प्रथमं मण्डलम् - सूक्तम् 39

10 ऋचः

ऋषिः: कण्वो घौरः देवता: मरुतः छन्दः: बृहती

सूक्तम् 1.39 - सम्पूर्णम्

1 / 10
ऋक्: 1.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.39.1
प्र यदि॒त्था प᳚रा॒वतः᳚ शो॒चिर्न मान॒मस्य᳚थ ।
कस्य॒ क्रत्वा᳚ मरुत॒ः कस्य॒ वर्प᳚सा॒ कं या᳚थ॒ कं ह᳚ धूतयः ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । इ॒त्था । प॒रा॒॑वतः᳚ । शो॒चिः । न । मान᳚म् । अस्य᳚थ ।
कस्य᳚ । क्रत्वा᳚ । म॒रु॒तः॒ । कस्य᳚ । वर्प᳚सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धूतयः स्थावरादीनां कंपनकारिणो मरुतो यद्यदा मानं मननीयं युष्मद्बलं परावतो दूरात् । आरे परावत इति दूरनामसु पाठात् । इत्थास्मादंतरिक्षात्प्रास्यथ भूमौ प्रक्षिपथ । तत्र दृष्टांतः । शोचिर्न तेज इव । यथा सूर्यस्य तेजोंऽतरिक्षाद्भूमौ प्रक्षिप्यते तद्वत् । तदानीं यूयं कस्य यजमानस्य क्रत्वा क्रतुना संगच्छध्व इति शेषः । तथा कस्य यजमानस्य वर्पसा स्तोत्रेण संगच्छध्वे । कं यजमानमुद्धिश्य याथ । देवयजनदेसे गच्छथ । कं ह कं खलु यजमानमनुगृहीथेति शेषः ॥ इत्था । था हेतौ च च्छंदसि । पा । सू । ५-३-२६ । इतीदंशब्दात्प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दस्य नानुवृत्तिस्तर्हि थमुप्रत्ययांतादिदंशब्दादुत्तरस्या विभक्तेर्व्यत्ययेन सुपां सुलुगिति डादेशः । प्रथमपक्षे प्रत्ययस्वरः । द्वितीयपक्षे तूदात्तनिवृत्तिस्वरः । अस्यथ । असुक्षेपणे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । क्रत्वा । जसादिषु च्छंदसि वा वचनम् । पा सू ७-३-१०९-१ । इति नाभावस्य विकल्पितत्वादभावः । वर्पसा । वृङ् संभक्तौ । वृङ् शीङ् भ्यां रूपस्वांगयोः पुक्च (उ ४-२००) इत्यसुन् । तत्सन्नियोगेन पुगागमश्च । नित्त्वादाद्युदात्तत्वम् । अत्र रूपाभिधायिना वर्पस् शब्देन देवतास्वरूपप्रकाशकं स्तोत्रं लक्ष्यते, क्रतुना साहचर्यात् ॥ १ ॥

