ज॒गृ॒भ्मा दू॒रआ᳚दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना᳚ ।
अधा᳚रयदर॒रिन्दा᳚नि सु॒क्रतु᳚ः पु॒रू सद्मा᳚नि सु॒क्रतु᳚ः ॥
पदपाठः (Word-by-word)
ज॒गृ॒भ्म । दू॒रे॑आ᳚दिशम् । श्लोक᳚म् । अद्रेः᳚ । अध᳚ । त्मना᳚ ।
अधा᳚रयत् । अ॒र॒रिन्दा᳚नि । सु॒॑क्रतुः᳚ । पु॒रु । सद्मा᳚नि । सु॒॑क्रतुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयंहोतादैव्योग्निर्मानुषोवादेवानामाह्वातायक्षत् याज्यांपठतु यजेर्लेट्यडागमः सिब्बहुलमिति- सिप् वनिनोवननवन्तः हविः कामयमानावा देवावार्यंवरणीयंसोमं वन्त भजन्तां वनतेश्छान्दसेल- ङिव्यत्ययेनात्मनेपदं बहुलंछन्दसीतिशपोलुक् छान्दसोंऽत्यलोपः तदर्थंबृहस्पतिः बृहतोमन्त्रस्यहवि- षोवापालकोऽध्वर्युः दैव्योबृहस्पतिर्वास्वयमेवयजति यागंकरोति कीदृशःसःवेनःकामयमानः केनसाधनेनेतितदुच्यते—उक्षभिः सेचकैः सोमैः पुरुवारेभिः बहुभिर्वरणीयैः तथाउक्षभिः सेचनसम- र्थैरुदकैः तन्निमित्तभूतैर्हूयमानैराहुतिभिरादित्यद्वारा वृष्ट्युत्पन्नैः वयं यजमानाः दूरे आदिशं दूरदेशे आदिगादेशोयस्य तादृशं हलदन्तात्सप्तम्याइत्यलुक् अद्रेः जातावेकवचनं अभिषवसाधनस्यग्राव्णः श्लोकंवाचं ध्वनिंजगृभ्म गृह्णीमःश्रोत्राभ्यां पूजार्थंबहुवचनं इदानींपरोक्षकृतः सुक्रतुः शोभनकर्माअयं यजमानः अधअथयागसंपूर्त्यनन्तरं अररिंदानि उदकनामैतत् अररिंदानिध्वस्मन्वदितितन्नामसुपा- ठात् वृष्टिलक्षणान्युदकानि त्मनाआत्मना अधारयत् धारयति ररिर्दाता नास्तिअन्योररिरस्यपिपा- सोपशमनस्य तादृशंपिपासोपशमनं ददतीत्यररिन्दानि यद्वा अररिः इतश्चेतश्चगमनं औणादिकोअ- रिप्रत्ययः आतोनुपसर्गेकः पृषोदरादित्वादभिमतरूपस्वरसिद्धिः तद्ददतीतिअररिन्दान्युदकानि चे- ष्टाप्रदानीत्यर्थः आपोमयःप्राणइतिश्रुतेः । यद्वा ररिर्दानं नविद्यते तादृशंदानमितरभूतेषुतदररि तद्द- दतीत्यररिन्दानि अन्यैरदेयंलोकोपकारिभोगंददतीत्यर्थः तादृशान्युदकानि यागेनोत्पादितवानित्य- र्थः किंच सुक्रतुः शोभनकर्मायंपुरुपुरूणि बहूनि सद्मानि सदनानिसुखनिवासयोग्यानिगृहाणिअधार- यत् यद्वा बृहस्पतिः सुक्रतुश्चायमध्वर्युः अररिंदान्युक्तलक्षणानिअभिषवसाधनान्युदकानि अधारयत् धारितवान् तथा सुक्रतुः शोभनप्रज्ञः पुरुसद्मानि सदनानि हविरासादनान्यधारयत् ॥ १० ॥ दशरात्रेषष्ठेहनिप्रउगशस्त्रेवैश्वदेवतृचस्यद्वितीया येदेवासइत्येषा सूत्रितंच—येदेवासोदिव्येकाद- शस्थेयमददाद्रभसमिति ।