यद्व᳚श्चि॒त्रं यु॒गेयु᳚गे॒ नव्यं॒ घोषा॒दम᳚र्त्यम् ।
अ॒स्मासु॒ तन्म᳚रुतो॒ यच्च᳚ दु॒ष्टरं᳚ दिधृ॒ता यच्च᳚ दु॒ष्टर᳚म् ॥
पदपाठः (Word-by-word)
यत् । वः॒ । चि॒त्रम् । यु॒गे॑यु᳚गे । नव्य᳚म् । घोषा᳚त् । अम᳚र्त्यम् ।
अ॒स्मासु᳚ । तत् । म॒रु॒तः॒ । यत् । च॒ । दु॒स्तर᳚म् । दि॒धृ॒त । यत् । च॒ । दु॒स्तर᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतःवः युष्मत्संबन्धीनितानि प्रसिद्धानि पौंस्यापौंस्यानिबलानि सनासदातनानि नित्यानि द्युम्नानि प्रकाशयुक्तानि यद्वा सना संभजनीयानि द्युम्नानि धनवन्ति यशोवन्तिवा मत्वर्थीयोलुप्यते मोइति निपातद्वयसमुदायः उशब्दोवधारणे अस्मत् अस्मात् मोष्वभिभूवन् सुष्ठुमैवाभिभवन् यद्वा अस्मत्तोपगतानि माभूवन् उत अपिच यद्वा द्युम्नानीत्येतदुत्तरत्रसंबध्यते द्युम्नानि धनानि यशांसि- वाअस्मदीयानि माजारिषुः क्षीणानिमाभूवन् उत अपिचअस्मत्पुरापुराणिलक्षणयातत्रस्थाप्नाणि- नोमाजारिषुः जीर्णानष्टामाभूवन् किंच वोयुष्मत्संबन्धि चित्रं चायनीयंनानाविधंनव्यं नूतनं स्तो- तव्यंवा अमर्त्यं अमरणधर्मकं मर्त्येषुदुर्लभं वा यदस्तिघोषात् घोषाः व्यत्ययेनपंचमी शब्दोपेतागवा- दयः घोषोपलक्षिताग्रामनगरादयोवायेसन्ति तत्सर्वं युगेयुगे युगशब्दोपलक्षिते तत्तत्काले अस्मासु अस्मास्वेवभवत्वितिशेषः नान्यस्य किंच हेमरुतः यच्चदुस्तरं दुःखेनतरणीयं संपादनीयं धनं दिधृत धारयत तदस्मासु किंच दुस्तरं शत्रुभिरहिंसितं तत्सर्वमपि विशेषेणास्मासु स्थापयत ॥ ८ ॥