हस्कारात् । हसे हसने । अत्र तु प्रकाशमात्रे वर्तते । अस्मात्संपदादिलक्षणः क्विप् । अस्मिन्नुपपदे डुकृञ् करण इत्यास्मात्कर्मण्यण् (पा ३-२-१) इत्यण् प्रत्यय ॥ तत्पुरुषे तुल्यार्थेत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकेत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमीत्यादिना (पा ८-३-४६) विसर्जनीयस्य सत्वं ॥ १२ ॥

1.23.13
आ पू᳚षञ्चि॒त्रब᳚र्हिष॒माघृ᳚णे ध॒रुणं᳚ दि॒वः ।
आजा᳚ न॒ष्टं यथा᳚ प॒शुम् ॥
▶ पदपाठः (Word-by-word)
आ । पू॒ष॒न् । चि॒त्र॑ब᳚र्हिषम् । आघृ᳚णे । ध॒रुण᳚म् । दि॒वः ।
आ । अ॒ज॒ । न॒ष्टम् । यथा᳚ । प॒शुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् चित्रबर्हिषं विचित्रैर्दर्भैयुक्तं धरुणं यागस्य धारकं सोमं दिव आ द्युलोकादा हरेति शेषः । पूषा विशेष्यते । आघृणे आगतदीप्तियुक्त । तत्र दृष्टांतः । हे अज गमनशील यथा लोके नष्टं पशुं महारण्यादावन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे । घृ क्षरणदीप्त्योरित्यास्माद्घृणिः पृश्निरिति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यमिति णत्वम् । प्रादिसमासः । आमंत्रिताद्युदात्तत्वम् । धरुणम् । धृञ् धारणे । अस्माण्यंताद्धातोरर्जेर्णिलुक्च (उ ३-५८) इत्युनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदमित्यादिना षष्ठ्या उदात्तत्वम् । अज । अज गतिक्षेपणयोः ॥ १३ ॥

1.23.14
पू॒षा राजा᳚न॒माघृ᳚णि॒रप᳚गूळ्हं॒ गुहा᳚ हि॒तम् ।
अवि᳚न्दच्चि॒त्रब᳚र्हिषम् ॥
▶ पदपाठः (Word-by-word)
पू॒षा । राजा᳚नम् । आघृ᳚णिः । अप᳚॑गूळ्हम् । गुहा᳚ । हि॒तम् ।
अवि᳚न्दत् । चि॒त्र॑ब᳚र्हिषम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आघृणिः पूषा राङानं सोममविंदत् । अलभत । कीदृशम् । अपगूळ्हमत्यंत गूढम् । तत्र हेतुः । गुहा हितं गुहासदृशे दुर्गमे द्युलोके स्थितम् । तथा चित्र बर्हिषं ॥ अपगूळ्हम् । गुहू संवरणे । निष्ठेति कर्मणि क्तः । हो ढः (पा ८-२-३१) इति ढत्वम् । झषस्तथोर्धोऽधः (पा ८-२-४०) इति धकारः । ष्वुत्वढलोपदीर्घाः । समासे गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । गुहा । सुपां सुलुगिति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥ १४ ॥