1.39.2
स्थि॒रा वः᳚ स॒न्त्वायु᳚धा परा॒णुदे᳚ वी॒ळू उ॒त प्र᳚ति॒ष्कभे᳚ ।
यु॒ष्माक᳚मस्तु॒ तवि᳚षी॒ पनी᳚यसी॒ मा मर्त्य᳚स्य मा॒यिनः᳚ ॥
▶ पदपाठः (Word-by-word)
स्थि॒रा । वः॒ । स॒न्तु॒ । आयु᳚धा । प॒रा॒॑नुदे᳚ । वी॒ळु । उ॒त । प्र॒ति॒॑स्कभे᳚ ।
यु॒ष्माक᳚म् । अ॒स्तु॒ । तवि᳚षी । पनी᳚यसी । मा । मर्त्य᳚स्य । मा॒यिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो व आयुधा युष्माकमायुधानि पराणुदे शत्रूणामपनोदनाय स्थिरा संतु स्थिराणि भवंतु । उतापि च प्रतिष्कभे शत्रूणां प्रतिबंधाय वीळु संतु । दृढानि संतु । युष्माकं तविषी बलं पनीयसी अतिशयेन स्तोतव्यं भवतु । मायिनोऽस्मासु च्छद्मचारिणो मर्त्यस्य मनुष्यस्य शत्रोर्मा । बलं मा भवतु ॥ स्थिरा । आयुधा । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । पराणुदे । णुद प्रेरणे । संपदादिलक्षणः क्विप् । उपसर्गादसमासेऽपि (पा ८-४-१४) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वीळु । सुपां सुलुगिति विभक्तेर्लुक् । ईषाअक्षादित्वात्प्रकृतिभावः । पा ६-१-१२७-२ । प्रतिष्कुभे । स्कन्भुः सौत्रो धातुः । संपदादिलक्षणो भावे क्विप् । अनिदितामिति नलोपः । पनीयसी । पनतिः स्तुत्यर्थः । अस्मादौणादिकः कर्मण्यसुन् । तत ईयसुनि टीरिति टलोपः । उगितश्चेति ङीप् । ईयसुनो नित्त्वादाद्युदात्तत्वम् । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्चेति मत्वर्थीय इनिः ॥ २ ॥

1.39.3
परा᳚ ह॒ यत्स्थि॒रं ह॒थ नरो᳚ व॒र्तय᳚था गु॒रु ।
वि या᳚थन व॒निनः᳚ पृथि॒व्या व्याशा॒ः पर्व᳚तानाम् ॥
▶ पदपाठः (Word-by-word)
परा᳚ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः᳚ । व॒र्तय᳚थ । गु॒रु ।
वि । या॒थ॒न॒ । व॒निनः᳚ । पृ॒थि॒व्याः । वि । आशाः᳚ । पर्व᳚तानाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो नेतारो मरुतो यद्यदा स्थिरं वसु पराहथ वृक्षादिकं पराहतं भग्नं कुरुथ । गुरु पाषाणादिकं गुरुत्वोपेतं वर्तयथ प्रेरयथ । तदानीं पृथिव्याः संबंधिनो वनिनो वनवतो वृक्षान्वियाथन । वियुज्य मध्ये गच्छथ । अरण्यगतानां निबिडानां वृक्षाणां मध्ये यस्य कस्यापि वृक्षस्य भग्नत्वादितरवृक्षाणां परस्परवियोगेन प्रौढो मार्गो भवति । तथा पर्वतानामाशाः पर्वतपार्श्वदिशो वियाथन । वियुज्य गच्चथ ॥ पथ ॥ हन हिंसागत्योः अनुदात्तोपदेशेत्यादिना अनुनासिकलोपः । यद्वृत्तयोगादनिघातः । नरः पादादित्वादामंत्रितनिघाताभावः । वर्तयथ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिचः स्वर एव शिष्यते । यच्छब्धानुषंगान्निघाताभावः । याथन । तप्तनप्तनथनाश्चेति थनादेशः ॥ ३ ॥

