प्रथमं मण्डलम् - सूक्तम् 188

11 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: इध्मः समिद्धोग्निर्वा छन्दः: गायत्री

सूक्तम् 1.188 - सम्पूर्णम्

1 / 11
ऋक्: 1.188.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.188.1
समि᳚द्धो अ॒द्य रा᳚जसि दे॒वो दे॒वैः स᳚हस्रजित् ।
दू॒तो ह॒व्या क॒विर्व᳚ह ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒॑जि॒त् ।
दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने देवैर्व्यवहर्तृभिः ऋत्विग्भिः समिद्धः सम्यग्दीपितोदेवः अतएवदीप्यमानः समिद्धैर्वादेवैः सहितः समिद्धःसन् अद्यास्मिन्यागदिनेराजसिईशिषे हेसहस्रजित् सहस्रस्यधनस्यैतत् संख्याकानां- शत्रूणांवाजेतः ततः दूतः देवानांदूतवत् यज्ञादिवार्ताहरः आह्वातावा अग्निर्देवानांदूतआसीदितिश्रु- तेः । कविः क्रान्तदर्शी ईदृशस्त्वंहव्याअस्मदीयानिहवींषिवह देवेभ्यः प्रापय ॥ १ ॥

1.188.2
तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम᳚ज्यते ।
दध᳚त्सह॒स्रिणी॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
तनू᳚॑नपात् । ऋ॒तम् । य॒ते । मध्वा᳚ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ ।
दध᳚त् । स॒ह॒स्रिणीः᳚ । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तनूनपात् यज्ञशरीरस्यनपातयिता यद्वा आपोत्रतन्वउच्यन्तइत्युक्तत्वादपान्नपातयिता तासांन- प्तावा अद्भ्यओषधयः ओषधीभ्योग्नरितिनप्तृत्वं यज्ञःपूज्यः यज्ञनिर्वाहकत्वाद्वायज्ञः ईदृशोग्निः ऋतं- यज्ञंयते गच्छते अनुतिष्ठतेयजमानायतदभिमतार्थं मध्वामधुरेणआज्यसोमादिद्रव्येणसमज्यते सम्य- गक्तःक्रियते किंकुर्वन्नयं सहस्रिणीः एतत्संख्याकानि इषोन्नानिदधत् यजमानेभ्योधारयन् ॥ २ ॥

1.188.3
आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वा{4} आ व᳚क्षि य॒ज्ञिया᳚न् ।
अग्ने᳚ सहस्र॒सा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
आ॒॑जुह्वा᳚नः । नः॒ । ईड्यः᳚ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया᳚न् ।
अग्ने᳚ । स॒ह॒स्र॒॑साः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अजुह्वानः अस्माभिराहूयमानःसन् ईड्योस्माभिःस्तुत्यः इड्नामकः त्वन्नोस्मदर्थंयज्ञि- यान् यज्ञभाजोदेवान् आवक्षि आवह हेअग्ने त्वं सहस्रसाअसि अपरिमितधनस्यदातासि ॥ ३ ॥

1.188.4
प्रा॒चीनं᳚ ब॒र्हिरोज᳚सा स॒हस्र᳚वीरमस्तृणन् ।
यत्रा᳚दित्या वि॒राज᳚थ ॥
▶ पदपाठः (Word-by-word)
प्रा॒चीन᳚म् । ब॒र्हिः । ओज᳚सा । स॒हस्र᳚॑वीरम् । अ॒स्तृ॒ण॒न् ।
यत्र᳚ । आ॒दि॒त्याः॒ । वि॒॑राज᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राचीनंप्रागग्रं सहस्रवीरं सहस्रसंख्याकावीराः शत्रूणांविशेषेणईरयितारोदेवायस्यतत्तादृक् यद्वा अपरिमितावीराः पुत्रायोयेनतादृक् बर्हिरोजसामन्त्रलक्षणबलेनोपेताऋत्विजःअस्तृणन् आच्छादयन् यत्रयस्मिन्बर्हिषि आदित्याःअदितेःपुत्रायूयं विराजथ विविधंराजध्वे तद्बर्हिरस्तृणन् ॥ ४ ॥