1.23.15
उ॒तो स मह्य॒मिन्दु᳚भि॒ः षड्यु॒क्ता{4} अ᳚नु॒सेषि᳚धत् ।
गोभि॒र्यवं॒ न च᳚र्कृषत् ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । सः । मह्य᳚म् । इन्दु᳚॑भिः । षट् । यु॒क्तान् । अ॒नु॒॑सेसि᳚धत् ।
गोभिः᳚ । यव᳚म् । न । च॒र्कृ॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपि च स पूषा मह्यम् । यजमानायेंदुभिर्यागहेतुभिः सोमैर्युक्तान् षड्वसंतादीनृतूननुसेषिधत् । अनुक्रमेण पुनःपुनर्नयन्वर्तत इति शेषः । तत्र डृष्टांतः । गोभिर्बलीवर्दैर्यवं न चर्कृषत् । नशब्द उपमार्धः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सशं पुनःपुनः कृषति तद्वत् । मह्यम् । ङयि च (पा ६-१-२१२) इत्याद्युदात्तत्वम् । इंदुभिः । उंदी क्लेदने । उंदेरिच्चादेः (उ १-१३) इत्युप्रत्ययः उकारस्येकारादेशश्च । निदित्यनुवृत्तेराद्युदात्तत्वम् । युक्तान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अनुसेषिधत् । षिधु गत्याम् । धातोरेकाचः (पा ३-१-२२) इति यङ् । यङोऽचि च (पा २-४-७४) इति तस्य लुक् । प्रत्ययलक्षणेन सन्यङोः (पा ६-१-९) इति द्विर्भावः । हलादिशेषः । गुणो यङ्लुकोः (पा ७-४-८२) इत्यभ्यासस्य गुणः । इण् कोः (पा ८-३-५७) इति षत्वम् । सनादित्वाद्धातुसंज्ञायां लटः शतृ । कर्तरि शप् । आदादिवच्चेति वचनात्तस्य लुक् । नाभ्यस्ताच्छतुः (पा ७-१-७८) इति नुम् प्रतिषेधः । प्रत्ययस्वरे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । गोभिः । सावेका च इति भिस उदात्तत्वे प्राप्ते न गोश्वन्निति प्रतिषेधः । चर्कृषत् । कृष विलेखने । यङ् लुकि द्विर्भावहलादिशेषचर्त्वानि । रुग्रिकौ च लुकि (पा ७-४-९१) इत्यभ्यासस्य रुगागमः । अस्माद्यङ् लुगंताल्लेटस्तिप् । इतश्च लोपः । लेटोऽडाटावित्यडागमः । अदिप्रभृतिध्यः शप इति शपो लुक् । लघूपधगुणे प्राप्ते नाभ्यस्तस्याचि पिति (पा ७-३-८३) इति निषेधः । तिङ्ङतिङ इति निघातः ॥ ११ ॥ १५ ॥

1.23.16
अ॒म्बयो᳚ य॒न्त्यध्व᳚भिर्जा॒मयो᳚ अध्वरीय॒ताम् ।
पृ॒ञ्च॒तीर्मधु᳚ना॒ पयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒म्बयः᳚ । य॒न्ति॒ । अध्व᳚॑भिः । जा॒मयः᳚ । अ॒ध्व॒रि॒॑य॒ताम् ।
पृ॒ञ्च॒तीः । मधु᳚ना । पयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपोनप्त्रीय एकधनासूपानीतासु स्वयमनुगच्छन्नंबय इति द्वे अनुब्रूयात् । तृतीययापो देवीरित्यनयैकधनासु हविर्धानं प्रविष्वासु स्वयमनुप्रविशेत् । तथैव सूत्रितम् । अंबयो यंत्यध्वभिरिति तिस्र उत्तमयानुप्रपद्येत (आ ५-१) इति ॥

अध्वरीयतामध्वरमात्मन इच्छतामस्माकमंबयो मातृस्थानीया अपः । तथा च कौषीतकिब्राह्मणे समाम्नायते । अंबयो यंत्यध्वभिरित्यापो वा अंबय इति । ता आपोऽध्वबिर्देवयजनमार्गैर्यंति । गच्छंति । कीदृश्य आपः । जामयो हितकारिण्यो बंधवः । तथा मधुना माधुर्यरसेन युक्तं पयः पृंचतीर्गवादिषु योजयंत्यः ॥ अंबयः । रबि लबि अबि शब्दे । एतस्मादच इः (उ ४-१३८) इति प्रकरणे बाहुलतादिः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च (उ ४-११५) इति क्वनिप् । पित्त्वात्प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । जमु अदने । बाहुलकादिः । अध्वरीयताम् । अध्वरशब्दात्सुप आत्मनः क्यजिति क्यच् । क्यचि चेतीत्वम् । अपुत्रादीनामिति वक्तव्यम् (म ७-४-३५) इति वचनान्न छंदस्यपुत्रस्येतीत्वनिषेधाभावः । सर्वे विधयश्छंदसि विकल्प्यंत इति कव्यध्वरपृतनस्य (पा ७-४-३९) इत्यकारलोपोपि न भवति । क्यच्प्रत्ययांतधातोर्लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । एकादेश उदात्तेनोदात्त इत्यतोदात्तत्वे सति शतुरनुमो नद्यजादी इति षष्ठ्या उदात्तत्वम् । पृंचतीः । पृचीसंपर्के । लटः शतृ । रुधादिभ्यः श्नम् । श्नसोरल्लोपः । अनुस्वारपरसवर्णौ । उगितश्चेति ङीप् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । शतुरनुम इति ङीप उदात्तत्वं ॥ १६ ॥