1.39.4
न॒हि व॒ः शत्रु᳚र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां᳚ रिशादसः ।
यु॒ष्माक᳚मस्तु॒ तवि᳚षी॒ तना᳚ यु॒जा रुद्रा᳚सो॒ नू चि᳚दा॒धृषे᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । वः॒ । शत्रुः᳚ । वि॒वि॒दे । अधि᳚ । द्यवि᳚ । न । भूम्या᳚म् । रि॒शा॒द॒सः॒ ।
यु॒ष्माक᳚म् । अ॒स्तु॒ । तवि᳚षी । तना᳚ । यु॒जा । रुद्रा᳚सः । नु । चि॒त् । आ॒॑धृषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रिशादसः शत्रुहिंसका मरुतोऽधिद्यवि द्युलोकस्योपरि वो युष्माकं शत्रुर्नहि विविदे । न च बभूव । तथा भूम्यामपि शत्रुर्न बभूव । हे रुद्रासो रुद्रपुत्रा मरुतो युष्माकमेकोनपंचाशत्संख्यानां भवतां युजा योगेन परस्परैकमत्येनाधृषे वैरिणां सर्वतो धर्षणाय तविषी बलं नू चित् क्षिप्रमेव तनास्तु । विस्तृता भवतु ॥ विविधे । विद सत्तायां लिट प्रत्ययस्वरः । द्यवि नहि विविदे भूम्यां च न विविद इति चशब्दार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । प्राथम्यं चानुषक्तक्रियापेक्षया । रिशादसः । रिश हिंसायाम् । रिशंति हिंसंतीति रिशाः । इगुपधलक्षणः कः तानदंतीति रिशादसः । असुन् । आमंत्रितनिघातः । युजा । युजिर् योगे । ऋत्विगित्यादिना क्विन् । सावेकाच इति विभक्तेरुदात्तत्वम् । रुद्रासः । रुद्रशब्देन तत्संबंधिनो मरुतो लक्ष्यंते । आज्जसेरसुक् । नू चित् । ऋचि तुनुघेत्यादिना दीर्घः । आधृषे । ञिधृषा प्रागल्भ्ये । संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.39.5
प्र वे᳚पयन्ति॒ पर्व᳚ता॒न्वि वि᳚ञ्चन्ति॒ वन॒स्पती᳚न् ।
प्रो आ᳚रत मरुतो दु॒र्मदा᳚ इव॒ देवा᳚स॒ः सर्व᳚या वि॒शा ॥
▶ पदपाठः (Word-by-word)
प्र । वे॒प॒य॒न्ति॒ । पर्व᳚तान् । वि । वि॒ञ्च॒न्ति॒ । वन॒स्पती᳚न् ।
प्रो इति᳚ । आ॒र॒त॒ । म॒रु॒तः॒ । दु॒र्मदाः᳚॑इव । देवा᳚सः । सर्व᳚या । वि॒शा ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतान् मेरुहिमवदादीन् प्रवेपयंति । मरुतः प्रकर्षेण कंपयंति । वनस्पतीन् । वटांश्चाश्वत्थादींश्च विंचंति । परस्परवियुक्तान्कुर्वंति । हे मरुतो देवासो देवां सर्वयां विशा प्रजया सहिता यूयं फ्रो आरत । प्रकर्षेणैव सर्वतो गच्छत । तत्र दृष्टांतः । दुर्मदा इव । यथा मदोन्मत्ताः स्वेच्छया सर्वतः क्रीडंति तद्वत् ॥ वेपयंति । टुवेपृ कंपने । वेपमानान् प्रयुंजते । हेतुमण्णिच् । विंचंति विचिर् पृथग्भावे । रुधादित्वात् श्नम् । श्नसोरल्पोप इत्यकारलोपः । वनस्पतीन् । वनानां पतयो वनस्पतयः । पारस्करादित्वात्सुट् । वनस्पतिशब्दावाद्युदात्तौ । उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । आरत । ऋ गतौ । लङि मध्यमबहुवचने बहुलं छंदसीति शपो लुगभावः । यद्वा लुङ् । सर्तिशास्त्यर्तिभ्यश्च (पा ३-१-५६) इत्यङ् । आडजादीनामित्याडागमः । आटश्च (पा ६-१-९०) इति वृद्धिः । देवासः । अमंत्रिताद्युदात्तत्वम् । सर्वया । सर्वस्य सुपि (पा ६-१-१९१) इत्याद्युदात्तत्वम् । विशा । सावेकाच इति विभक्तेरुदात्तत्वं ॥ १८ ॥ ५ ॥

