पू॒षा राजा᳚न॒माघृ᳚णि॒रप᳚गूळ्हं॒ गुहा᳚ हि॒तम् ।
अवि᳚न्दच्चि॒त्रब᳚र्हिषम् ॥
अवि᳚न्दच्चि॒त्रब᳚र्हिषम् ॥
पदपाठः (Word-by-word)
पू॒षा । राजा᳚नम् । आघृ᳚णिः । अप᳚॑गूळ्हम् । गुहा᳚ । हि॒तम् ।
अवि᳚न्दत् । चि॒त्र॑ब᳚र्हिषम् ॥
अवि᳚न्दत् । चि॒त्र॑ब᳚र्हिषम् ॥
सायणभाष्यम् (Sayana Commentary)
आघृणिः पूषा राङानं सोममविंदत् । अलभत । कीदृशम् । अपगूळ्हमत्यंत गूढम् । तत्र हेतुः । गुहा हितं गुहासदृशे दुर्गमे द्युलोके स्थितम् । तथा चित्र बर्हिषं ॥ अपगूळ्हम् । गुहू संवरणे । निष्ठेति कर्मणि क्तः । हो ढः (पा ८-२-३१) इति ढत्वम् । झषस्तथोर्धोऽधः (पा ८-२-४०) इति धकारः । ष्वुत्वढलोपदीर्घाः । समासे गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । गुहा । सुपां सुलुगिति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥ १४ ॥