1.23.17
अ॒मूर्या उप॒ सूर्ये॒ याभि᳚र्वा॒ सूर्य᳚ः स॒ह ।
ता नो᳚ हिन्वन्त्वध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
अ॒मूः । याः । उप᳚ । सूर्ये᳚ । याभिः᳚ । वा॒ । सूर्यः᳚ । स॒ह ।
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

या अमूरापः सूर्य उप समीपेनावस्थिताः । आपः सूर्ये समाहिता इति श्रुत्यंतरात् । वाथवा सूर्यो याभिरद्भिः सह वर्तते । पूर्वत्रापां प्रधान्यमुत्तरत्र सूर्यस्येति विशेषः । तास्तादृश्य आपो नोऽस्मदीयमध्वरं यागं हिन्वंतु । प्रीणयंतु ॥ याभिः । सावेकाच इति विभक्त्युदात्तस्यन गोश्वन्साववर्णेति प्रतिषेधः । शेषा तु प्रक्रिया स्पष्टा ॥ १७ ॥

1.23.18
अ॒पो दे॒वीरुप᳚ ह्वये॒ यत्र॒ गाव॒ः पिब᳚न्ति नः ।
सिन्धु᳚भ्य॒ः कर्त्वं᳚ ह॒विः ॥
▶ पदपाठः (Word-by-word)
अ॒पः । दे॒वीः । उप᳚ । ह्व॒ये॒ । यत्र᳚ । गावः᳚ । पिब᳚न्ति । नः॒ ।
सिन्धु᳚॑भ्यः । कर्त्व᳚म् । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मदीया गावो यत्र यास्वप्सु पिबंति पानं कुर्वंति ता आपो देवीरुप ह्वये । आह्वयामि । सिंधुभ्यः स्यंदनशीलाभ्योऽद्भ्यो देवताभ्यो हविः कर्त्वम् । अस्माभिः कर्तव्यं ॥ अपः । ऊडिदमित्यादिना शस उदात्तत्वम् । पिबंति । प्राघ्रेत्यादिना । पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वं ॥ निपातैर्यद्यदीत्यादिना निघाताभावः । कर्त्वम् । डुकृञ् करणे । कृत्यार्थे तवैकेन्केन्यत्वनः (पा ३-४-१४) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्सर्वेणाद्युदात्तत्वं ॥ १८ ॥

1.23.19
अ॒प्स्व१॒᳚न्तर॒मृत᳚म॒प्सु भे᳚ष॒जम॒पामु॒त प्रश᳚स्तये ।
देवा॒ भव᳚त वा॒जिनः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । अ॒न्तः । अ॒मृत᳚म् । अ॒प्॑सु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्र॑श᳚स्तये ।
देवाः᳚ । भव᳚त । वा॒जिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्सु जलेष्वंतर्मध्येऽमृतं पीयूषं वर्तते । तस्याब्विकारत्वात् । अमृतं वा अप इति श्रुत्यंतराच्च । तथैवाप्सु भेषजमौषधं वर्तते । क्षुद्रोगनिवर्तकस्यान्नस्याप्ककार्यत्वात् । उतापि च तादृशीनामपां देवतानां प्रशस्तये प्रशंसार्थं हे देवा ऋत्विजादयो ब्राह्मणाः । एते वै देवाः प्रत्यक्षं यद्ब्राह्मणा इति श्रुत्यंतरात् । वाजिनो वेगवंतो भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदमित्यादिना सप्तम्या उदात्तत्वम् । संहितायामुदात्तस्वरितयोर्यणः स्वरित इति स्वरितत्वम् । अमृतम् । नञो जरमरमित्रमृताः (पा ६-२-११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । तादौ च निति (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । भवत । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानवत्त्वेन पादादित्वान्ननिघातः ॥ १९ ॥