1.39.6
उपो॒ रथे᳚षु॒ पृष᳚तीरयुग्ध्वं॒ प्रष्टि᳚र्वहति॒ रोहि᳚तः ।
आ वो॒ यामा᳚य पृथि॒वी चि᳚दश्रो॒दबी᳚भयन्त॒ मानु᳚षाः ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । रथे᳚षु । पृष᳚तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः᳚ । व॒ह॒ति॒ । रोहि᳚तः ।
आ । वः॒ । यामा᳚य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी᳚भयन्त । मानु᳚षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो रथेषु भवदीयेषु पृषतीर्बिंदुयुक्ता मृगीरुपो सामीप्येनैवायुग्ध्वम् । योजितवंतः । प्रष्विरेतत्संज्ञको वाहनत्रयमध्यवर्ती मृगविशेषो रोहितो मृगावांतरजाशिर्लोहितवर्णो वहति । रथं नयति । वो युष्माकं यामाय गमनाय पृथिवी चित् आंतरिक्षमप्याश्रोत् । आभिमुख्येनाश्रुणोत् । अनुजानातीत्यर्थः । पृथिवीत्यंतरिक्षनाम । पृथिवी भूः स्वयंभ्विति तन्नामसु पाठात् । मानुषाः भूलोकवर्तिनः पुरुषाः अबीभयंत । स्वयं भीताः संतोऽन्येषामपि भीतिमुत्पादितवंतः ॥ उपो इति निपातद्वयसमुदायात्मक मन्यन्निपातांतरम् । ओत् (पा १-१-१५) इति प्रगृह्यत्वम् । अयुग्द्वम् । लुङि झलो झसि (पा ८-२-२६) इति सकारस्य लोपः । चोः कुरिति कुत्वम् । रोहितः । रुहे रश्च लो वा (उ ३-९४) इतीतन्प्रत्ययांतः । नित्त्वादाद्युदात्तः । यामाय यमेर्भावे घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युत्तत्वम् । अश्रोत् । श्रु श्रवणे । बहुलं छंदसीति विकरणस्य लुक् । अबीभयंत । ञिभी भये । अस्माण्ण्यंताल्लुङि भीस्म्योर्हेतुभये (पा १-३-६८) इत्यात्मने पदम् । बिभेतेर्हेतुभये षुक् (पा ७-३-४०) इति षुक् प्राप्नोति । तन्न क्रियते । आगमानुशासनस्यानित्यत्वात् । णौ चङ्युपधाह्रस्वत्वादि । पा ७-४-१ ॥ ६ ॥

1.39.7
आ वो᳚ म॒क्षू तना᳚य॒ कं रुद्रा॒ अवो᳚ वृणीमहे ।
गन्ता᳚ नू॒नं नो॑व᳚सा॒ यथा᳚ पु॒रेत्था कण्वा᳚य बि॒भ्युषे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । म॒क्षु । तना᳚य । कम् । रुद्राः᳚ । अवः᳚ । वृ॒णी॒म॒हे॒ ।
गन्त᳚ । नू॒नम् । नः॒ । अव᳚सा । यथा᳚ । पु॒रा । इ॒त्था । कण्वा᳚य । बि॒भ्युषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रुद्रा रुद्रपुत्रा मरुतः तनाय कं आस्मदीयपुत्रार्थं मक्षु शीघ्रं वो युष्मदीयमवो रक्षणमावृणीमहे । सर्वतः प्रार्थयामहे । मक्ष्विति क्षिप्रनाम , नु मक्ष्विति तन्नामसु पठितत्वात् । पुरा पूर्वस्मिन्काले कर्मांतरेषु नोऽवसास्मदीयरक्षणेन निमित्तेन यूयं यथा प्राप्तवंतः । इत्थानेन प्रकारेण बिभ्युषे भीतियुक्ताय कण्वाय मेधाविने यजमानाय तदनुग्रहार्थं नूनं क्षिप्रं गंत । प्राप्नुत ॥ मक्षु । ऋचि तुनुघमक्षुतङ् कुत्रोरुष्याणामिति दीर्घः । तनाय । तनो तीति तनः । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । यद्वा तनयशब्देऽय् इत्यस्य लोपश्छांदसः । कमित्येत्पादांते प्रयुज्यमानं पादपूरणम् । शिशिरं जीवनाय कमितिवत् । उक्तं च । अथापि पादपूरणाः कमीमिद्वितीति । रुद्राः । रोदयंतीति रुद्राः । रोदेर्णिलुक्च (उ २-२२) इति रक्प्रत्ययः । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्निघाताभावः । गंत । लोट बहुलं छंदसीति शपो लुक् । तप्तनबित्यादिना तबादेशः । अतः पित्त्वादनुनासिकलोपाभावः । बिभ्युषे । बिभेतेर्लिटः क्वसुः । वस्वेकाजाद्घसामिति नियमादिडभावः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वं ॥ ७ ॥

