श्रवणम्

1.23.17
अ॒मूर्या उप॒ सूर्ये॒ याभि᳚र्वा॒ सूर्य᳚ः स॒ह ।
ता नो᳚ हिन्वन्त्वध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
अ॒मूः । याः । उप᳚ । सूर्ये᳚ । याभिः᳚ । वा॒ । सूर्यः᳚ । स॒ह ।
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

या अमूरापः सूर्य उप समीपेनावस्थिताः । आपः सूर्ये समाहिता इति श्रुत्यंतरात् । वाथवा सूर्यो याभिरद्भिः सह वर्तते । पूर्वत्रापां प्रधान्यमुत्तरत्र सूर्यस्येति विशेषः । तास्तादृश्य आपो नोऽस्मदीयमध्वरं यागं हिन्वंतु । प्रीणयंतु ॥ याभिः । सावेकाच इति विभक्त्युदात्तस्यन गोश्वन्साववर्णेति प्रतिषेधः । शेषा तु प्रक्रिया स्पष्टा ॥ १७ ॥