प्रथमं मण्डलम् - सूक्तम् 42

10 ऋचः

ऋषिः: कण्वो घौरः देवता: पूषा छन्दः: गायत्री

सूक्तम् 1.42 - सम्पूर्णम्

1 / 10
ऋक्: 1.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.42.1
सं पू᳚ष॒न्नध्व᳚नस्तिर॒ व्यंहो᳚ विमुचो नपात् ।
सक्ष्वा᳚ देव॒ प्र ण᳚स्पु॒रः ॥
▶ पदपाठः (Word-by-word)
सम् । पू॒ष॒न् । अध्व᳚नः । ति॒र॒ । वि । अंहः᳚ । वि॒॑मु॒चः॒ । न॒पा॒त् ।
सक्ष्व᳚ । दे॒व॒ । प्र । नः॒ । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् जगत्पोषक पृथिव्यभिमानि देव अध्वनो मार्गात्सं तिर । अस्मानभीष्वस्थानं सम्यक् प्रापय । आंहो विघ्नहेतुं पाप्मानं वि तिर । विनाशय । पूषा विशेष्यते । विमुचो नपात् । जलविमोचकहेतोर्मेघस्य पुत्र । नपादिति पुत्र नाम । नपात्प्रचेति तन्नामसु पाठात् । श्रुत्यंतरेऽद्भ्यः पृथिवीति जलाद्भूम्युत्पत्तिः श्रूयते । तथान्यऽत्राप्युदकसारत्वं पृथिव्याः श्रूयते । तद्यदपां सार असीत्तत्समहन्यत सा पृथिव्यभवदिति । मेघस्य जलधारित्वादुदकपुत्र एव मेघपुत्रो भवति । न च पृथिव्या मेघपुत्रत्वे पूष्णः किमायातमिति वाच्यम् । पृथिव्या एव पूषत्वात् । तथा च श्रुत्यंतरे कस्यचिन्मंत्रस्य ब्राह्मणमेवमाम्नायते । पूषाध्वनः पात्वित्याहेयं वै पूषेति । तन्निर्वचनं चान्यत्रैवमाम्नायते । इयं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किं च । शत ब्रा १४-४-२-२५ । इति । हे देव पूषन् नः पुरोऽस्माकं पुरतः प्रसक्ष्व । प्रसक्तो भव । पुरतो गच्छेत्यर्थः विमुचो नपात् । उदकं विमुंचतीति विमुङ् मेघः । क्विप्चेति क्विप् । न पातयति कुलमिति नपात् पुत्रः । नञ् पूर्वात् पातयतेः क्विप् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । सक्ष्व । षच सेवने । अनुदात्तेत्त्वादात्मनेपदम् । लोट बहुलं छंदसीति शपो लुक् । शास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः । प्र णः । उपसर्गाद्बहुलमिति नसो णत्वम् । पुरः । उक्तः ॥ १ ॥

1.42.2
यो नः᳚ पूषन्न॒घो वृको᳚ दु॒ःशेव᳚ आ॒दिदे᳚शति ।
अप᳚ स्म॒ तं प॒थो ज᳚हि ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः᳚ । दुः॒शेवः᳚ । आ॒॑दिदे᳚शति ।
अप᳚ । स्म॒ । तम् । प॒थः । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् यः प्रतिपक्षी नोऽस्मानादिदेशति अनेन मार्गेण गंतव्यमित्येवमाज्ञापयति । कीदृशः । अघ आहंता वृकोऽस्मदीयस्य धनस्यादाता । अपहर्तेत्यर्थः । दुःशेवः सेवितुं दुःशको दुष्टसुखो वा । तं तादृशं प्रतिपक्षिणं पथो मार्गादपजहि स्म । अवश्यमपाकुरु ॥ वृकः । कुक वृक आदाने । वर्कत इति वृकः इगुपधलक्षणः कः । वृषादित्वादाद्युदात्तत्वम् । दुःशेवः । दुष्टं शेवं यस्यासौ दुःशेवः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । यद्वा । दुःखेन सेव्यत इति दुःशेवः । वर्णव्यत्ययेन सकारस्य तकारः । ईषद्दुःसुष्विति खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आदिदेशति । दिश अतिसर्जने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीति वक्तव्यं पा ७-३-८७-२ । इति वचनान्नाभ्यस्तस्याचीति लघूपधगुणप्रतिषेधाभावः । पथः उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ २ ॥