1.39.8
यु॒ष्मेषि᳚तो मरुतो॒ मर्त्ये᳚षित॒ आ यो नो॒ अभ्व॒ ईष᳚ते ।
वि तं यु᳚योत॒ शव᳚सा॒ व्योज᳚सा॒ वि यु॒ष्माका᳚भिरू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यु॒ष्मा॑इ᳚षितः । म॒रु॒तः॒ । मर्त्य᳚॑इषितः । आ । यः । नः॒ । अभ्वः᳚ । ईष᳚ते ।
वि । तम् । यु॒यो॒त॒ । शव᳚सा । वि । ओज᳚सा । वि । यु॒ष्माका᳚भिः । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो यो यः कश्चिदभ्वः शत्रुर्युष्मेषितो युष्माभिः प्रेषितो मर्त्येषितो मारकैरन्यैर्वा प्रेषितः सन् नोऽस्मान्प्रति आ ईषते आभिमुख्येन प्राप्नोति । तं शत्रुं शवसाऽन्नेन वि युयोत । विभक्तं कुरुत । तथौजसा बलेन वि युयोत । युष्माकाभिरूतिभिर्युष्मत्संबंधिभी रक्षणैश्च वियुयोत ॥ युष्मेषितः । युष्माभिरिषितः सुब्लुकि प्रत्ययलक्षणेन युष्मदस्मदोरनादेश इत्यात्वम् । न च न लुमतांगस्येति प्रतिषेधः । इकोऽचि विभक्तौ (पा ७-१-७३) इत्यत्राज् ग्रहणेन तस्य पाक्षिकत्वोक्तेः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । मर्त्येषितः । पूर्ववत् । अभ्वः । आभवतीत्यभ्वः शत्रुः । पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । ईषते । ईष गतिहिंसादर्शनेषु । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । युयोत । यु मिश्रणामिश्रणयोः । लोण्मध्यमबहुवचने बहुलं छंदसीति शपः श्लुः । तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । युष्माकाभिः । युष्मत्संबंधिनीभिः । तस्मिन्नणि च युस्माकास्माकौ (पा ४-३-२) इि युष्मच्छब्दस्य युष्माकादेशः । ङीब्वृद्थी छांदसत्वान्न क्रियेते । ऊतिभिः । अवतेः क्तिनि ज्वरत्वरेत्यादिना ऊट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं ॥ ८ ॥

1.39.9
असा᳚मि॒ हि प्र᳚यज्यव॒ः कण्वं᳚ द॒द प्र᳚चेतसः ।
असा᳚मिभिर्मरुत॒ आ न᳚ ऊ॒तिभि॒र्गन्ता᳚ वृ॒ष्टिं न वि॒द्युतः᳚ ॥
▶ पदपाठः (Word-by-word)
असा᳚मि । हि । प्र॒॑य॒ज्य॒वः॒ । कण्व᳚म् । द॒द । प्र॒॑चे॒त॒सः॒ ।
असा᳚मि॑भिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒ति॑भिः᳚ । गन्त᳚ । वृ॒ष्टिम् । न । वि॒॑द्युतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

