प्रथमं मण्डलम् - सूक्तम् 134

6 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: वायुः छन्दः: अत्यष्टिः

सूक्तम् 1.134 - सम्पूर्णम्

1 / 6
ऋक्: 1.134.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.134.1
आ त्वा॒ जुवो᳚ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह᳚न्त्वि॒ह पू॒र्वपी᳚तये॒ सोम᳚स्य पू॒र्वपी᳚तये ।
ऊ॒र्ध्वा ते॒ अनु᳚ सू॒नृता॒ मन᳚स्तिष्ठतु जान॒ती ।
नि॒युत्व᳚ता॒ रथे॒ना या᳚हि दा॒वने॒ वायो᳚ म॒खस्य᳚ दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । जुवः᳚ । र॒र॒हा॒णाः । अ॒भि । प्रयः᳚ । वायो॒ इति᳚ । वह᳚न्तु । इ॒ह । पू॒र्व॑पी᳚तये । सोम᳚स्य । पू॒र्व॑पी᳚तये ।
ऊ॒र्ध्वा । ते॒ । अनु᳚ । सू॒नृता᳚ । मनः᳚ । ति॒ष्ठ॒तु॒ । जा॒न॒ती ।
नि॒युत्व᳚ता । रथे᳚न । आ । या॒हि॒ । दा॒वने᳚ । वायो॒ इति᳚ । म॒खस्य᳚ । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वात्वांजुवः गमनशीलाः ररहाणाः शीघ्रगामिनः बलवन्तोवा सामर्थ्यान्नियुत्संज्ञकाअ- श्वाः रहिगतौ लिटःकानच् छान्दसोऽनुनासिकलोपः इहअस्मिन्यज्ञेप्रयः हविर्लक्षणमन्नं अभिअभिल- क्ष्यआवहन्तु प्रापयन्तु किमर्थं सोमस्य पूर्वपीतये पूर्ववत्पानाय पुनः किमर्थं पूर्वपीतये इतरदेवेभ्यः पुरापानाय मरुद्बृधादित्वात्पृर्वपदान्तोत्तत्वं किंच हेवायो तेतवसंबन्धिमनः अनुसूनृता प्रियसत्या- त्मिकास्तुतिरूपा अस्मदीयावाक् तिष्ठतु आश्रित्यसर्वदावर्ततां हर्षयत्वित्यर्थः सूनृतेतिवाङ्माम सूनृताब्रह्मेतितन्नामसूक्तत्वात् ऊर्ध्वाउन्नता तथा जानतीतवगुणान् विशेषेणअवगच्छंती सोमपाना- र्थंस्तुत्यर्थंच हेवायो मखस्ययज्ञस्य दावने दातव्यायहविषेतत्स्वीकाराय पुनःकिमर्थं दावनेअस्मभ्यं- अभिमतदानाय उभयत्रददातेःकमंणिभावेचक्रमेणौणादिकोवनिः छान्दसउपधालोपः नियुत्वतार- थेननियुद्भिर्युक्तेनरथेनायाहिआगच्छ ॥ १ ॥

