श्रवणम्

1.134.5
तुभ्यं᳚ शु॒क्रास॒ः शुच᳚यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा इ᳚षणन्त भु॒र्वण्य॒पामि᳚षन्त भु॒र्वणि᳚ ।
त्वां त्सा॒री दस᳚मानो॒ भग᳚मीट्टे तक्व॒वीये᳚ ।
त्वं विश्व᳚स्मा॒द्भुव᳚नात्पासि॒ धर्म᳚णासु॒र्या᳚त्पासि॒ धर्म᳚णा ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । शु॒क्रासः᳚ । शुच᳚यः । तु॒र॒ण्यवः᳚ । मदे᳚षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि᳚ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि᳚ ।
त्वाम् । त्सा॒री । दस᳚मानः । भग᳚म् । ई॒ट्टे॒ । त॒क्व॒॑वीये᳚ ।
त्वम् । विश्व᳚स्मात् । भुव᳚नात् । पा॒सि॒ । धर्म᳚णा । अ॒सु॒र्या᳚त् । पा॒सि॒ । धर्म᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो तुभ्यंत्वदर्थं शुक्रासोदीप्ताः शुचयः शुद्धाः सोमस्यपातारोत्यन्तंशुद्धाभवन्ति किमुवक्तव्यं तेषांशुद्धत्वे तुरण्यवः त्वरणयुक्ताः त्वांप्राप्तुं उग्राः उद्गूर्णतेजसःसोमाःमदेषु तवमदेषुनिमित्तभूतेषु भुर्वणिभरणवति यागे इषणन्त आहवनीयंप्रतिगच्छन्ति इच्छन्तिवा व्यत्ययेनात्मनेपदं शश्नमौद्वौवि- करणौ किंचापांभुर्वणि मेघे इषन्त उदकंइच्छन्त्युत्पादयितुं अग्नौहूयमानस्याहुतेरादित्यद्वारावृष्ट्यु- त्पादकत्वात् यद्वा यजमानास्त्वामुद्दिश्याजुह्वानाः अपांवर्षणमिषन्त इच्छन्ति किंच हेवायो भगं- भजनीयं त्वां त्सारी त्सरणवान् अत्यन्तभीतः दसमानउपक्षीणोयज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः तक्ववीये तस्कराणांयज्ञविघातिनां अन्यत्रगमनाय ईट्टे स्तौति ईडस्तुतौ अदादित्वाच्छपो- लुक् यतस्त्वं विश्वस्माद्भुवनात्सर्वस्मात् लोकाद्भूतजाताद्वा लोकत्रयसंबन्धिनोभयात् धर्मणा अ- स्मदीयहविषांधारणेन पासि पालयसि किंच असुर्यात् असुरसंबन्धिनोभयात् विशेषेणपासि धर्मणा अस्मद्धारणेन पोषणेनवायुक्तःसन् यतएवंकरोषि अतः स्तौमीत्यर्थः ॥ ५ ॥