असामि हि संपूर्णमेव यथा भवति तथा प्रयज्यवः प्रकर्षेण यष्टव्याः प्रचेतसः प्रकृष्टज्ञानयुक्ता हे मरुतः कण्व मेधाविनं यदमानमेतन्नामकमृषिं वा दद । धारयत । हि यस्माद्यूयं कण्वनामकमृषिं धारितवंतस्तस्मात्कारणादसामिभिरूतिभिः संपूर्णै रक्षणैर्नोस्मान् प्रत्या गंत । आगच्छत । तत्र दृष्टांतः । वृष्टिं न विद्युतः । यथा विद्युतो वृष्टिं गच्छंति तद्वत् ॥ असामि । साम्यर्धम् । न सामि असामि । आव्ययपूर्वपदप्रकृतिस्वरत्वम् । प्रयज्यवः । प्रकर्षेण यष्टव्याः । यजिमनिशुंधिदसिजनिभ्यो युः (उ ३-२०) इति कर्मणि युप्रत्ययम् । आमंत्रितनिघातः । दद । डुदाञ् दाने । लोण् मध्यमबहुवचनस्य तिङां तिङो भवंतीति लजात्मनेपदप्रथमपुरुषबहुवचनादेशः । श्लौद्विर्भावे सति श्नाभ्यस्तयोरात इत्याकारलोपः । लोपस्त आत्मनेपदेषु (पा ७-१-४१) इति तलोपः । अतो गुण इति पररूपत्वम् । छंदस्युभयथेत्यार्धधातुकत्वादभ्यस्तानामादिरित्याद्युदात्तत्वं न भवति किंतु प्रत्ययस्वर एव । हि चेति निघातप्रतिषेधः । प्रचेतसः । प्रकृष्टं चेतो येषाम् । आमंत्रितनिघातः । गंत । गमेर्लोण् मध्यमबहुवचनस्य तस्य तबादेशः । बहुलं छंदसीति शपो लुक् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वान्निघाताभावः । द्व्यचोतस्तिङ इति संहितायां दीर्घत्वम् । विद्युतः । विद्योतत इति विद्युत् । भ्राजभासेत्यादिना (पा ३-२-१७७) क्विप् ॥ ९ ॥

1.39.10 समानपद
असा॒म्योजो᳚ बिभृथा सुदान॒वो॑सा᳚मि धूतय॒ः शवः᳚ ।
ऋ॒षि॒द्विषे᳚ मरुतः परिम॒न्यव॒ इषुं॒ न सृ᳚जत॒ द्विष᳚म् ॥
▶ पदपाठः (Word-by-word)
असा᳚मि । ओजः᳚ । बि॒भृ॒थ॒ । सु॒॑दा॒न॒वः॒ । असा᳚मि । धू॒त॒यः॒ । शवः᳚ ।
ऋ॒षि॒॑द्विषे᳚ । म॒रु॒तः॒ । प॒रि॒॑म॒न्यवे᳚ । इषु᳚म् । न । सृ॒ज॒त॒ । द्विष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानोपेता मरुतः असामि संपूर्णमोजो बलं बिभृथ । धारयथ । हे धूतयः कंपनकारिणो मरुतः असामि संपूर्णं शवो बलम् । परिमन्यवे कोपपरिवृताय ऋषिद्विषे ऋषीणां द्वेषं कुर्वते शत्रवे तद्विनाशार्थं द्विषं द्वेषकारिणं हंतारं सृजत । तत्र दृष्टांतः । इषुं न । यथा शत्रोरुपरि बाणं मुंचंति तद्वत् । अत्र निरुक्तम् । असामि सामिप्रतिषिद्धं सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृथ । कल्याणदानाः (नि ६-२३) इति ॥ बिभृथ । डुभृञ् धारणपोषणयोः जुहोत्यादित्वात् । श्लुः । भृञामिदित्यभ्यासस्येत्वम् । ऋषिद्विषे । ऋषीन् द्वेष्टीति ऋषिद्विट् । सत्सूद्विषेत्यादिना क्विप् । परिमन्यवे । मन्युना परिवृतः परिमन्युः । प्रादिसमासे परेरभितोभाविमंडलम् (पा ६-२-१८२) इत्युत्तरपदांतोदात्तत्वम् । इषुम् । इषु गतौ । इष्यति गच्छतीतीषुः । इषेः किच्च (उ १-१४) इत्युप्रत्ययः । धान्ये निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तत्वम् । सृजत । सृज विसर्गे । विकरणस्य ङित्त्वाद्गुणाभावः । द्विषं क्विप्चेति क्विप् ॥ १७ ॥ १० ॥