1.23.20
अ॒प्सु मे॒ सोमो᳚ अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा ।
अ॒ग्निं च᳚ वि॒श्वश᳚म्भुव॒माप᳚श्च वि॒श्वभे᳚षजीः ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । मे॒ । सोमः᳚ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा᳚नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्व॑श᳚म्भुवम् । आपः᳚ । च॒ । वि॒श्व॑भे᳚षजीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कारीर्यामुत्तरस्याज्यभागस्याप्सु म इत्येषानुवाक्या । वर्षकामेष्टिरिति खंडेऽप्स्वग्ने सधिष्टवाप्सु मे सोमो अब्रवीत् (आ २-१३) इति सूत्रितं ॥

अप्सु जलेष्टंतर्मध्ये विश्वानि भेषजा सर्वाण्यौषधानि संतीति मे मह्यं मंत्रदर्शिने मुनये सोमो देवोऽब्रवीत् । तथा विश्वशंभुवं सर्वस्य जगतः सुखकरमेतन्नामकं चाग्निं चाप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तरीया अग्नेस्त्रयो ज्यायांस इत्यनुवाके सोऽपः प्राविशदित्यग्नेरप्सु प्रवेशमामनंति । तै सं २-६-६-१ । लतागुल्मवृक्षमूलादीनामौषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । विश्वभेषजीः । विश्वानि भेषजानि यासु तथाविधा अपोऽप्यब्रवीत् ॥ भेषजा । सुपां सुलुगित्याकारः । विश्वशंभुवम् । भवतेरंतर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । बहुव्रीहौ विश्वं संज्ञायाम् (पा ६-२-१०६) इति पूर्वपदांतोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अप्तृन्नित्यादिनोपधादीर्घः । विश्वभेषजीः । विश्वशंभुरितिवत् ॥ ११ ॥ २० ॥

1.23.21
आपः᳚ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॒᳚ मम᳚ ।
ज्योक्च॒ सूर्यं᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । पृ॒णी॒त । भे॒ष॒जम् । वरू᳚थम् । त॒न्वे᳚ । मम᳚ ।
ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आपो मम तन्वे शरीरार्थं वरूथं रोगनिवारकं भेषजमौषधं पृणीत । पूरयत । किंच ज्योक् चिरं सूर्यं दृशे द्रष्टुं निरोगा वयं शक्नुवामेति शेषः ॥ पृणीत । पृ पालनपूरणयोः । लोण्मध्यमबहुवचनं थ । तस्य तस्थस्थमिपामिति तादेशः । क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वः । ई हल्यघोरितीत्वम् । ऋवर्णाच्चेति णत्वम् । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति तिङः स्वरः शिष्यते । आप इत्यस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे पादादित्वान्निघाताभावः । वरूथम् । वृञ् वरणे । जृवृञ् भ्यामूथन् (उ २-६) नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च (पा १-४-६) इति नदीसंज्ञा पाक्षिकीत्याडागमाभावः । उदात्तयणो हल्पूर्वादिति विभक्त्युदात्तत्वे प्राप्ते । व्यत्ययेनोदात्त स्वरितयोरिति स्वरितत्वम् । दृशे । दृशे विृख्ये च (पा ३-४-११) इति तुमर्थे निपात्यते ॥ २१ ॥

1.23.22 समानपद
इ॒दमा᳚प॒ः प्र व᳚हत॒ यत्किं च᳚ दुरि॒तं मयि᳚ ।
यद्वा॒हम᳚भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ᳚तम् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒॑इ॒तम् । मयि᳚ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒॑दु॒द्रोह᳚ । यत् । वा॒ । शे॒पे । उ॒त । अनृ᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पशौ मार्जन इदमापः प्र वहतेत्येषा विनियुक्ता । हुतायां वपायामिति खंडे सूत्रितम् । इदमापः प्रवहत (आ ३-५) इति ॥ एषैवावभृथेष्टौ स्नाने विनियुक्ता । पत्नीसंयाजैश्चरित्वेति खंड इदमापः प्रवहत सुमित्र्या न आप ओषधयः संतु (आ ६-१३) इति सूत्रितं ॥

