श्रवणम्

1.139.6
वृष᳚न्निन्द्र वृष॒पाणा᳚स॒ इन्द᳚व इ॒मे सु॒ता अद्रि᳚षुतास उ॒द्भिद॒स्तुभ्यं᳚ सु॒तास᳚ उ॒द्भिदः᳚ ।
ते त्वा᳚ मन्दन्तु दा॒वने᳚ म॒हे चि॒त्राय॒ राध᳚से ।
गी॒र्भिर्गि᳚र्वाह॒ः स्तव᳚मान॒ आ ग᳚हि सुमृळी॒को न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
वृष᳚न् । इ॒न्द्र॒ । वृ॒ष॒॑पाना᳚सः । इन्द᳚वः । इ॒मे । सु॒ताः । अद्रि᳚॑सुतासः । उ॒त्॑भिदः᳚ । तुभ्य᳚म् । सु॒तासः᳚ । उ॒त्॑भिदः᳚ ।
ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने᳚ । म॒हे । चि॒त्राय᳚ । राध᳚से ।
गीः॒॑भिः । गि॒र्वा॒हः॒ । स्तव᳚मानः । आ । ग॒हि॒ । सु॒॑मृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृषन् वर्षितःकामानां इमेपुरतोदृश्यमानाइन्दवःसोमाः सुताः त्वदर्थमभिषुताः कीदृशा- स्तेवृषपानासः अभिमतवर्षकेणत्वयापातव्याः अद्रिसुतासः अद्रिभिर्दृढैः पाषाणैः अभिषवसाधनैः सुताः अद्भिदः उद्भेदकाः वर्षस्य तएवपुनर्विशेष्यन्ते उद्भिदः बलस्योद्भेदकाः उद्भिन्नावापर्वतादौ तादृशाः सोमाः तुभ्यंसुतासः त्वदर्थमेवाभिषुताः किंच तेतादृशाः सोमाः त्वात्वांमन्दन्तु तर्पयन्तु कुत्रेतितदुच्यते—दावनेदानवतियागे अभिमतदानायवा तथामहे महते चित्रायचायमानाय विचि- त्रायनानाविधायवा राधसे धनाय किंच हेगिर्वाहः गिरांस्तुतीनांअस्मदीयानांवोढः वहिहाधाञ्भ्य- इत्यसुन् गीर्भिः अस्मत्स्तुतिभिः स्तवमानःसन् आगहि आगच्छ नोस्मान्सुमृळीकः सुष्ठुमृडयितासन् आगहिआगच्छ ॥ ६ ॥ दशरात्रस्यषष्ठेहनिप्रातःसवनेनेष्टुःप्रस्थितयाज्यायाःपुरस्तादोषूणोअग्नइत्येषावपनीयाएकीकृत्यो- भाभ्यांयागः षष्ठस्येतिखण्डेसूत्रितं—ओषूणोअग्नेश्रृणुहित्वमीळितोग्निंहोतारमिति तस्मिन्नेवसवने प्र- उगशस्त्रेद्वितीया सूत्रितंच—अस्तुश्रौषळोषूणोअग्नइति ।