1.134.2
मन्द᳚न्तु त्वा म॒न्दिनो᳚ वाय॒विन्द᳚वो॒॑स्मत्क्रा॒णास॒ः सुकृ᳚ता अ॒भिद्य᳚वो॒ गोभि᳚ः क्रा॒णा अ॒भिद्य᳚वः ।
यद्ध᳚ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच᳚न्त ऊ॒तयः᳚ ।
स॒ध्री॒ची॒ना नि॒युतो᳚ दा॒वने॒ धिय॒ उप᳚ ब्रुवत ईं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
मन्द᳚न्तु । त्वा॒ । म॒न्दिनः᳚ । वा॒यो॒॒ इति᳚ । इन्द᳚वः । अ॒स्मत् । क्रा॒णासः᳚ । सु॑कृ᳚ताः । अ॒भि॑द्य᳚वः । गोभिः᳚ । क्रा॒णाः । अ॒भि॑द्य᳚वः ।
यत् । ह॒ । क्रा॒णाः । इ॒रध्यै᳚ । दक्ष᳚म् । सच᳚न्ते । ऊ॒तयः᳚ ।
स॒ध्री॒ची॒नाः । नि॒॑युतः᳚ । दा॒वने᳚ । धियः᳚ । उप᳚ । ब्रु॒व॒ते॒ । ई॒म् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वात्वां अस्मत् अस्माकंसंबन्धिनः इन्दवः क्लेदयितारःसोमाः मन्दन्तुमादयन्तु व्यत्यये- नपरस्मैपदं कीदृशाः सोमाः मन्दिनोमादयितारः क्राणासः कुर्वाणाः स्वकार्यं हर्षादिकं सुकृताअभि- षवः दशापवित्रशोधनग्रहणादिभिःसुष्ठुकृताः अभिद्यवः अभितोद्योतयन्तः गोभिर्वाग्भिर्मन्त्ररूपाभिः क्राणाः क्रियमाणाः हूयमानाः यद्वा गोभिर्गन्तृभिः आहवनीयं प्रत्यानेतृभिः क्राणाः हूयमानाः करोतेः शानच् छान्दस्ःशपोलुक् तथा अभिद्यवः अभिगन्तारः हेवायो यद्यस्मात्कारणात् हशब्दःप्रसिद्धौ दक्षं अस्मद्यागदेशं प्रतिगन्तुमुत्साहवन्तं समर्धयितारंवा ईंत्वां नियुतः एतत्संज्ञकास्तवाश्वाः दावने दानाय हविःस्वीकारनिमित्तं धियःकर्माण्युद्दिश्य सचन्ते त्वां संगच्छन्ते याग्देशंवा किमर्थं इरध्यै प्रापयितुं परिचरितुं वा ईरगतौ तुमर्थेकध्यैप्रत्ययः ह्र्स्वश्छान्दसः इरध्यतिःपरिचरणकर्मा इरध्यति विधेमेति तन्नाप्नसूक्तत्वात् कीदृशास्ताः क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः क्राणाःकुर्वाणा- इतियास्कः । ऊतयः रक्षणवन्तः प्रीतियुक्तावसध्रीचीनाः त्व्यासहांचन्तः गच्छन्तः सहस्य सध्रिः विभाषांचेरितिस्वार्थेखः व्यत्ययेनान्तोदात्तः किंच धियः कर्मवन्तः बुद्धिमन्तोवाऋत्विजोयजमाना- वा उपब्रुतते उपेत्य ब्रुवन्ति स्तुवन्ति स्वाभिमतंविज्ञापयन्तिवा ॥ २ ॥

1.134.3
वा॒युर्यु᳚ङ्क्ते॒ रोहि᳚ता वा॒युर᳚रु॒णा वा॒यू रथे᳚ अजि॒रा धु॒रि वोळ्ह᳚वे॒ वहि᳚ष्ठा धु॒रि वोळ्ह᳚वे ।
प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स᳚स॒तीमि᳚व ।
प्र च᳚क्षय॒ रोद᳚सी वासयो॒षस॒ः श्रव᳚से वासयो॒षसः᳚ ॥
▶ पदपाठः (Word-by-word)
वा॒युः । यु॒ङ्क्ते॒ । रोहि᳚ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे᳚ । अ॒जि॒रा । धु॒रि । वोळ्ह᳚वे । वहि᳚ष्ठा । धु॒रि । वोळ्ह᳚वे ।
प्र । बो॒ध॒य॒ । पुर᳚म्॑धिम् । जा॒रः । आ । स॒स॒तीम्॑इ᳚व ।
प्र । च॒क्ष॒य॒ । रोद᳚सी॒ इति᳚ । वा॒स॒य॒ । उ॒षसः᳚ । श्रव᳚से । वा॒स॒य॒ । उ॒षसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंवायुः रोहितारोहितवर्णावश्वौ धुरिधारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने युंक्ते क्वचिद्यो- जयति तथा क्वचिदरुणाअरुणवर्णौ धुरियुंक्ते तथा अजिरा अजिरौगमनशीलौ वर्णविशेषयुक्तौवा क- दाचिद्युंक्ते यद्वैतदुभयत्रसंबध्यते किमर्थंयुंक्तइतितदाह—वोह्ळवेधुरंवोढुंभारवहनाय किंच धहिष्ठा वहिष्ठौ अतिशयेनवोढारावश्वौ वोढृशब्दादिष्ठनि तुरिष्ठेमेयः स्वितितृलोपः ढत्वादिकमसिद्धत्वान्नि- वर्तते द्विवचनस्याकारः धुरिवोह्णवेमहद्भारंवोढुं महति भारेवोढव्येसति पुनःपुनर्वायुग्रहणं अतोयो- जनवचनंच अतिशीघ्रमागच्छतीतिज्ञापनार्थं इदानींप्रत्यक्षेणाह—हेवायो पुरंधिं बहुप्रज्ञं सामर्थ्याद्य- जमानमितिगम्यते पुरंधिर्बहुधीरितियास्कः तंप्रबोधयरथेनशीघ्रमागत्य प्रज्ञापय हविः स्वीकाराये- तिभावः तत्रदृष्टान्तः—जारःपारदारिकः आससतीं उपपत्त्या गमनध्यानेन ईषत्स्वपन्तीं पुरन्धिमिव प्रकृष्टशरीरधारिणींयोषितमिव तां यथा स्वसंकेतेन सप्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्व- पन्तं यजमानं प्रबोधय किंच तदर्थं रोदसी द्यावापृथिव्यौ प्रचक्षय प्रकर्षेणप्रख्यापय प्रकाशयेत्यर्थः तत्प्रकाशार्थं उषसोवासयउषःकालानपि यथावत्स्थापय प्रभातंकुर्वित्यर्थः पुनस्तदेवप्रार्थ्यते श्रवसे श्रवइत्यन्ननाम तवहवीरूपान्नस्वीकारायउषसोवासय ॥ ३ ॥