1.188.5
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय᳚सीश्च॒ याः ।
दुरो᳚ घृ॒तान्य᳚क्षरन् ॥
▶ पदपाठः (Word-by-word)
वि॒राट् । स॒म्राट् । वि॒भ्वीः । प्र॒॑भ्वीः । ब॒ह्वीः । च॒ । भूय᳚सीः । च॒ । याः ।
दुरः᳚ । घृ॒तानि᳚ । अ॒क्ष॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विराट् विशेषेणराजतइति व्यत्ययेनैकवचनं सम्राट् सम्यगतिपूज्यतरंराजमानाः अत्रापिव्यत्यये- नैकवचनम् विभ्वीर्विभ्व्योविविधंभवित्र्यः प्रभ्वीः प्रभ्व्यः प्रकर्षेणभवित्र्यः बह्वीर्बह्व्यः भूयसीः लोकप्रसिद्धसंख्याभिर्भूयस्यश्चयाःदुरोयज्ञगृहद्वारःसन्ति ताघृतान्युदकानिप्राण्युपकारार्थमक्षरन् क्षरन्ति यद्वा बह्वीर्भूयसीरित्येतेसंख्यवचने शिष्टानितासांनामधेयानि ॥ ५ ॥

1.188.6
सु॒रु॒क्मे हि सु॒पेश॒साधि᳚ श्रि॒या वि॒राज᳚तः ।
उ॒षासा॒वेह सी᳚दताम् ॥
▶ पदपाठः (Word-by-word)
सु॒रु॒क्मे॒ इति᳚ सु॒॑रु॒क्मे । हि । सु॒॑पेश᳚सा । अधि᳚ । श्रि॒या । वि॒॑राज᳚तः ।
उ॒षसौ᳚ । आ । इ॒ह । सी॒द॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुरुक्मे शोभनदीप्ताभरणे हिप्रसिद्धे सुपेशसाशोभनरूपे ईदृश्यावहोरात्रदेवतेअधिअधिकं श्रिया- सौंदर्येणविराजतः विशेषेणदीप्येते हियोगादनिघातः तादृश्यावुषसौ एतद्रात्रेरप्युपलक्षणं उषः शब्दोदिवसस्योपलक्षकः रात्रिरुषाश्चोभे इहास्मिन् दिनेआसीदतां आगत्यतिष्ठतांआगछतांवा ॥ ६ ॥

1.188.7
प्र॒थ॒मा हि सु॒वाच᳚सा॒ होता᳚रा॒ दैव्या᳚ क॒वी ।
य॒ज्ञं नो᳚ यक्षतामि॒मम् ॥
▶ पदपाठः (Word-by-word)
प्र॒थ॒मा । हि । सु॒॑वाच᳚सा । होता᳚रा । दैव्या᳚ । क॒वी इति᳚ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमा मुख्यनामैतत् प्रतमौप्रकृष्टतमौ हिप्रसिद्धौ सुवाचसाप्रियवचनौ दैव्यादेवार्हौ होतारादेवा- नामाह्वातारौहोमनिष्पादकौवा कवीमेधाविनावेतौनोस्मदीयमिमंयज्ञं यक्षतांयजतांगच्छतांवा ॥ ७ ॥

1.188.8
भार॒तीळे॒ सर᳚स्वति॒ या व॒ः सर्वा᳚ उपब्रु॒वे ।
ता न᳚श्चोदयत श्रि॒ये ॥
▶ पदपाठः (Word-by-word)
भार᳚ति । इळे᳚ । सर᳚स्वति । याः । वः॒ । सर्वाः᳚ । उ॒प॒॑ब्रु॒वे ।
ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेभारति भरतआदित्यःतस्यसंबन्धिनीभारती तादृशिद्युलोकदेवते हेइळेभूदेवि हेसरस्वति सरो- वाउदकंवातद्वत्यन्तरिक्षदेवते तादृशिदेवि एताःक्षित्यादिदेवताः एतास्तिस्रः आदित्यप्रभावविशेश- रूपाइत्याहुः यास्तिस्रः सर्वावोयुष्मान् उपब्रुवे उपेत्यस्तौमि ताः यूयंनोस्मान् श्रियेसंपदे चोदयत प्रेरयत ॥ ८ ॥

1.188.9
त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा᳚न्त्समान॒जे ।
तेषां᳚ नः स्फा॒तिमा य᳚ज ॥
▶ पदपाठः (Word-by-word)
त्वष्टा᳚ । रू॒पाणि᳚ । हि । प्र॒॑भुः । प॒शून् । विश्वा᳚न् । स॒म्॑आ॒न॒जे ।
तेषा᳚म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वष्टायज्ञसाधनपात्राभिमानीदेवोरूपाणियोनौसृष्टानिरेतांसिरूपाणिकर्तुंप्रभुर्हि हिशब्दः श्रुत्य- न्तरप्रसिद्धिद्योतनार्थः योनौवैरेतसः सिक्तस्यत्वष्टारूपाणिविकरोतीतिश्रुतेः । सदेवोविश्वान्सर्वान- पिपशूनस्मदीयान् गवादिकान् समानजे सत्यगनक्ति व्यक्तीकरोति संपूर्वादनक्तेर्लिटितस्मान्नुडिति- नुट् अथप्रत्यक्षः तेषामक्तानांपशूनांस्फातिंवृद्धिंनोस्मदर्थमायज सर्वतःपूजय कुर्वित्यर्थः ॥ ९ ॥

