श्रवणम्

1.139.3
यु॒वां स्तोमे᳚भिर्देव॒यन्तो᳚ अश्विनाश्रा॒वय᳚न्त इव॒ श्लोक᳚मा॒यवो᳚ यु॒वां ह॒व्याभ्या॒३॒᳚यवः᳚ ।
यु॒वोर्विश्वा॒ अधि॒ श्रिय॒ः पृक्ष᳚श्च विश्ववेदसा ।
प्रु॒षा॒यन्ते᳚ वां प॒वयो᳚ हिर॒ण्यये॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । सोमे᳚भिः । दे॒व॒॑यन्तः᳚ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय᳚न्तः॑इव । श्लोक᳚म् । आ॒यवः᳚ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः᳚ ।
यु॒वोः । विश्वाः᳚ । अधि᳚ । श्रियः᳚ । पृक्षः᳚ । च॒ । वि॒श्व॒॑वे॒द॒सा॒ ।
प्रु॒षा॒यन्ते᳚ । वा॒म् । प॒वयः᳚ । हि॒र॒ण्यये᳚ । रथे᳚ । द॒स्रा॒ । हि॒र॒ण्यये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना अश्विदेवौ युवांस्तोमेभिःस्तोत्रैःदेवयन्तः युवामात्मनइच्छन्तः आयवः मनुष्यनामैतत् यजमानाः श्लोकंयुष्मदीयस्तुतिरूपांवाचं आश्रावयन्तइव सर्वतःश्रवणविषयांकुर्वन्तइव स्तुवन्ति श्लो- कइतिवाङ्गाम श्लोकःधाराइतितन्नामसूक्तत्वात् कीदृशास्ते युवांहव्याहविषाआज्यादिना अभ्यायवः आभिमुख्येनगंतारः प्रीणयितुमितिशेषः हवींषि आभिमुख्येनप्रापयन्तोवा किंच हेविश्ववेदसा सर्वध- नौ युवोर्युवयोः स्ंबन्धिन्योविश्वाःश्रियः सेवनीयाः सर्वालक्ष्मीः धनकनकादिरूपाः अधिअधिकंभज- न्तइतिशेषः किंच पृक्षश्च अन्नमपि युष्मत्प्रसादादधि अधिकंलभन्ते किंच हेदस्रा शत्रूणामुपक्षपयिता- रौ वां हिरण्ययेरथेहिरण्मयेमधुपूर्णे रथे पवयस्तन्नेमयः प्रुषायन्ते क्षरन्ति स्रवन्ति प्रुषप्लुषस्नेहनसेच- नपूरणेषु छन्दसिशायजपीत्यहावपिश्नःशायजादेशः मधुय्पूर्णपात्रोपेतत्वात् शीघ्रगमनेनचक्रेषु मधू- निस्रवन्तीतिभावः पवीरथनेमिर्भवतियद्विपुनातिभूमिमितिनिरुक्तम् । अश्विनोरथस्यमधुपूर्णत्वं त्रयः पवयोमधुवाहनेरथइत्यादिषुप्रसिद्धम् किंच तादृशे हिरण्ययेहिरण्मयेहृदयरमणेरथेमधुरं हविर्वहत- मितिशेषः ॥ ३ ॥