असा᳚मिभिर्मरुत॒ आ न᳚ ऊ॒तिभि॒र्गन्ता᳚ वृ॒ष्टिं न वि॒द्युतः᳚ ॥
पदपाठः (Word-by-word)
असा᳚मि॑भिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒ति॑भिः᳚ । गन्त᳚ । वृ॒ष्टिम् । न । वि॒॑द्युतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
असामि हि संपूर्णमेव यथा भवति तथा प्रयज्यवः प्रकर्षेण यष्टव्याः प्रचेतसः प्रकृष्टज्ञानयुक्ता हे मरुतः कण्व मेधाविनं यदमानमेतन्नामकमृषिं वा दद । धारयत । हि यस्माद्यूयं कण्वनामकमृषिं धारितवंतस्तस्मात्कारणादसामिभिरूतिभिः संपूर्णै रक्षणैर्नोस्मान् प्रत्या गंत । आगच्छत । तत्र दृष्टांतः । वृष्टिं न विद्युतः । यथा विद्युतो वृष्टिं गच्छंति तद्वत् ॥ असामि । साम्यर्धम् । न सामि असामि । आव्ययपूर्वपदप्रकृतिस्वरत्वम् । प्रयज्यवः । प्रकर्षेण यष्टव्याः । यजिमनिशुंधिदसिजनिभ्यो युः (उ ३-२०) इति कर्मणि युप्रत्ययम् । आमंत्रितनिघातः । दद । डुदाञ् दाने । लोण् मध्यमबहुवचनस्य तिङां तिङो भवंतीति लजात्मनेपदप्रथमपुरुषबहुवचनादेशः । श्लौद्विर्भावे सति श्नाभ्यस्तयोरात इत्याकारलोपः । लोपस्त आत्मनेपदेषु (पा ७-१-४१) इति तलोपः । अतो गुण इति पररूपत्वम् । छंदस्युभयथेत्यार्धधातुकत्वादभ्यस्तानामादिरित्याद्युदात्तत्वं न भवति किंतु प्रत्ययस्वर एव । हि चेति निघातप्रतिषेधः । प्रचेतसः । प्रकृष्टं चेतो येषाम् । आमंत्रितनिघातः । गंत । गमेर्लोण् मध्यमबहुवचनस्य तस्य तबादेशः । बहुलं छंदसीति शपो लुक् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वान्निघाताभावः । द्व्यचोतस्तिङ इति संहितायां दीर्घत्वम् । विद्युतः । विद्योतत इति विद्युत् । भ्राजभासेत्यादिना (पा ३-२-१७७) क्विप् ॥ ९ ॥