1.42.3
अप॒ त्यं प᳚रिप॒न्थिनं᳚ मुषी॒वाणं᳚ हुर॒श्चित᳚म् ।
दू॒रमधि᳚ स्रु॒तेर᳚ज ॥
▶ पदपाठः (Word-by-word)
अप᳚ । त्यम् । प॒रि॒॑प॒न्थिन᳚म् । मु॒षी॒वाण᳚म् । हु॒रः॒॑चित᳚म् ।
दू॒रम् । अधि᳚ । स्रु॒तेः । अ॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तादृशं पूर्वोक्तगुणयुक्तं स्रुतेर्मार्गादधि दूरमत्यंतदूरदेशं प्रति अपाज । अपगमय । कीदृशम् । परिपंथिनं मार्गप्रतिबंधकं मुषीवाणं तस्कररूपम् । मुषीवेति तस्करस्य नाम । मुषीवान् मलिम्लुच इति तन्नामसु पाठात् । हुरश्चितं कौटिल्यानां संचेतारं ॥ परिपंथिनम् । छंदसि परिपंथिपरिपरिणौ पर्यवस्थातरि (पा ८-२-८९) इति शत्रावभिधेय इनिप्रत्ययांतो निपातितः । मुषीवाणम् । मुषस्तेये । मोषणं मुषिः । औणादिको भावे किप्रत्ययः । मुषिं वनति संभजत इति मुषीवा वन षण संभक्तौ । अन्येभ्योऽपि दृश्यंत इति विच् प्रत्ययः । सर्वनामस्थाने चासंबुद्धौ (पा ६-४-८) इति दीर्घः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । हुरश्चितम् । हुर्छा कौटिल्ये । संपदादिलक्षणो भावे क्विप् । राल्लोप इति छकारलोपः । हुरश्चिनोतीति हुरश्चित् । चिनोतेः क्विपि तुगागमः । तत्पुरुषे कृति बहुलमित्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुत्रेः । स्रुगतौ । क्तिच् क्तौ च संज्ञायामिति क्तिच् । चित इत्यंतोदात्तत्वम् । अज । अज गतिक्षेपणयोः ॥ ३ ॥

1.42.4
त्वं तस्य᳚ द्वया॒विनो॒॑घशं᳚सस्य॒ कस्य᳚ चित् ।
प॒दाभि ति᳚ष्ठ॒ तपु᳚षिम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । तस्य᳚ । द्व॒या॒विनः᳚ । अ॒घ॑शं᳚सस्य । कस्य᳚ । चि॒त् ।
प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु᳚षिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् त्वं तस्य चोरस्य तपुषिं परसंतापकं देहं पदाभि तिष्ठ । भवदीयेन पादेनाक्रम्य तिष्ठ । कीदृशस्य । द्वयाविनः प्रत्यक्षापहारः परोक्षापहारश्चेति यद्द्वयं तद्युक्तस्य अघशंसस्य अस्मास्वघमनिष्टं शंसतः । अघशंस इति तस्करनाम । मल्लिम्लुचोऽघशंसो वृक इति तन्नामसु पाठात् । कस्य चिदनिर्दिष्टविशेषस्य कस्यापि ॥ द्वयाविनः । द्वयमस्यास्तीति द्वयावी । बहुलं छंदसीति मत्वर्थीयो विनिः । अन्येषामपि द्यश्यत इति दीर्घत्वम् । अघशंसस्य । अघे पापे शंसो मनस्यभिलाषो यस्य सोऽयमघशंसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तपुषिम् । तापयत्यनेनान्यमिति तपुषिः । औणादिक उषिन्प्रत्ययः । बहुलवचनादिकारस्य नेत्संज्ञा । नित्वादाद्युदात्तत्वं ॥ ४ ॥

1.42.5
आ तत्ते᳚ दस्र मन्तुम॒ः पूष॒न्नवो᳚ वृणीमहे ।
येन᳚ पि॒तॄनचो᳚दयः ॥
▶ पदपाठः (Word-by-word)
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒॑मः॒ । पू॒ष॒न् । अवः᳚ । वृ॒णी॒म॒हे॒ ।
येन᳚ । पि॒तॄन् । अचो᳚दयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मंतुमो ज्ञानवन् दस्र दर्शनीय यद्वा वैर्युपक्षयकारिन् पूषन् ते त्वदीयं तदवस्तादृशं रक्षणमा वृणीमहे । सर्वतः प्रार्थयामहे । येन रक्षणेन पितृन् अंगिरःप्रभृतीन्पितृदेवानचोदयः प्रेरितवानसि । तद्रक्षणमिति पूर्वत्रान्वयः ॥ दस्र । दसि दंसनदर्शनयोः । स्छायितंचीत्यादिना रक् , आगमानुशासनस्यानित्यत्वान्नुमभावः । यद्वा । दसु उपक्षय इत्यस्मादंतर्भावितण्यर्थात्पूर्ववद्रक् । मंतुमः । मन ज्ञाने । कमिमनिजनीत्यादिना (उ १-७३) भावे तुप्रत्ययः । मंतुर्ज्ञानमस्यास्तीति मंतुमान् । संबुद्धौ मतुवसो रुरिति रुत्वम् । अचोदयः । चुद संचोदने । चौरादिकः ॥ २४ ॥ ५ ॥