1.188.10
उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्य᳚ः सृज ।
अ॒ग्निर्ह॒व्यानि᳚ सिष्वदत् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्मन्या᳚ । व॒न॒स्प॒ते॒ । पाथः᳚ । दे॒वेभ्यः᳚ । सृ॒ज॒ ।
अ॒ग्निः । ह॒व्यानि᳚ । सि॒स्व॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवनस्पतेयूपाभिमानिदेव त्मन्याआत्मनैवदेवेभ्योग्न्यादिभ्यःपाथः पशुरूपमन्नंउपसृज उत्पादय यूपाभावेपशुनियोजनाभावेनहविषोभावात् त्वय्येवंकृतवतिसतिअग्निर्हव्यानिहवींषि सिस्वदत् स्वा- दयतु स्वादूकरोतु ॥ १० ॥

1.188.11
पु॒रो॒गा अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम᳚ज्यते ।
स्वाहा᳚कृतीषु रोचते ॥
▶ पदपाठः (Word-by-word)
पु॒रः॒॑गाः । अ॒ग्निः । दे॒वाना᳚म् । गा॒य॒त्रेण᳚ । सम् । अ॒ज्य॒ते॒ ।
स्वाहा᳚॑कृतीषु । रो॒च॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्देवानांपुरोगाः असुरयुद्धंप्रतिपुरोगामी यद्वा देवानांमध्येयज्ञंप्रत्यग्निरेवपुरोगामी अत- एवाग्रणीत्वादेवाग्निशब्दोनिष्पन्नः अग्निः कस्मादग्रणीर्भवतीतिनिरुक्तम् । तादृशोयंगायत्रेण एतदु- पलक्षितमन्त्रेणसमज्यते सम्यक् लक्ष्यते स्वाहाकृतीषुस्वाहाकारेषुसत्सुहविः षुदीयमानेषु रोचते अत्यर्थंदीप्यते एताःप्रयाजदेवताः यज्ञावयवाभिमानिन्यः तद्द्वारायज्ञएवस्तूयतइतिकेषांचिन्मतं अग्ने- रेवनामान्तरमित्यन्ये ॥ ११ ॥

अग्नेनयेतिदशमंसूक्तमष्टर्चमागस्त्यंत्रैष्टुभमाग्नेयं अग्नेनयाष्टावाग्नेयमित्यनुक्रमणिका प्रातरनुवाका- श्विनशस्त्रयोस्त्रैष्टुभेछन्दसिविनियोगः अथैतस्याइत्यत्राग्नेनयाग्नेबृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्रउ- द्धरेदितिसूत्रितत्वात् अत्रशौनकः—उत्पथप्रतिपन्नोयोभ्रष्टोवापिपथः क्वचित् । पन्थानंप्रतिपद्येतकृ- त्वावाकर्मगर्हितम् ॥ १ ॥

अग्नेनयेतिसूक्तेनप्रत्यृचंजुहुयाद्घृतम् । जपेच्चप्रयतोनित्यमुपतिष्ठेतवानलमि- ति ॥ २ ॥

आद्याश्चतस्रः श्रवणाकर्मणिविनियुक्ताः श्रावण्यांपौर्णमास्यामित्यत्रसूत्रितम् अग्नेनयसुपथा- रायेअस्मानितिचतसृभिःप्रत्यृचंहुत्वेति आग्नेयेपशौवपापुरोडाशयोराद्येद्वेअनुवाक्ये तथाचसूत्रितम्- अग्नेनयसुपथारयेअस्मान् पाहिनोअग्नेपायुभिरजस्रैरिति आद्याप्रायणीयेष्टौआग्नेयस्यानुवाक्यासैवोद- यनीयेयाज्या तदहःप्रायणीयेष्टिरित्यत्रसूत्रितम्—अग्नेनयसुपथारायेअस्मानादेवानामपिपंथामगन्मे- तिविपरीताश्चयाज्यानुवाक्याइतिच ।