श्रवणम्

1.157.3
अ॒र्वाङ्त्रि᳚च॒क्रो म᳚धु॒वाह᳚नो॒ रथो᳚ जी॒राश्वो᳚ अ॒श्विनो᳚र्यातु॒ सुष्टु᳚तः ।
त्रि॒व॒न्धु॒रो म॒घवा᳚ वि॒श्वसौ᳚भग॒ः शं न॒ आ व᳚क्षद्द्वि॒पदे॒ चतु᳚ष्पदे ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाङ् । त्रि॒॑च॒क्रः । म॒धु॒॑वाह᳚नः । रथः᳚ । जी॒र॑अ᳚श्वः । अ॒श्विनोः᳚ । या॒तु॒ । सु॑स्तु᳚तः ।
त्रि॒॑व॒न्धु॒रः । म॒घ॑वा᳚ । वि॒श्व॑सौ᳚भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒॑पदे᳚ । चतुः᳚॑पदे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विनोरथः अर्वाङ् अस्मदभिमुखोयातु गच्छतु कीदृशःत्रिचकः चक्रत्रययुक्तः मधुवाहनः मधु- वोढा जीराश्वः शीघ्रगाम्यश्वोपेतः सुष्टुतः अतएवअस्माभिःस्तूयमानः त्रिवन्धुरः निम्नोन्नतकाष्ठत्र- योपेतः सारथ्याश्रयस्थानंवंधुरं मघवाधनवान् अतएवविश्वसौभगः सर्वसौभाग्योपेतः ईदृशः अश्वि- नोरथः नोऽस्माकंद्विपदे पुत्रादिप्रजायै चतुष्पदे पशवेचशंसुखंआवक्षत् आवहतु वहेर्लेट्यडागमः सिप् ॥ ३ ॥