1.42.6
अधा᳚ नो विश्वसौभग॒ हिर᳚ण्यवाशीमत्तम ।
धना᳚नि सु॒षणा᳚ कृधि ॥
▶ पदपाठः (Word-by-word)
अध᳚ । नः॒ । वि॒श्व॒॑सौ॒भ॒ग॒ । हिर᳚ण्यवाशीमत्॑तम ।
धना᳚नि । सु॒॑सना᳚ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वसौभग कृत्स्नधनयुक्त । यद्वा कृत्स्न सौभाग्ययुक्त हिरण्यवाशीमत्तमातिशयेन सुवर्णमयायुधवन् । पूषन् अध पूर्वोक्तास्मदीयप्रार्थनानंतरं नोऽस्माकं धनानि सुवर्णमणिमुक्तादीनि सुषणा सुष्ठु दानयुक्तानि कृधि । कुरु । अध । अथशब्दे धत्वं छांदसम् । निपातस्य चेति संहितायां दीर्घत्वम् । विश्वसौभग । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावेऽञ् (पा ५-१-१२९) हृद्भगसिंध्वंते पूर्वपदस्य च (पा ७-३-१९) इत्युत्तरपदवृद्धौ प्राप्तायां सत्यां सर्वविधीनां छंदसि विकल्पितत्वादुत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् । विश्वानि सौभगानि यस्यासौ विश्वसौभगः । आमंत्रितनिघातः । हिरण्यवाशीमत्तम । हिरण्यमयी वाशी । तदेषामस्तीति हिरण्यवाशीमंतः । अतिशयेन हिरण्यवाशीमान् हिरण्यवाशीमत्तमः । आमंत्रितनिघातः । सुषणा । वन षण संभक्तौ । सुखेन संभज्यंत इति सुषणानि । ईषद्दुः सुष्वितिखल् । शेश्छंदसीति शेर्लोपः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं कृधि । डुकृञ् करणे । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् ॥ ६ ॥

1.42.7
अति᳚ नः स॒श्चतो᳚ नय सु॒गा नः᳚ सु॒पथा᳚ कृणु ।
पूष᳚न्नि॒ह क्रतुं᳚ विदः ॥
▶ पदपाठः (Word-by-word)
अति᳚ । नः॒ । स॒श्चतः᳚ । न॒य॒ । सु॒॑गा । नः॒ । सु॒॑पथा᳚ । कृ॒णु॒ ।
पूष᳚न् । इ॒ह । क्रतु᳚म् । वि॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सश्चतोऽस्मद्बाधनाय प्राप्नुवतः शत्रून्नोऽति अस्मानतिक्रम्य नय । अन्यत्र प्रापय । नोऽस्मान् सुगा सुष्ठु गंतुं शक्येन सुपथा शोभनमार्गेण कृणु । गंतृन्कुरु । हे पूषन् इहाध्वनि क्रतुं प्रज्ञानमस्मद्रक्षणरूपं विदः जानीहि । सश्चतः । ग्लुन्च षस्ज गतावित्यत्र सश्चिमप्येके पठंतीति धातुवृत्तावुक्तम् । अस्माल्लटः शतृ । बहुलं छंदसीति शपो लुक् । प्रत्ययस्वरेण शतुरुदात्तत्वम् । शतुरनुम इति विभक्त्युदात्ताभावश्छांदसः । सुगा । सुष्ठु गच्छंत्यत्रेति सुगः । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । सुपां सुलुगिति तृतीयाया आकारः । सुपथा । शोभनेन पथा । न पूजनात् (पा ५-४-६९) इति समासांतप्रतिषेधः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं न भवति । अबहुव्रीहित्वात् । तत्र हि बहुव्रीहाविति वर्तते । कृणु कृवि हिंसाकरणयोः । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । उतश्च प्रत्ययादिति हेर्लुक् । विदः । विदज्ञाने । लेट्यडागमः । इतश्च लोप इतीकारलोपः ॥ ७ ॥

