प्रथमं मण्डलम् - सूक्तम् 75

5 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 1.75 - सम्पूर्णम्

1 / 5
ऋक्: 1.75.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.75.1
जु॒षस्व᳚ स॒प्रथ᳚स्तमं॒ वचो᳚ दे॒वप्स᳚रस्तमम् ।
ह॒व्या जुह्वा᳚न आ॒सनि᳚ ॥
▶ पदपाठः (Word-by-word)
जु॒षस्व᳚ । स॒प्रथः᳚॑तमम् । वचः᳚ । दे॒वप्स᳚रः॑तमम् ।
ह॒व्या । जुह्वा᳚नः । आ॒सनि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जुषस्वेति पंचर्चं द्वितीयं सूक्तम् । अनुक्रांतं च । जुषस्व पंचेति । ऋष्याद्याः पूर्ववत् ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्त विनियोगः ॥ पशौ स्तोकानुवचन आद्या विनियुक्ता । सूत्रितं च । प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम् (आ ३-४) इति ॥

हे अग्ने सप्रथस्तममतिशयेन विस्तीर्णं वचः स्तोत्रलक्षणमस्मदीयं वचनं जुषस्व । सेवस्व । कीदृशम् । देवप्सरस्तमं देवानां प्रीणयितृतमम् । किं कुर्वन् । आसनि तवास्ये हव्या हव्यानि स्तोकलक्षणानि हवींषि जुह्वानः प्रक्षिपन् । इमानि स्तोकलक्षणानि हवींषि वृथा मा भुवन् तत्सर्वं त्वदीयेन मुखेन स्वीकुर्वित्यर्थः ॥ देवप्सरस्तमम् । स्पृप्रीतिबलयोः । देवान् स्पृणोति प्रीणयतीति देवप्सराः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारपकारयोः स्थानविपर्ययः । अतिशयेन देवप्सरा देवप्सरस्तमः । जुह्वानः । जुहोतेर्व्यत्ययेन शानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । आसनि । पद्दन्नित्यादिनास्यशब्दस्यासन्नादेशः ॥ १ ॥

1.75.2
अथा᳚ ते अङ्गिरस्त॒माग्ने᳚ वेधस्तम प्रि॒यम् ।
वो॒चेम॒ ब्रह्म᳚ सान॒सि ॥
▶ पदपाठः (Word-by-word)
अथ᳚ । ते॒ । अ॒ङ्गि॒रः॒॑त॒म॒ । अ॒ग्ने॒ । वे॒धः॒॑त॒म॒ । प्रि॒यम् ।
वो॒चेम᳚ । ब्रह्म᳚ । सा॒न॒सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अंगिरस्तमातिशयेनांगनादिगुणयुक्त । यद्वा । अंगिरसां वरिष्ठम् । वेधस्तम । वेधा इति मेधाविनाम । अतिशयेन मेधाविन्नग्ने । अथानंतरं ते तुभ्यं सानसि संभजनीयं प्रियं प्रीतिकरं ब्रह्म स्तोत्रं वोचेम । वक्तारो भूयास्म ॥ वोचेम । लिङ्याशिष्यङ् । वच उमित्युमागमः । सानसि । वन षण संभक्तौ । सानसिधर्णसीत्यादावसिच् प्रत्ययांतो निपात्यते ॥ २ ॥

1.75.3
कस्ते᳚ जा॒मिर्जना᳚ना॒मग्ने॒ को दा॒श्व᳚ध्वरः ।
को ह॒ कस्मि᳚न्नसि श्रि॒तः ॥
▶ पदपाठः (Word-by-word)
कः । ते॒ । जा॒मिः । जना᳚नाम् । अग्ने᳚ । कः । दा॒शु॑अ᳚ध्वरः ।
कः । ह॒ । कस्मि᳚न् । अ॒सि॒ । श्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जनानां मनुष्याणां मध्ये ते तव को जामिः को बंधुः । त्वं सर्वैर्गुणैरधिकोऽसि । तवानुरूपो बंधुर्नास्तीति भावः । को दाश्वध्वरः । दाशुर्दत्तोऽध्वरो यज्ञो येन स तथोक्तः । त्वां यष्टुमपि समर्थः कोऽपि नास्तीत्यर्थः । को ह त्वं कथंभूतस्त्वम् । ईदृग्रूप इति सर्वैर्न ज्ञायस इत्यर्थः । कस्मिन् स्थाने श्रित आश्रितोऽसि । वर्तसे । तत्स्थानमपि न केनचित् ज्ञायते । अतस्त्वमस्माभिर्मांसदृष्टिभिः कथमुपलब्धव्य इत्यग्निः प्रशस्यते ॥ दाश्वध्वरः । दाशृ दाने । उणादयो । बहुलमिति बहुलवचनात्कर्मण्युण्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वं ॥ ३ ॥

1.75.4
त्वं जा॒मिर्जना᳚ना॒मग्ने᳚ मि॒त्रो अ᳚सि प्रि॒यः ।
सखा॒ सखि᳚भ्य॒ ईड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । जा॒मिः । जना᳚नाम् । अग्ने᳚ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।
सखा᳚ । सखि᳚॑भ्यः । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमुक्तप्रकारेणाचिंत्यरूपोऽप्यनुग्रहीतृतया सर्वेषां जनानां जामिर्बंधुरसि । तथा प्रियः प्रीणयिता त्वं यजमानानां मित्रः प्रमीतस्त्रायकोऽसि । ईड्यः स्तुतिभिः स्तुत्यस्त्वं सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यंतं प्रियोऽसि ॥ जामिः । जमु अदने । जमंति सहैकस्मिन्पात्रेऽदंतीति जामयो बंधवः । जनिघसिभ्यामिण् (उ ४-१२९) इति विधीयमान इण् बहुलवचनादस्मादपि द्रष्टव्यः । ईड्यः । ईड स्तुतौ । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वं ॥ ४ ॥

1.75.5
यजा᳚ नो मि॒त्रावरु᳚णा॒ यजा᳚ दे॒वा{4} ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम᳚म् ॥
▶ पदपाठः (Word-by-word)
यज᳚ । नः॒ । मि॒त्रावरु᳚णा । यज᳚ । दे॒वान् । ऋ॒तम् । बृ॒हत् ।
अग्ने᳚ । यक्षि᳚ । स्वम् । दम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोऽस्मदर्थं मित्रावरुणा एतत्संज्ञौ देवौ यज । हविषा पूजय । तथा देवानिंन्रादीन्यज । पूजय । ऋतं सत्यं यथार्थफलं यज्ञं च य चेत्येव । तदर्थ बृहत् प्रौढं स्वं स्वकीयं दमं यज्ञगृहं यक्षि । यज । संगच्छस्व । त्वय्यंतर्विद्यमाने सति हि यज्ञ गृहं पूज्यते ॥ यज । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । देवान् । दीर्घादटसमानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमित्यनुनासिक अकारः । यत्वलोपौ । यक्षि यजेर्बहुलं छंदसीति शपो लुक् ॥ ५ ॥