1.134.4
तुभ्य᳚मु॒षास॒ः शुच᳚यः परा॒वति᳚ भ॒द्रा वस्त्रा᳚ तन्वते॒ दंसु᳚ र॒श्मिषु᳚ चि॒त्रा नव्ये᳚षु र॒श्मिषु᳚ ।
तुभ्यं᳚ धे॒नुः स᳚ब॒र्दुघा॒ विश्वा॒ वसू᳚नि दोहते ।
अज᳚नयो म॒रुतो᳚ व॒क्षणा᳚भ्यो दि॒व आ व॒क्षणा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । उ॒षसः᳚ । शुच᳚यः । प॒रा॒॑वति᳚ । भ॒द्रा । वस्त्रा᳚ । त॒न्व॒ते॒ । दं॑सु᳚ । र॒श्मिषु᳚ । चि॒त्रा । नव्ये᳚षु । र॒श्मिषु᳚ ।
तुभ्य᳚म् । धे॒नुः । स॒बः॒॑दुघा᳚ । विश्वा᳚ । वसू᳚नि । दो॒ह॒ते॒ ।
अज᳚नयः । म॒रुतः᳚ । व॒क्षणा᳚भ्यः । दि॒वः । आ । व॒क्षणा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो तुभ्यंत्वदर्थं उषासःउषसः पूर्वोक्तरीत्यात्वयाप्रकाशिताः शुचयः शुद्धादीप्तावा परावति अत्यन्तदूरदेशे अन्तरिक्षे दंसुदंसेषु कर्मवत्सु यद्वा गृहनामैतत् अन्त्यलोपश्छान्दसः गृहवदाच्छादकेषु रश्मिषु स्वकीयेषु तैःभद्राभंदनीयानि कल्याणानि वस्राआच्छादनयोग्यानि वस्राणितन्वते विस्तार- यन्ति यद्वा उषसः दंसुयागगृहेषु देवयजनेषु रश्मिषु होमायप्रदीप्ताग्निज्वालावत्सु आगतायतुभ्यंभ- द्रावस्त्रातन्वते अग्निज्वालाएव वस्राणि विस्तारयन्तीत्यर्थः उषःकाले अग्नीनांप्रज्वाल्यमानत्वात् ता- एववस्त्राणीत्युपचर्यते ननुकेवलंसाधारणानिवस्त्राणि नेत्याह—नव्येषुनूतनेषु स्तूयमानेषु णुस्तुतौ अचोयत् वान्तोयिप्रत्ययेइत्यवादेशः यतोनावइत्याद्युदात्तत्वम् रश्मिषुचित्राचित्राणि नानावर्णयु- क्तानि आश्चर्यभूतानितन्वते उषःकाले रश्मीनां नानावर्णत्वादिति भावः अग्निज्वालेतिपक्षे ज्वाला- नांकालीकरालीत्यादिरूपेणनानावर्णत्वाच्चित्रत्वं किंच हेवायो तुभ्यंत्वदर्थं त्वद्यागार्थमेवधेनुः घृता- दिनाप्रीणयित्रीगौःजातावेकवचनं सबर्दुघा सबरित्यमृतनाम तस्यदोग्ध्री दुहःकब् घश्चेतिकप् सती विश्वावसूनि सर्वाणिधनान्याज्यादिरूपाणि दोहतेस्वयमेवदुग्धे प्रीणयतीत्यर्थः कर्मकर्तरि नदुहस्नु- नमामितियगभावश्छान्दसः शपोलुगभावः कस्तत्रविशोषइतिचेत् उच्यते—हेवायो दिवः दीप्ताद- न्तरिक्षात् मरुतः एतन्नामकान् मेघंविशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान्देवान् आ आभिमुख्येन अ- जनयः जनयसि उत्पादयसि किमर्थमितितदुच्यते वक्षणाभ्यः प्रवहणशीलाभ्योऽद्भ्यः वृष्टिलक्षणाभ्यः तथा वक्षणाभ्यः नदीनामैतत् वक्षणाः रुजानाइतितन्नामसुपाठात् तासामर्थाय ॥ ४ ॥

