श्रवणम्

1.23.11
जय᳚तामिव तन्य॒तुर्म॒रुता᳚मेति धृष्णु॒या ।
यच्छुभं᳚ या॒थना᳚ नरः ॥
▶ पदपाठः (Word-by-word)
जय᳚ताम्॑इव । त॒न्य॒तुः । म॒रुता᳚म् । ए॒ति॒ । धृ॒ष्णु॒॑या ।
यत् । शुभ᳚म् । या॒थन᳚ । न॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतां देवानां तन्यतुः शब्दो धृष्णुयाधार्ष्ण्ययुक्तः सन्नेति । गच्छति । केषामिव । जयतां विजययुक्तानां शूराणां भटानामिव । हे नरो नेतारो मरुतो यूयं यद्यदा शुभं शोभनं देवयजनं याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । तनु विस्तारे । ऋतन्यंजीत्यादिना (उ ४-२) यतुच् प्रत्ययः । धृष्णुया ञिधृषा प्रागल्भ्ये । असिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) सुपां सुलुगिति सोर्याजादेशः । चित्त्वादंतोदात्तः । याथन । तप्तनप्तनथनाश्चेति थनादेशः । यच्छब्दयोगान्निघाताभावः ॥ ११ ॥