आयु᳚क्षाताम॒श्विना॒ यात᳚वे॒ रथं॒ प्रासा᳚वीद्दे॒वः स᳚वि॒ता जग॒त्पृथ᳚क् ॥
पदपाठः (Word-by-word)
अयु᳚क्षाताम् । अ॒श्विना᳚ । यात᳚वे । रथ᳚म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग᳚त् । पृथ᳚क् ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निर्विहितःसन् ज्मः ज्मायाः पृथिव्यावेदिलक्षणायाःसंबन्धीसन् अबोधि प्रतिबोधितः ज्मे- तिपृथिवीनाम ग्माज्मेतितन्नामसूक्तत्वात् किंच सूर्यउदेति तथा महीमहती उषाः अर्चिषा प्रकृष्टेनते- जसा चन्द्रा प्राणिनामाह्लादिनीसतीव्यावः तमांसिविवासयति वसेर्लुङिछान्दसश्च्लेर्लुक् छन्दस्यपि- दृश्यतइत्याडागमः यतइयमुषाः उदेति यतश्चसूर्यः यतश्चायमग्निः प्रवृद्धोभवति अतःकारणात् हेअ- श्विना अश्विनौ युष्मत्संबन्धिनंरथं यातवे देवः देवयजनगमनायरासभाभ्यांअयुक्षातां आभिमुख्येन- युंजाथां तथा सवितासर्वकर्मणोनुज्ञातादेवोजगत् जंगमंप्राणिजातं पृथक् स्वस्वकर्मानुरोधेन प्रासा- वीत् प्रसौतु अनुजानातु ॥ १ ॥