श्रवणम्

1.139.9
द॒ध्यङ्ह᳚ मे ज॒नुषं॒ पूर्वो॒ अङ्गि᳚राः प्रि॒यमे᳚ध॒ः कण्वो॒ अत्रि॒र्मनु᳚र्विदु॒स्ते मे॒ पूर्वे॒ मनु᳚र्विदुः ।
तेषां᳚ दे॒वेष्वाय᳚तिर॒स्माकं॒ तेषु॒ नाभ᳚यः ।
तेषां᳚ प॒देन॒ मह्या न᳚मे गि॒रेन्द्रा॒ग्नी आ न᳚मे गि॒रा ॥
▶ पदपाठः (Word-by-word)
द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष᳚म् । पूर्वः᳚ । अङ्गि᳚राः । प्रि॒य॑मे᳚धः । कण्वः᳚ । अत्रिः᳚ । मनुः᳚ । वि॒दुः॒ । ते । मे॒ । पूर्वे᳚ । मनुः᳚ । वि॒दुः॒ ।
तेषा᳚म् । दे॒वेषु᳚ । आ॑य᳚तिः । अ॒स्माक᳚म् । तेषु᳚ । नाभ᳚यः ।
तेषा᳚म् । प॒देन᳚ । महि᳚ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति᳚ । आ । न॒मे॒ । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

दध्यङ् अथर्वगोत्रोत्पन्नएतन्नामकोमहर्षिः सचपूर्वःपूरकः सर्वस्यपुरातनोवाअङ्गिराः अङ्गारः तद्वत्तेजस्वीइत्यर्थः यद्वा अंगाराएवांगिरसोभवन् येऽङ्गाराआसंस्तेऽङ्गिरसोभवन्नितिश्रुतेः । अङ्गि- राअङ्गाराअङ्कनाइतिनिरुक्तम् । एतन्नामामहर्षिश्चप्रियमेधः मेधाप्रियः प्रियमेधः प्रियाअस्यमेधा- इतियास्कः । कण्वःमेधावी सच अत्रिःदुःखत्रयरहितः अत्रिर्नत्रयइतिनिरुक्तम् । मनुः मननवान् एत- न्नामामहर्षिः एतेसर्वेमहात्मानोमहर्षयःमेजनुषं दिवोदासपुत्रस्यपरुच्छेपस्य जन्मविदुःजानन्ति वेत्ते- र्विदोलटोवेतिझेरुसादेशः किंच तेपूर्वोक्ताः पूर्वेपूर्वकालीनाः मेअस्मत्पित्रादीन् जानन्तइत्यर्थः मनुः मनवःज्ञानवन्तः यतस्तेपूर्वेमनवश्च अतोविदुरितिभावः सुपांसुलुगितिजसोलुक् तेषांज्ञानेउपपत्ति- माह—तेषांदध्यङ्ङादीनांदेवेषुइतरेषुदेवनशीलेषुमहर्षिषु मध्ये आयतिः दीर्घकालसंबन्धोस्तिअतो- विदुरित्यर्थः ततश्चकिमित्याह—अस्माकंनाभयःजीवेनसहसंबन्धवन्तःप्राणाः फलेनसहसंबद्धायागा- वः तेषुतेष्वेववर्तन्ते असौविशिष्टजन्मा वोयज्ञयोग्यइति तैर्वक्तव्यत्वेनतदधीनत्वं तेषांदध्यङ्ङादीनां- पदनआस्पदेनमहत्त्वेननिमित्तेनगिरास्तुतिरूपयावाचामहिमहत् अत्यधिकंआनमे नमामि सर्वोजनः किंच तेषामनुग्रहात् यज्ञयोग्यःसन् इन्द्राग्नी गिरास्तुतिरूपयावाचायुक्तःसन्नानमे आभिमुख्येननमा- मिस्तौमिनमामिचेत्यर्थः नमेर्व्यत्ययेनात्मनेपदं यद्वा कर्मकर्तरिनदुहस्नुनमामितियकःप्रतिषेधः स्वयमेवनतोऽस्मि हपूरणः ॥ ९ ॥