प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स᳚स॒तीमि᳚व ।
प्र च᳚क्षय॒ रोद᳚सी वासयो॒षस॒ः श्रव᳚से वासयो॒षसः᳚ ॥
पदपाठः (Word-by-word)
प्र । बो॒ध॒य॒ । पुर᳚म्॑धिम् । जा॒रः । आ । स॒स॒तीम्॑इ᳚व ।
प्र । च॒क्ष॒य॒ । रोद᳚सी॒ इति᳚ । वा॒स॒य॒ । उ॒षसः᳚ । श्रव᳚से । वा॒स॒य॒ । उ॒षसः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयंवायुः रोहितारोहितवर्णावश्वौ धुरिधारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने युंक्ते क्वचिद्यो- जयति तथा क्वचिदरुणाअरुणवर्णौ धुरियुंक्ते तथा अजिरा अजिरौगमनशीलौ वर्णविशेषयुक्तौवा क- दाचिद्युंक्ते यद्वैतदुभयत्रसंबध्यते किमर्थंयुंक्तइतितदाह—वोह्ळवेधुरंवोढुंभारवहनाय किंच धहिष्ठा वहिष्ठौ अतिशयेनवोढारावश्वौ वोढृशब्दादिष्ठनि तुरिष्ठेमेयः स्वितितृलोपः ढत्वादिकमसिद्धत्वान्नि- वर्तते द्विवचनस्याकारः धुरिवोह्णवेमहद्भारंवोढुं महति भारेवोढव्येसति पुनःपुनर्वायुग्रहणं अतोयो- जनवचनंच अतिशीघ्रमागच्छतीतिज्ञापनार्थं इदानींप्रत्यक्षेणाह—हेवायो पुरंधिं बहुप्रज्ञं सामर्थ्याद्य- जमानमितिगम्यते पुरंधिर्बहुधीरितियास्कः तंप्रबोधयरथेनशीघ्रमागत्य प्रज्ञापय हविः स्वीकाराये- तिभावः तत्रदृष्टान्तः—जारःपारदारिकः आससतीं उपपत्त्या गमनध्यानेन ईषत्स्वपन्तीं पुरन्धिमिव प्रकृष्टशरीरधारिणींयोषितमिव तां यथा स्वसंकेतेन सप्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्व- पन्तं यजमानं प्रबोधय किंच तदर्थं रोदसी द्यावापृथिव्यौ प्रचक्षय प्रकर्षेणप्रख्यापय प्रकाशयेत्यर्थः तत्प्रकाशार्थं उषसोवासयउषःकालानपि यथावत्स्थापय प्रभातंकुर्वित्यर्थः पुनस्तदेवप्रार्थ्यते श्रवसे श्रवइत्यन्ननाम तवहवीरूपान्नस्वीकारायउषसोवासय ॥ ३ ॥