मयि यजमाने यत्किं च दुरितमज्ञानान्निष्टन्नम् । वाथवाहं यजमाजनं शप्तवानस्मीति यदस्ति । उतापि चानृतमुक्तवानिति यदस्ति । तदिदं सर्वमपराधजातं प्रवहत । मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यंतस्य त्वमावेकवचन इति मादेशे कृतेऽतो गुण इति पररूपे च सति योऽचेति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात्परस्याकारस्योदात्तत्वम् । दुद्रोह । द्रुह जिघांसायाम् । णलि गुणे द्विर्वचन ह्रस्व हलादिशेषाः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगान्निघाताभावः । शेषे । शप आक्रोशे । लिट व्यत्ययेन तङ् । उत्तमैकवचनमिट् । टेरेत्वम् । अत एकहल्मध्ये (पा ६-४-१२०) इत्येत्वाभ्यासलोपौ । प्रत्ययस्वरेणांतोदात्तत्वम् । पूर्ववन्निघाताभावः ॥

1.23.23
आपो᳚ अ॒द्यान्व᳚चारिषं॒ रसे᳚न॒ सम᳚गस्महि ।
पय᳚स्वानग्न॒ आ ग᳚हि॒ तं मा॒ सं सृ᳚ज॒ वर्च᳚सा ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । अ॒द्य । अनु᳚ । अ॒चा॒रि॒ष॒म् । रसे᳚न । सम् । अ॒ग॒स्म॒हि॒ ।
पय᳚स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

पशावाहवनीयोपस्थान आपो अद्यान्वचारिषमित्येषा । मनोतायै संप्रेषित इति खंडे सूत्रितम् । एत्योपतिष्ठंत आपो अद्यान्वचारिषम् (आ ३-६) इति ॥

अद्यास्मिन्दनेऽवभृथार्थमापोऽन्वचारिषम् । जलान्यनुप्रविष्टोऽस्मि । प्रविश्श च रसेन जलसारेण समगस्महि । संगताः स्मः । हे अग्ने पयस्वान् जले वर्तमानत्वेन पयोयुकस्त्वमा गहि । अस्मिन्कर्मण्यागच्छ । तं मा तादृशं स्नातं मां वर्चसा तेजसा सं सृज । संयोजय ॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । अर्धधातुकस्येड्वलादेः (पा ७-२-३५) इतीट् । नेट (पा ७-२-४) इति वृद्धिप्रतिषेधेप्राप्ते तदपवादतयातो ल्रांतस्य (पा ७-२-२) इत्युपधाया वृद्धिः । अगस्महि । समो गम्यृच्छीत्यात्मनेपदम् (पा १-३-२९) च्लेः सिच् । मंत्रे घसेत्यादिना च्लेर्लुगभावश्भांदसः । एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । वा गमः (पा १-२-१३) इति सिचः कित्त्वादनुदात्तोपदेशेत्यादिदानुनासिकलोपः । गहि । लोट गमेः सिपो हिः । अपित्वेन ङित्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अतो हेरिति लुग्न भवति । असिद्धवदत्राभादिति मलोपस्यासिद्धत्वात् ॥

1.23.24
सं मा᳚ग्ने॒ वर्च᳚सा सृज॒ सं प्र॒जया॒ समायु᳚षा ।
वि॒द्युर्मे᳚ अस्य दे॒वा इन्द्रो᳚ विद्यात्स॒ह ऋषि᳚भिः ॥
▶ पदपाठः (Word-by-word)
सम् । मा॒ । अ॒ग्ने॒ । वर्च᳚सा । सृ॒ज॒ । सम् । प्र॒॑जया᳚ । सम् । आयु᳚षा ।
वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः᳚ । वि॒द्या॒त् । स॒ह । ऋषि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वर्चः प्रजायुर्भिर्मां संयोजय । देवाः सोमपातारोऽस्य मे यजमानस्य विद्यु ॥ अनुष्ठानं जानीयुः । किंच इंद्रश्च ऋषिगणैः सह ममानुष्ठानं विद्यात् । जानीयात् ॥ विद्युः । विद ज्ञाने । लिङि झेर्जुस् (पा ३-४-१०८) यासुट् । लिङः सलोपः (पा ७-२-७९) इति सकारलोपः । उस्यपदांतात् (पा ६-१-९६) इति पररूपत्वम् । यासुट उदात्तत्वेनैकादेश उकारोऽप्युदात्तः ॥ अस्य । इदमोऽन्वादेश इत्यशनुदात्तः । विभक्तिरपि सुप्त्वेनानुदात्ता । सह ऋषिभिरित्यत्र ऋत्यकः (पा ६-१-१२८) इति प्रकृतिभावः ॥ १२ ॥ ५ ॥ २४ ॥