1.134.5
तुभ्यं᳚ शु॒क्रास॒ः शुच᳚यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा इ᳚षणन्त भु॒र्वण्य॒पामि᳚षन्त भु॒र्वणि᳚ ।
त्वां त्सा॒री दस᳚मानो॒ भग᳚मीट्टे तक्व॒वीये᳚ ।
त्वं विश्व᳚स्मा॒द्भुव᳚नात्पासि॒ धर्म᳚णासु॒र्या᳚त्पासि॒ धर्म᳚णा ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । शु॒क्रासः᳚ । शुच᳚यः । तु॒र॒ण्यवः᳚ । मदे᳚षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि᳚ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि᳚ ।
त्वाम् । त्सा॒री । दस᳚मानः । भग᳚म् । ई॒ट्टे॒ । त॒क्व॒॑वीये᳚ ।
त्वम् । विश्व᳚स्मात् । भुव᳚नात् । पा॒सि॒ । धर्म᳚णा । अ॒सु॒र्या᳚त् । पा॒सि॒ । धर्म᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो तुभ्यंत्वदर्थं शुक्रासोदीप्ताः शुचयः शुद्धाः सोमस्यपातारोत्यन्तंशुद्धाभवन्ति किमुवक्तव्यं तेषांशुद्धत्वे तुरण्यवः त्वरणयुक्ताः त्वांप्राप्तुं उग्राः उद्गूर्णतेजसःसोमाःमदेषु तवमदेषुनिमित्तभूतेषु भुर्वणिभरणवति यागे इषणन्त आहवनीयंप्रतिगच्छन्ति इच्छन्तिवा व्यत्ययेनात्मनेपदं शश्नमौद्वौवि- करणौ किंचापांभुर्वणि मेघे इषन्त उदकंइच्छन्त्युत्पादयितुं अग्नौहूयमानस्याहुतेरादित्यद्वारावृष्ट्यु- त्पादकत्वात् यद्वा यजमानास्त्वामुद्दिश्याजुह्वानाः अपांवर्षणमिषन्त इच्छन्ति किंच हेवायो भगं- भजनीयं त्वां त्सारी त्सरणवान् अत्यन्तभीतः दसमानउपक्षीणोयज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः तक्ववीये तस्कराणांयज्ञविघातिनां अन्यत्रगमनाय ईट्टे स्तौति ईडस्तुतौ अदादित्वाच्छपो- लुक् यतस्त्वं विश्वस्माद्भुवनात्सर्वस्मात् लोकाद्भूतजाताद्वा लोकत्रयसंबन्धिनोभयात् धर्मणा अ- स्मदीयहविषांधारणेन पासि पालयसि किंच असुर्यात् असुरसंबन्धिनोभयात् विशेषेणपासि धर्मणा अस्मद्धारणेन पोषणेनवायुक्तःसन् यतएवंकरोषि अतः स्तौमीत्यर्थः ॥ ५ ॥