1.42.8
अ॒भि सू॒यव᳚सं नय॒ न न᳚वज्वा॒रो अध्व᳚ने ।
पूष᳚न्नि॒ह क्रतुं᳚ विदः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सु॒॑यव᳚सम् । न॒य॒ । न । न॒व॒॑ज्वा॒रः । अध्व᳚ने ।
पूष᳚न् । इ॒ह । क्रतु᳚म् । वि॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् सुयवसं शोभनतृणोपलक्षितं सर्वौषधियुक्तं देशमभिनय । अस्मानभितः प्रापय । अध्वने मार्गाय नवज्वारो नूतनः संतापो न भवत्वितिशेषः । मार्गे गच्छता मस्माकामिदानींतनः क्लेशः कोऽपि मा भूदित्यर्थः । गतार्थमन्यत् । सूयवसम् । शोभनं यवसं यस्मिन्देशे स सूयवसो देशः । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादिर्वा द्रष्टव्यः । नवज्वारः । ज्वर रोगे । भावे घञ् । नवश्चासौ ज्वारो नवज्वारः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ८ ॥

1.42.9
श॒ग्धि पू॒र्धि प्र यं᳚सि च शिशी॒हि प्रास्यु॒दर᳚म् ।
पूष᳚न्नि॒ह क्रतुं᳚ विदः ॥
▶ पदपाठः (Word-by-word)
श॒ग्धि । पू॒र्धि । प्र । यं॒सि॒ । च॒ । शि॒शी॒हि । प्रासि᳚ । उ॒दर᳚म् ।
पूष᳚न् । इ॒ह । क्रतु᳚म् । वि॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् शग्धि । अस्माननुग्रहीतुं शक्तो भव । पूर्धि । अस्मद्गृहं धनेन पूरय । किंच प्रयंसि । अन्यदप्यपेक्षितं वस्तु प्रयच्छ । शिशीहि । अस्मान्सर्वेषु मध्ये तीक्ष्णीकुरु । तेजस्विनः कुर्वित्यर्थः । उदरमस्मदीयं प्रासि । मृष्टान्नेन सोमरसेन वा पूरय । अन्यत्पूर्ववत् ॥ शग्धि । शक्लृ । शक्तौ । लोटो हिः । बहुलं छंदसीति विकरणस्य लुक् । हुझल्भ्यो हेर्धिरिति धिरादेशः । हेरपित्त्वात्प्रत्ययस्वरेणोदात्तत्वम् । पूर्धि । पृ पालनपूरणयोः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । पूर्ववद्विकरणस्य लुक् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । तिङः परत्वान्निघाताभावः । यंसि यम उपरमे । लोडर्थे लट पूर्ववद्विकरणस्य लुक् । निघातः । शशीहि । शो शनूकरणे । लोट बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । प्रत्ययस्वरः । प्रासि । प्रा पूरणे । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ ९ ॥

1.42.10
न पू॒षणं᳚ मेथामसि सू॒क्तैर॒भि गृ᳚णीमसि ।
वसू᳚नि द॒स्ममी᳚महे ॥
▶ पदपाठः (Word-by-word)
न । पू॒षण᳚म् । मे॒था॒म॒सि॒ । सू॒क्तैः । अ॒भि । गृ॒णी॒म॒सि॒ ।
वसू᳚नि । द॒स्मम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषणं देवं न मेथामसि । वयं न तु निंदामः । किंतु सूक्तैर्वेदगतैरभि गृणीमसि । सर्वत्र स्तुमः । दस्मं दर्शनीयं पूषणं प्रति वसूनि धनानीमहे । याचामहे मेथामसि । मेथृ मेधाहिंसनयोः । लटीदंतो मसिरिति मस इकारागमः । सूक्तैः । सुष्ठु स्तुवते देवताः प्रकाशयंतीति सूक्तानि । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तः । वचि स्वपीत्यादिना संप्रसारणम् । थाथादिस्वरः । यद्वा । कर्मणि निष्ठा । सूपमानात् क्तः (पा ६-२-१४५) इत्युत्तरपदांतोदात्तत्वम् । गृणीमसि । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । इदंतो मसिः । दस्मम् । इषियुधींधिदसिश्याधूसूभ्यो मक् । उ १-१-१४४ । इति मक्प्रत्ययः ॥ २५ ॥ १० ॥