यद्ध᳚ क्रा॒णा वि॒वस्व᳚ति॒ नाभा᳚ सं॒दायि॒ नव्य᳚सी ।
अध॒ प्र सू न॒ उप᳚ यन्तु धी॒तयो᳚ दे॒वा{4} अच्छा॒ न धी॒तयः᳚ ॥
पदपाठः (Word-by-word)
यत् । ह॒ । क्रा॒णा । वि॒वस्व᳚ति । नाभा᳚ । स॒म्॑दायि᳚ । नव्य᳚सी ।
अध᳚ । प्र । सु । नः॒ । उप᳚ । य॒न्तु॒ । धी॒तयः᳚ । दे॒वान् । अच्छ᳚ । न । धी॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अहं पुरः पुरतः उत्तरवेद्यां अग्निं आहवनीयाख्यं धिया प्रज्ञयाप्रणयनादिकर्मणादधे धारितवान- स्मि तच्छर्धः तादृशंबलवंतंवाग्निं यद्वा तच्छर्धः तादृशं मरुतां स्वरूपं बलंदिव्यं दिविभवं नु क्षिप्रं आवृणीमहे आभिमुख्येन संभजामहे किंच इन्द्रवायू वृणीमहे यद्यस्मात्कारणात् विवस्वति दीप्तिमति नाभानाभौ भूम्यानाभिस्थाने देवयजनेवेदिरूपे यद्वा नाभौ सर्वफलस्यसंबन्धके यज्ञे यज्ञमाहुर्भुवन- स्यनाभिमितिश्रुतेः । क्राणा कुर्वाणा स्वार्थप्रकाशनं नव्यसीनवतरा स्तुतिरूपावाक् संदायि संबध्यते छान्दसःकर्मणिलुङ् अस्माभिःप्रयुज्यतइत्यर्थः यस्मात्स्तुतिःक्रियते तस्मात् अस्तुश्रौषट् अस्याः स्तुतेः श्रवणंभवतु श्रोताभवतुवामरुतांगणोग्निर्वा इन्द्रवायुपक्षे प्रत्येकापेक्षयैकवचनं अधअनन्तरंनोधीतयः अस्मदीयानिकर्माणिस्तुत्यादिरूपाणि प्रसूयन्तु प्रकर्षेणसुष्ठु युष्मानुपगच्छन्तु किंच देवाँअच्छान अग्न्यादिदेवान् आभिमुख्येन प्राप्तुमिवधीतयः अस्मदीयानि कर्माणि उपयन्तु तेषांसमीपंप्राप्नुवन्तु ॥ १ ॥