1.134.6
त्वं नो᳚ वायवेषा॒मपू᳚र्व्य॒ः सोमा᳚नां प्रथ॒मः पी॒तिम᳚र्हसि सु॒तानां᳚ पी॒तिम᳚र्हसि ।
उ॒तो वि॒हुत्म᳚तीनां वि॒शां व᳚व॒र्जुषी᳚णाम् ।
विश्वा॒ इत्ते᳚ धे॒नवो᳚ दुह्र आ॒शिरं᳚ घृ॒तं दु᳚ह्रत आ॒शिर᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । वा॒यो॒ इति᳚ । ए॒षा॒म् । अपू᳚र्व्यः । सोमा᳚नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना᳚म् । पी॒तिम् । अ॒र्ह॒सि॒ ।
उ॒तो इति᳚ । वि॒हुत्म᳚तीनाम् । वि॒शाम् । व॒व॒र्जुषी᳚णाम् ।
विश्वाः᳚ । इत् । ते॒ । धे॒नवः᳚ । दु॒ह्रे॒ । आ॒॑शिर᳚म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒॑शिर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायोत्वं अपूर्व्यः नविद्यते पूर्वंयस्मात्तत्पानमपूर्वं तदर्हतीत्यपूर्व्यः तादृशः अतएवप्रथमः इतर- देवेभ्यः पूर्वभूतःसन् सोमानांपीतिंपानमर्हसि प्राप्नोषि सुतानामभिषवकृतानांसोमानां पीतिंपानम- र्हसि यत्र यत्राभिषवोऽस्ति तत्रसर्वत्रनियमेनपिबसीत्यर्थः पूर्वंप्राथम्याभिपायेण इदानींतुसर्वत्रसोम- वतियागे अस्यपानमस्तीतिज्ञापयितुंपृथगभिधानं नकेवलं सोमपानमात्रं उतोअपितु विहुत्मतीनां विशेषेण होमवतीनां आह्वानवतीनांवा जुहोतेःसंपदादिलक्षणोभावेक्विप् ततोमतुब् ङीपौ ववर्जुषी- णां अनभिमतपापंवर्जयन्तीनां वर्जयतेर्लिटः कसङीप्संप्रसारणत्वानि विशांऋत्विग्यजमानरूपाणां प्रजानांसंबन्धिहविः स्वीकरोषीतिशेषः किंच तेषांयष्टृणां विश्वाइतधेनवः सर्वाअपिगावः तेत्वदर्थं- आशिरं आश्रयणद्रव्यं क्षीरं दुह्रे दुहन्ति स्वयमेव कर्तरि नदुहस्नुनमामिनियगभावः लोपस्तआत्मनेप- देप्वितितलोपः बहुलंछन्दसीतिरुट् तथा आशिरं घृतं उपस्तग्णाभिवारणाद्याश्रयणाय योग्यंकरणं- द्रव्यंदुह्रते ॥ ६ ॥

स्तीर्णंबर्हिरितिनवर्चंद्वितीयंसूक्तम् पारुच्छेपमात्यष्टं पूर्वत्रतुशब्दाद्वायुदेवत्यं आवांरथइत्या- दिऋक्पंचकमैन्द्रं सप्तम्यष्टम्यावष्टी अत्रानुक्रमणिका—स्तीर्णंनवचतुर्थ्याद्याःपंचैन्द्भश्चोपान्त्येअ- ष्टीइति । सूक्तस्यविशेषविनियोगोलैंगिकः दशरात्रस्यषष्ठेहनिप्रउगशस्त्रे आद्यौतृचौ प्राकृतयोर्वा- यव्यैन्द्रवायव्ययोःस्थानेविनियुक्तौ षष्ठस्यप्रातःसवनइतिख्ण्डेसूत्रितम्स्तीर्णंबर्हिरितितृचाविति ।