श्रवणम्

1.23.10
विश्वा᳚न्दे॒वान्ह᳚वामहे म॒रुत॒ः सोम᳚पीतये ।
उ॒ग्रा हि पृश्नि᳚मातरः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः᳚ । सोम᳚॑पीतये ।
उ॒ग्राः । हि । पृश्नि᳚॑मातरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो मरुत्संज्ञ कान्विश्वान्सर्वान्देवान्सोमपीतये हवामहे । सोमपानार्थमाह्वयामः । ते च मरुत उग्राः शत्रुभिरसह्यबलाः पृश्निमातरः पृश्नेर्नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः पृश्नेः पुत्राः । ऋग्वे ५-५८-५ । इति मंत्रांतरादवगंतव्या ॥ पृश्निमातरः । पृश्निर्माता येषां ते । पृश्निशब्दो घृणिः पृश्निरित्युणादावाद्युदात्तोनिपातितः (उ ४-५२) बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